ननु– स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेति चेन्न
अथ शक्तिवादः ।
अथ लीलावत्युक्तशक्त्यपलापप्रकारभङ्गः ।
तर्कताण्डवम्
ननु– स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेति चेन्न । यादृशात् करतलानलसंयोगाद्दाहो जायते तादृशादेव मण्यादिसमवधाने न जायत इति मण्यादिविघटनीयशक्तिसिद्धेः । तत्र दृष्टसामग््रयाः सत्त्वेन तद्विलम्बेन वा तत्सम्पादकादृष्टविलम्बेन वा दाहविलम्बायोगात् ।।
न्यायदीपः
विष्णावेव शक्तितात्पर्ये इत्ययुक्तम् । अतीन्द्रियशक्तावेव मानाभावादिति भावेन लिङ्गपादे ‘‘अत्ता चराचरग्रहणात्’’ इत्यधिकरणसुधायां ‘‘स्वरूप-सहकारिसमवधानातिरिक्तशक्तिरेव नास्तीति केचित्’’ इत्यादिना ‘‘आस्तां प्रपञ्च’’ इत्यन्तेन सङ्क्षेपेण शक्तिसमर्थनं कृतं, तत्स्पष्टं विवृण्वानः शक्ति-माक्षिप्य समाधत्ते ।। स्वरूपेत्यादिना ।। शब्दादिस्वरूपतत्सहकारिभ्या-मन्यशक्तावित्यर्थः ।
क्वचिदेव शक्तिसिद्धौ शब्दे सा सेत्स्यतीति भावेनोपपादनसौकर्याय प्रसिद्धवह्नौ तावत्साधयति ।। यादृशेति ।। दाहाभावस्य कारणवैकल्य-निमित्तकत्वशङ्काव्युदासायोक्तं यादृशात्तादृशादेवेति ।। न जायत इति ।। दाह इत्यनुषङ्गः ।
एतेन मण्यादेर्दाहादिप्रतिबन्धकत्वं प्राप्तं, ततः किमित्यत आह ।। इति मण्यादीति ।। इति शब्दो हेत्वर्थः । मण्यादेः प्रतिबन्धकत्वान्यथानु-पपत्तिरेव वह्न्यादिगतातीन्द्रियशक्तौ मानम् । कार्यानुकूलकिञ्चिद्धर्म-विघटकत्वरूपत्वात्प्रतिबन्धकत्वस्य कार्यानुकूलकिञ्चिद्धर्मश्च शक्तेरन्यो न युक्त इति भावः । एतच्चोपलक्षणम् । वक्ष्यमाणार्थापत्तिपञ्चकेनापीत्यपि ध्येयम् ।।
ननु– मण्यादेः प्रतिबन्धकत्वमेवासिद्धम् । मण्यादिसन्निधिस्थले दाहाभावस्य दाहसामग्र्यभावेन वा दाहसामग्रीसम्पादकादृष्टाभावेनोपपत्ते-रित्यतस्तादृशादेवेत्युक्तिकृत्यं व्यञ्जयन् प्रतिबन्धकत्वं तावद्द्रढयति ।। तत्रेति ।। मण्यादिसन्निधिस्थल इत्यर्थः ।।