न चोक्तानुमानानां सत्प्रतिपक्षत्वं शङ्क्यम्
एतेन वेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति ..
एतेन बुबोधयिषुपठितो वेदः स्वानपेक्षस्वसमानविषयक-ज्ञानपूर्वकः..
एतेन वेदस्य यथार्थज्ञानपूर्वकत्वाभावेऽन्धपरम्परा स्यादिति निरस्तम् ..
ननु ‘‘शरीरं मे’’ इत्यादावीश्वरादेरेव..
एतेनैव काठकं कालापकं इत्यादि समाख्ययेश्वरसिद्धिः..
नापि वेदस्तात्पर्यपूर्वकःप्रमाणशब्दत्वात् भारतवत्
एतेन वैदिकानि निन्दावाक्यानि हानाभिप्रायपूर्वकाणि ..
ननु यथा वेदानादित्वश्रुतिर्न वेदस्वरूपानादित्वपरा ..
न चोक्तानुमानानां सत्प्रतिपक्षत्वं शङ्क्यम्
पौरुषेयत्वानुमानादिभङ्गः
तर्कताण्डवम्
न चोक्तानुमानानां सत्प्रतिपक्षत्वं शङ्क्यम् । वेदः पौरुषेयो वाक्यत्वाल्लौकिकवाक्यवदित्यत्र पुरुषाधीनोत्पत्तिकत्वरूपे सकर्तृकत्वे साध्ये उक्तरीत्या क्रमस्य कृतकत्वेन सिद्धसाधनात् । अर्थमुपलभ्य रचितत्वरूपे विप्रतिपन्ने पौरुषेयत्वे साध्ये च अबुद्धिपूर्वकत्वेऽपि रेखाविशेषवत्त्वेनैव पिपीलिकादिलिपेर्लिपित्ववत्, १गुणाजन्ययोः साक्षिज्ञानेश्वरज्ञानयोर्याथार्थ्यवत्, आकाङ्क्षादिमत्त्वेनैव आकाङ्क्षादि-मत्स्वप्नादिवाक्यस्य वाक्यत्ववच्च वेदस्यापि वाक्यत्वस्य उपपत्त्या गौरवेणोक्तसाध्यंप्रत्यप्रयोजकत्वात् ।
अन्यथा वेदो ज्ञानकरणेनार्थमुपलभ्य रचितो वाक्यत्वादित्यपि स्यात् । अर्थानभिज्ञोच्चारिते आधुनिके वेदे विसंवादिनि शुकादिवाक्ये च व्यभिचाराच्च । उक्तश्रुत्यादिबाधप्रतिकूलतर्कपराहत्यादिसाधारण-दोषाच्च ।
अत्रोक्तं मणौ वेदः सजातीयोच्चारणानपेक्षोच्चरितजातीयो वाक्यत्वात् सम्मतवत् । अत्र साध्ये सजातीयपदं शब्दमूलकशब्दे व्यभिचारपरिहारार्थम् । शब्दस्यार्थैक्यमात्रेण मूलत्वोपपत्त्योच्चारण-साजात्यस्यानपेक्षितत्वात् । जातीयपदं त्वाधुनिकवेदे बाध-निरासार्थम् । तत्र च न सिद्धसाधनम् । अपौरुषेयत्वपक्षे सर्वस्यापि वेदाध्ययनस्य गुर्वध्ययनपूर्वकत्वेन सजातीयोच्चारणसापेक्षत्वात् । न चाप्रयोजकता । उक्तसाध्ये वेदातिरिक्तवाक्यत्वापेक्षया लघुत्वेन वाक्यत्वस्यैवप्रयोजकत्वादिति ।
मैवम् । मीमांसकंप्रति सिद्धसधनाभावेऽपि मांप्रति, सर्गादावीश्वरेण स्वबुद्धिस्थपूर्वपूर्वकल्पक्रमेणोच्चारणेऽपि तस्यो-च्चारणन्तरानपेक्षत्वेन सिद्धसाधनात् । व्याप्य इव व्यापकेऽप्य-वच्छेदकलाघवस्यादरणीयत्वेनोच्चरितत्वस्यैव व्यापकतया हेतोरुक्त-साध्यंप्रति गौरवेणाप्रयोजकत्वाच्च । आकाङ्क्षादिमत्त्वं तु त्वयाप्या-हर्तव्यम्१ । स्वयम्प्रतिभातानां वेदवाक्यानां सजातीयोच्चारणा-नपेक्षत्वेनांशे सिद्धसाधनाच्च ।
न्यायदीपः
पञ्चमस्तबके कुसुमाञ्जल्याद्युक्तमनुमानमाशङ्क्यप्रतिज्ञादोषेण निराह ।। वेद इति ।।प्रमाकरणामूलकत्वे सतिप्रमाणशब्दरूपो वेद इत्यर्थः ।। उक्तरीत्येति ।। १वेदापौरुषेयत्वानुमानवादे क्रमविशेषविशिष्टानां वर्णना-मित्यादिनोक्तरीत्येत्यर्थः । ‘‘न च लौकिकवाक्यवत्सकर्तृकत्वम् । तस्या-कर्तृकत्वप्रसिध्यभावात्’’ इत्यादिना तत्त्वनिर्णयतट्टीकयोरभिमतमप्रयोजकत्वं व्यनक्ति ।। अर्थमुपलभ्येत्यादिना ।। विप्रतिपन्न इति ।। तथाच न सिद्धसाधनतादोष इति भावः । अबुद्धिपूर्वकत्वेऽपीत्यस्य वाक्य-त्वस्योपपत्त्येत्यनेनान्वयः । तत्र दृष्टान्तत्रयोक्तिः ।। रेखेत्यादि स्वमते-नोक्तिः ।। साक्षीति शुकादिवाक्येपीश्वररचितत्वेन साध्यसत्त्वनिरासाय ।। विसंवादिनीति विशेषणोक्तिः ।
‘‘तर्कपराहतं च वाक्यत्वानुमानं श्रुतिपुराणविरुद्धं चे’’ति तत्त्वनिर्णय-टीकोक्तमाह ।। उक्तेति ।। एतच्चप्रतिकूलतर्कपदेनाप्यन्वेति । वेदापौरुषेय-त्वानुमाने येऽनुकलूतर्का उक्तास्ते सर्वे पौरुषेयत्वेप्रतिकूलतर्का इत्यर्थः । आदिपदेनानुकूलतर्कराहित्यग्रहः ।। साधारणेति ।। पौरुषेयत्वानुमानमात्र-साधारणेत्यर्थः ।। अत्रेति ।। वाक्यत्वहेतुदूषणविषये तत्परिहारार्थमन्यथानु-मानमुक्तं शब्दखण्डे वेदपौरुषेयत्ववाद इत्यर्थः । वेदः पौरुषेयो वाक्य-त्वादित्यत्र सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वमिति साध्यस्य निरुक्तत्वादेवंप्रयोग उक्तः सजातीयपदं समानजातीयानुपूर्वीकशब्दपरम् । सजातीयोच्चारणानपेक्षया तदपेक्षां विनैवोच्चरितो यस्तज्जातीय इत्यर्थः । सर्गादावीश्वरोच्चरितत्वं पर्यवस्यतीति विवक्षितसिद्धिरिति भावः ।
अस्फुटत्वात्पदकृत्यं व्यनक्ति ।। अत्रेति ।। पक्षधराद्युक्तमाह ।। बाधेति ।। तस्याध्यापकोच्चारणापेक्षयैवोच्चरितत्वाद् बाधः । जातीयपदे दत्ते तु तादृशादिकालीनजातीयत्वान्न बाध इति भावः । रुचिदत्तस्तु पठ्यमानभारतादौ सम्प्रदायमते हेतुनिश्चये साध्यसन्देहे सन्दिग्धानैकान्त्यमिति जातीयपदमित्यवोचत् ।
।। मीमांसकंप्रतीति ।। तस्य निरीश्वरवादित्वादिति भावः । ‘‘पौरुषेयत्वानुमानानामप्रयोजकत्वात्’’ इति सुधोक्तिमनुरुध्याप्रयोजकत्वं व्यनक्ति ।। व्याप्य इवेति ।। यथा धूमादौ नीलधूमत्वादिकं न व्याप्यता-वच्छेदकं किन्तु लाघवाद्धूमत्वादिकमित्युच्यते तथा व्यापकेऽपि पीतवह्नि-त्वादिकं न व्यापकतावच्छेदकं किन्तु वह्नित्वादिकमेव तद्वदिहापि वेदातिरिक्तवाक्यत्वापेक्षया वाक्यत्वं लघ्वितिवत् साध्ये वाक्यत्वनिरूपित-व्यापकतावच्छेदकं न सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं किन्तु लाघवा-दुच्चरितत्वमेवेत्युक्तसाध्ये वाक्यत्वहेतुर्गौरवपराहतः सन्नप्रयोजको भवतीत्यर्थः ।
नन्वेवं वेदे आकाङ्क्षायोग्यताऽऽसत्त्यादिमत्त्वमपि न सिध्येत् । लाघवेनोच्चरितत्वमात्रेण वाक्यत्वस्योपपत्त्या गौरवेणाकाङ्क्षादिमत्त्वंप्रत्य-प्रयोजकत्वादित्यत आह ।। आकाङ्क्षादीति ।। त्वयापि ।। पौरुषेयत्व-वादिनापीत्यर्थः । वाक्यत्वस्याकाङ्क्षादिमच्छब्दत्वरूपतया तदभावे वाक्य-त्वस्य स्वरूपोच्छित्तेरुभयसम्मततया तत्र गौरवदोषाभावात् । इह च त्वदुक्तगुरुभूतसाध्येन विनाप्यस्तु वाक्यत्वमित्युक्तौ बाधकाभावादप्रयोज-कत्वमेव वाक्यत्वस्येति भावः ।। स्वयमिति ।। गुरुमुखोच्चारणापेक्षां विनैवेत्यर्थः ।
‘‘जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ।
मुनीनांप्रतिभास्यन्ति भागेनैव न सर्वशः’’ ।
इति स्मृत्या जन्मान्तरेऽधीतानामस्मिञ्जन्मनि गुरुमुखोच्चारणापेक्षां विनैव कदाचित्कालविशेषेप्रतीतानां वेदवाक्यानामित्यर्थः ।
यदत्रोक्तं रुचिदत्तादिना तद्भिन्नत्वेन पक्षो विशेषणीय इति तन्न । वेदः पौरुषेयो न वेति कृत्स्नवेदविषयपौरुषेयत्वविमत्यनानुगुण्येनार्थान्तरात् ।