नन्विष्टसाधनत्वं न विधिः

विधिवादः

३२. अथ आप्ताभिप्रायस्य लिङाद्यर्थत्वे बाधकम् ।

नन्विष्टसाधनत्वं न विधिः । तथात्वे करणत्वस्य विध्यर्थेन लिङाभिहितत्वेन ‘‘उद्भिदा यजेत’’ इत्यादावनभिहिताधिकार-विहिततृतीयाऽनुपपत्तेरिति चेन्न । साधनत्वे अभिहितेऽपि तद्विशेषस्य करणत्वस्यानभिधानात् । लिङाऽन्तरङ्गस्वप्रकृतियज्यर्थमात्रगतेष्ट-साधनत्वेऽभिहितेऽपि यागविशेषरूपोद्भित्प्रातिपदिकार्थगतस्य तस्या-नभिधानेनोद्भित्प्रातिपदिकात्परस्याः तृतीयायाः सम्भवाच्च ।।

केचित्तु यागगतेष्टसाधनत्वमपि संसर्गमर्यादयैव लभ्यते । न त्वभिधीयत इत्याहुः ।।

न्यायदीपः

प्रागुक्तमाक्षिपति ।। नन्विति ।।१ विधिनिमन्त्रणेत्यादिपाणिनिसूत्रे लिङ्गाद्यर्थत्वेनोक्तो विधिरिष्टसाधनत्वं न भवतीत्यर्थः । येन तज्ज्ञानं प्रवर्तकमिति भावः । विध्यर्थेनेति बहुव्रीहिः । अभिहितत्वेन कथितत्वेनेत्यर्थः ।। अनभिहिताधिकारेति ।। द्वितीयस्य तृतीयपादे २‘‘अनभिहित’’ इत्यधिकारसूत्रम् । तिङ्कृत्तद्धितसमासैरकथित इत्यर्थकानभिहिताधि-कारेऽनभिहित इत्यनुवृत्तिप्रकरणे ३‘‘कर्तृकरणयोस्तृतीया’’ इति सूत्रेण तिङाद्यनभिहितकर्तरि करणे च तृतीया भवतीति विहिततृतीया न स्यात् । ‘‘उद्भिदा यजेत पशुकाम’’ इति पशुरूपेष्टसाधनत्वस्य यागनिष्ठत्वेन तस्य यागान्वितस्य यजेतेति तिङाऽभिहितत्वात् । उद्भिदेत्युपपदस्य चाद्याध्याय- चतुर्थपादीयोद्भिदधिकरणन्यायेन यागनामत्वेन यागनिष्ठकरणत्व-स्यैवोद्भित्पदगततृतीयाऽर्थत्वादिति भावः ।

।। तद्विशेषस्येति ।। १‘‘साधकतमं करणं’’ इति पाणिनिस्मृत्याऽति-शयितसाधनत्वरूपसाधनत्वविशेषस्य करणत्वात्तस्यैव च तृतीयार्थत्वा-दस्माभिश्चेष्टसाधनत्वस्यैव विधित्वाङ्गीकारेण इष्टकरणत्वस्य विधित्वानङ्गी-कारात् । तथा चोद्भिद्यागः इष्टसाधनं करणकारकं चेति लिङ्तृतीया-विभक्तिभ्यामर्थो लभ्यत इति भावः ।

ननु करणत्वेनोद्भिदादियागस्य लिङाऽनभिधानेऽपि साधनत्वेना-प्यभिहितत्वात्कथं तृतीयेत्यतः साधनत्वेनाप्यभिधानमुद्भिदादेर्विशेषस्य नेत्याह ।। लिङेति ।।

यद्वा लिङा करणत्वाभिधानेपि तृतीयालभ्यकरणत्वस्याभिधानं नास्त्ये-वेत्याह ।। लिङेति ।। उपपदान्वयात्पूर्वमेव लिङर्थान्वये हेतुरन्तरङ्गेति । तत्र हेतुः स्वप्रकृतीति । अन्विताभिधानवादेपि सामान्यत एवेतरान्वित-स्वार्थबोधकत्वेन विशिष्येतरान्वितस्वार्थाभिधानस्य पदान्तरसमभि-व्याहारकृतत्वादिति भावः ।

एतेन लिङैव साधनबोधनात् उद्भिदेति तृतीया व्यर्था शब्दसाधुत्व-मात्रार्था वेति निरस्तम् । लिङनुक्तकरणत्वार्थकत्वेन वोद्भित्प्राति-पदिकार्थगतकरणत्वार्थकत्वेन वा तृतीयायाः सार्थक्यसम्भवात् ।।

यत्तु साधनत्वसामान्यमुखेन यागसाधनत्वसामान्यमुखेन वोद्भिद्रूप-यागविशेषस्य करणकारकस्य अभिधानात् अनभिहिताधिकारोक्ततृतीया न युक्तेति रुचिदत्ताद्युक्तम् । तन्न । यथाकथञ्चिदभिहितत्वेन तृतीयाया अयोगे कटं कुर्यादित्यादाविष्टसाधनत्वस्य लिङर्थत्वे इष्टत्वेन कटस्याप्यभिहितत्वेन द्वितीयाऽनुपपत्त्यापत्तेः । तेन रूपेणाभिहितत्वस्यैव द्वितीयादिभञ्जकत्वे प्रकृतेऽपि साम्यात् ।।

यत्तु कर्तृकरणगतसङ्ख्यायाः तिङादिनाऽनभिधाने तृतीया भवति । अभिधाने तु न भवतीति पाणिनीयसूत्रार्थः । इह च करणगतसङ्ख्याया अनभिधानाद्भवति तृतीयेति पक्षधरादिमतम् । तन्न । कर्तृकर्मणो-राख्यातार्थत्वसमर्थनवादे कर्त्रादिगतसङ्ख्यामात्राभिधायित्वस्य निरसिष्यमाण-त्वादिति ।।

यत्तु मणौ विधिवादान्त्यभागे नव्यास्त्वित्यतः पूर्वं वस्तुतस्त्वभि-हितान्वयलभ्यं यागेष्टसाधनत्वम् । इष्टसाधनत्वमात्रस्य लिङर्थत्वादिति समाधानमुक्तं तदाह ।। केचित्त्विति ।। इह च यागस्य धातुलभ्यत्वाद्यागेष्ट-साधनत्वयोराधाराधेयभावस्य च प्रकृतिप्रत्ययस्य समभिव्याहारबलेन संसर्गमर्यादया भानोपपत्त्या तत्राभिधानवृत्तेर्गौरवेण केवलेष्टसाधनत्वस्यैव लिङाभिधानमिति भावः ।।

अत्रारुचिबीजं तु प्रागेवान्विताभिधानस्यान्वयाशक्यत्वेऽशाब्दत्वाद्यापत्ते-रुपपादितत्वेन तत्राभिधावृत्तेरेव वाच्यत्वात्त्वन्मतेऽपि वाक्यार्थरूपसंसर्गस्या- १शक्यत्वेऽपि तत्प्रतिपादनं लिङादेरस्त्येवेति ध्येयम् ।

Load More