यत्तूक्तं मणावस्माच्छब्दादयमर्थो बोद्धव्य इतीच्छारूपः ..
अथ सङ्केतसम्बन्धभङ्गः ।
स्वाभाविकः सम्बन्धः शक्ति:
तर्कताण्डवम्
यत्तूक्तं मणावस्माच्छब्दादयमर्थो बोद्धव्य इतीच्छारूपः सङ्केत एव शक्तिर्न त्वौत्पत्तिकः सम्बन्ध इति । तन्न । गङ्गापदात् तीरं प्रत्येत्वितीच्छयैव गङ्गाशब्दस्य प्रयोगेन तीरेऽपि शक्तिप्रसङ्गात् ।।
न्यायदीपः
एवं कथमन्विते शक्तिरित्युपक्रम्य प्रकरणसप्तकेन पदार्थस्त्वित्युपक्रम्य प्रकरणपञ्चकेन चान्वयव्यक्तिरूपेण पदशक्तिविषयस्वरूपनिर्णयं कृत्वेदानीमवसरप्राप्तं पदशक्तिस्वरूपनिर्णयं चिकीर्षुः
‘‘नित्ययोरपि शब्दानामर्थेनैव निषिध्यते’’ ।
इत्यानुमानिकपादीयानुव्याख्याने ‘‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध’’ इति जैमिन्युक्तार्थैः शब्दानां नित्ययोगोपि नैवास्माभिस्त्याज्य इति सुधाकृदभिहितां शब्दस्यार्थेन सह स्वाभाविकसम्बन्धरूपां पदशक्तिं
‘‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’’ ।
इति जिज्ञासासूत्रानुव्याख्यानसुधायां सम्यक्प््रापञ्चितं मनसि निधाय पराभिमतसङ्केतपक्षे बाधकमात्रमाह ।। यत्त्विति ।। शब्दखण्डे लक्षणा वादात्पूर्वं शब्दसाधुत्वोक्तिप्रस्तावे उक्तमित्यर्थः ।
औत्पत्तिकः स्वाभाविकः । इच्छारूप इत्यत्र किमस्मदादीच्छा-साधारणेच्छारूपोथेश्वरमात्रेच्छारूपः । आद्येपि किं साक्षात्परम्परासाधारण्येन प्रत्येत्वितीच्छारूप उत साक्षात् प्रत्येत्विति । तत्राद्ये दोषमाह ।। गङ्गेति ।। अन्त्यमाशङ्क्याह ।। न चेति ।। परम्परयेति ।। मुख्यार्थभूतप्रवाहं प्रतीत्येतत्सम्बन्धितया तीरं प्रत्येत्वितीच्छैवेत्यर्थः ।। अतन्त्रत्वेनेति ।। पदाद्व्यवहिते तीरादौ स्मृतेरनुभवस्य वा जायमानत्वे पदस्यपदार्थस्मृत्यनु-भवयोर्जन्मनि कार्ये साक्षात्वस्याप्रयोजकत्वेनेत्यर्थः । यद्वास्मृतेरनुभवद्वारैव पदजन्यत्वादनुभवस्य साक्षात्तज्जन्यत्वात्साक्षात्त्वस्यस्मृतौ व्यभिचारेणान्त्र-त्वात् । स्मृत्यनुभवसाधारण्येन पदार्थ प्रत्येत्वितीच्छामात्रस्यैव शक्तित्वा-दित्यर्थः ।।