एतेन पदार्थमात्रे शक्तस्य पदस्य ..

अथ अन्वयस्य लक्ष्यत्वभङ्गः ।

तर्कताण्डवम्

एतेन पदार्थमात्रे शक्तस्य पदस्य पदार्थसम्बन्धिन्यन्वये लक्षणैवेति निरस्तम् । उक्तरीत्यान्वयेऽपि शक्तेः१ परम्परासम्बन्धरूपलक्षणाङ्गी-कारेऽनुव्याख्यानोक्तगौरवात् ।

न्यायदीपः

नन्वनन्यलभ्यत्वादित्यसिद्धम् । लक्षणयाऽपि तद् बोधसम्भवादित्यत आह ।। एतेनेति ।। गौरवदोषेणेत्यर्थः । यथा प्रवाहे शक्तस्य गङ्गापदस्य तत्सम्बन्धिनि तीरे लक्षणा तथेति भावः ।। उक्तेति ।। ननु कथमन्विते शक्तिरित्यादिनोक्तरीत्येत्यर्थः ।। परम्परेति ।। शक्यार्थसबन्धित्व-रूपपरम्परेत्यर्थः । एकयैव शक्त्या पदार्थतदन्वययोरभिधानसम्भवाल्लाघवं शक्तिपक्ष इति भावः ।।

ननु लक्षणापक्षे हस्तिना हस्तिपस्मृतेरिवेत्यादिना पूर्वोक्तिदिशा शक्तिं विनाऽपि पदार्थस्मृतिसम्भवेन पदार्थेष्वपि शक्तिर्नोपेयेति लाघवमिति चेन्न । तथात्वे क्वाप्यभिधानवृत्तेरभावेन लक्षणामात्रोच्छेदापत्तेः । वाच्यार्थ-सम्बन्धपूर्वकत्वात्सर्वत्र लक्षणायाः । अत एव प्राक्पदार्थमात्रे शक्त-स्येत्युक्तम् । या तु सुधायां ‘‘अन्वयो लक्ष्यत इति चेत्तर्हि पदार्थेषु साहचर्यात्स्मारकत्वमात्रम् । अन्वये तु लक्षणेति पदानां न कुत्राप्यभिधा-वृत्तिरिति स्यात्’’ इत्युक्तिः सा साहचर्यात् स्वार्थान् स्मारयन्त्यन्यपराणि पदानीति पूर्वप्रकृतमतान्तराभिप्रायेति ज्ञातव्यम् ।।

Load More