अत्र नैयायिकाः..
अथ शक्तौ श्रुत्यादिनिरूपणम् ।
तर्कताण्डवम्
अत्र नैयायिकाः उत्तेजकाभावविशिष्टमण्याद्यभावरूपदृष्ट-कारणविरहादेव दाहानुत्पत्त्युपपत्तेर्न शक्तिसिद्धिः ।।
ननु मण्याद्यभावानां न तावन्मण्याद्यभावत्वेन कारणत्वमननु-गमात् । नापि प्रतिबन्धकाभावत्वेन अन्योन्याश्रयात् । कारणीभूता-भावप्रतियोगिन एव प्रतिबन्धकत्वात् । मन्त्रसत्त्वेपि मण्यभावमात्रेण दाहापत्तेश्च । तस्यापि प्रतिबन्धकाभावत्वात् । न हि यावत्कारण-समवधान एव कार्यम् । एकदण्डसमवधानेपि घटोत्पत्तेरिति चेन्मैवम् । दण्डचक्रादिकूटवत्सकलानां मण्यादीनां संसर्गाभावकूटस्य दाहजनकत्वेनाननुगमान्योन्याश्रययोरभावात् ।।
एतेन दाहकाले सकलानां मण्यादिसंसर्गाभावानां कूटोऽसम्भवी, मणिध्वंसकाले तत्प्रागभावस्यासम्भवादिति निरस्तम् । साकल्यस्य प्रतियोगिविशेषणत्वेनोक्ततया सर्वेषां मण्यादीनामेकैकस्य संसर्गा-भावस्य दाहकाले सत्त्वेन तादृशाभावकूटस्यापि तत्काले सत्त्वात् ।।
न्यायदीपः
यत्त्वुनमानखण्डे मणावीश्वरवादानन्तरं लीलावत्याद्यभिमतशक्त्यपलाप-प्रकारं निरस्य स्वयं प्रकारान्तरेणापलापप्रदर्शनं कृतं तदप्युच्यत इत्यादिना न युक्तमिति वक्तुमनुवदति ‘‘अत्र नैय्यायिका’’ इत्यादिना ‘‘तस्मान्न शक्ति’’रित्यन्तेन । उत्तेजकं प्रतिबन्धकप्रतिबन्धकं, तदभावविशिष्टो यो मण्यादिस्तदभावेत्यर्थः । मण्याद्युक्तं मणिमन्त्रौषधाद्यभावानां कूटस्य कारणत्वं शङ्कोत्तराभ्यां व्यनक्ति ।। नन्वित्यादिना ।। अन्योन्याभावव्यावृत्त्यर्थं प्रागभावादिसाधारणाभावलाभं चाह ।। संसर्गाभावकूटस्येति ।। सकलपदस्य मण्यादेर्विशेषणत्वेनोक्तौ कृत्यं व्यनक्ति ।। एतेनेति ।। एतच्छब्दार्थं स्फुटीकरोति ।। साकल्यस्येति ।। अभावविशेषणत्वे हि स्यात् त्वदुक्तदोषः । न चैवमित्यर्थः । प्रतिबन्धकाभावेनोक्तौ कृत्यं व्यनक्ति ।। एतेनेति ।।१