किञ्च शक्त्यभावे तृणारणिमणीनां..

अथ तृणारणिमणीनामेकशक्तिमत्त्वसाधनम् ।

तर्कताण्डवम्

किञ्च शक्त्यभावे तृणारणिमणीनां वह्निजातीयरूपकार्येऽननुगमेन हेतुत्वं न युक्तमिति तेषामेकशक्तिमत्त्वेन अनुगमार्थं शक्तिः स्वीकार्या ।।

न च तृणादिर्वह्निविशेष एव हेतुः वह्निसामान्ये तु स्पर्शविशेष-वदवयवादिरिति वाच्यम् ।

न्यायदीपः

१यद्यप्यनुमानखण्डे मणौ तृणारणिमणीनां वह्नौ कारणत्वेनैकशक्तिमत्त्व-मुपेयमित्यादिना शक्तिसिद्धिं पूर्वपक्षयित्वा तन्निराकरणं सिद्धान्तितम् । तदपि निराकृत्य शक्तिं साधयति ।। किं चेति ।। एवं२ क्वचिच्छक्तिसिद्धौ पदेऽपि तदनुमानं भविष्यतीति पूर्ववदभिप्राय ऊह्यः ।

।। एकशक्तिमत्त्वेनेति ।। एकजातीयकार्यानुकूलशक्तिमत्त्वेनेत्यर्थः । अन्यस्याभावादनुकूलत्वं च कार्याभावप्रयोजकाभावप्रतियोगित्वं कारण-तदवच्छेदकोभयसाधारणम् । तेन शक्तेरवच्छेदकत्वेऽपि नानुकूलत्वहानिः । एवं च शक्तीनां प्रतिव्यक्ति नानात्वेन तन्निष्ठानुगतजात्यैवैकजातीयशक्ति-मत्त्वेनानुगतेरावश्यकत्वाच्छक्तौ जातेश्च तद्व्यञ्जकसंस्थानविशेषादेरभावेनायोग इत्यादिदूषणानवकाशः । सिद्धान्ते जातेरभावाच्च ।।

यद्वा संसर्गानुगतैकैवास्तु१ । न चैवमेकतृणव्यक्तिनाशे आश्रयनाश-प्रयुक्तशक्तिनाशात् तृणान्तरादितः कार्याभावदोष इति वाच्यम् । आधेयशक्तिवादे वक्ष्यमाणदिशा समाधानसम्भवादित्याशयादित्याहुः ।।

वस्तुतस्तु एकशक्तिमत्त्वमित्यस्यैकजातीयशक्तिमत्त्वमित्येवार्थः । अनुगतजातेरभावेऽपि शक्तिव्याप्त्यादिग्रहसमर्थनवादे वक्ष्यमाणदिशा सदृशशक्तिमत्त्वस्यैवैकजातीयशक्तिमत्त्वशब्दार्थत्वात् । २तद्व्यभिचाराय तृणादेर्वह्निविशेष एव हेतुत्वं तर्हि तत्कार्ये३ वह्नित्वमाकस्मिकं स्यादित्यत आह ।। वह्निसामान्य इति ।। स्पर्शविशेषवन्त उष्णस्पर्शवन्तोऽवयवा इत्यर्थः । आदिपदेन तादृशद्रव्यादिग्रहः ।।

Load More