प्राभाकरास्तु– धूमो वह्निव्याप्य इति स्मृतिः ..
अथ प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः
तर्कताण्डवम्
प्राभाकरास्तु– धूमो वह्निव्याप्य इति स्मृतिः पर्वतश्च धूमवानिति ज्ञानद्वयमेवानुमितिहेतुः । ज्ञानद्वयानुमित्योर्मध्ये विशिष्टज्ञाने माना-भावात् । ज्ञानद्वयस्य स्वरूपं पूर्वभावित्वं नियमश्च क्लृप्त एव । विशिष्टज्ञानवादिनापि तद्धेतुत्वेन ज्ञानद्वयस्वीकारात् । अनन्यथा-सिद्धिमात्रं कल्प्यम् । विशिष्टज्ञाने चतुष्टयं कल्प्यमिति गौरवम् । एतेन ज्ञानद्वयादप्येकस्य विशिष्टज्ञानस्य कारणत्वं लघ्विति निरस्तम् । विशिष्टज्ञानस्यैवासिद्धेः । वस्तुद्वये युगपदुपस्थिते हि लाघवगौरव-चिन्तेत्याहुः ।।
तन्न । प्रत्यभिज्ञावदनुमित्यादिवच्चानुभवसिद्धस्य विशिष्टज्ञानस्य तद्धेतुभूतज्ञानद्वयेनापलापे प्रत्यभिज्ञायास्तत्तास्मृतीदन्तानुभव-रूपज्ञानद्वयेन अनुमितेर्वह्निस्मृतिपर्वतानुभवरूपज्ञानद्वयेन व्याप्ति-ज्ञानस्य तद्धेतुभूतसहचारादिज्ञानेन त्वदुक्तज्ञानद्वयस्य च तत्कारणे-नापलापप्रसङ्गात् । भवति हि त्वन्मते भ्रमस्थलेऽसंसर्गाग्रहसहकृतेन ग्रहणस्मरणरूपज्ञानद्वयेनेदं रूप्यमिति विशिष्टव्यवहारवत्प्रत्यभि-ज्ञास्थेऽनुमितिस्थे चासंसर्गाग्रहसहकृतेनोक्तज्ञानद्वयेन सोऽयमिति व्यवहारः पर्वतोऽग्निमानित्यादिव्यवहारश्च । अन्यथा भ्रान्तिरपि स्वीकार्या ।।
किञ्च व्याप्तिज्ञानं त्वन्मते सामान्यप्रत्यासत्तेरभावात्सन्निकृष्टधूम-व्यक्तिमात्रविषयकम् । पक्षधर्मताज्ञानं त्वगृहीतव्याप्तिकधूमविषय-कम् । एवं च किञ्चित्प्रमेयं वह्निव्याप्यं पर्वतश्च प्रमेयवानिति ज्ञानद्वयमिव कश्चिद्धूमो व्याप्यः पर्वतश्च धूमवानिति विशिकलितं परस्परवार्तानभिज्ञं ज्ञानद्वयमपि नानुमितिहेतुः ।।
न च प्रमेयत्वं वह्निव्याप्यतावच्छेदकत्वेन न गृहीतं धूमत्वं तु तदवच्छेदकत्वेन गृहीतमिति वैषम्यमिति वाच्यम् । व्याप्यता-वच्छेदकत्वं हि व्याप्यत्वेन सह व्याप्तिः । अन्यस्य प्रकृतानुप-योगात् । न च व्याप्तिग्रहणकाले धूमस्याग्निनेव धूमत्वस्य धूमनिष्ठया वह्निव्याप्त्या सह व्याप्तिर्गृहीता । एवं च पक्षधर्मे धूमे व्याप्तिग्रह-प्रस्तावोक्तरीत्या व्याप्तिग्रहसामग्रीसत्त्वेऽपि व्याप्तिं न पश्यसि, पश्यसि तु व्याप्तिधूमत्वयोर्व्याप्तिग्रहसामग्रीविरहे व्याप्तिमिति नूनं ते चतुरे विलोचने ।।
एतदेवाभिप्रेत्योक्तं सुधायाम् । ‘‘न खलु विशकलिते व्याप्ति-स्मृतिपक्षधर्मताज्ञाने भावयतोऽनुमितिः’’ इति । विशकलिते भिन्नविषय इत्यर्थः ।।
किंच विशिष्टज्ञानाभावे व्याप्तिज्ञानस्य करणत्वं न स्यात् । निर्व्यापारत्वात् । न च तर्को व्यापारः । तस्यासार्वत्रिकत्वात् । नापि पक्षधर्मताज्ञानं व्यापारः । तस्य व्याप्तिज्ञानाजन्यत्वात् । विशिष्टज्ञानस्य तु तज्जन्यत्वात् ।।
एतदप्युक्तं विशकलित इति । परस्परं जन्यजनकभावरहिते इत्यर्थः ।।
अपि च संशयानन्तरभाविविशेषदर्शनजन्यप्रत्यक्षस्थले कर-चरणादौ पुरुषत्वव्याप्तिस्मृतिः पक्षधर्मताज्ञानं चास्तीति त्वन्मतेऽनु-मितिः स्यात् । अस्मन्मते तु विशिष्टज्ञानाभावा१दनुमितिर्युक्ता । एवं च त्वन्मते प्रत्यक्षसामग्य्रा अत्राक्लृप्तसामग्रीतो बलवत्त्वं च न कल्प्यम् ।।
एतदप्युक्तं– विशकलित इति । उक्तस्थलेऽनुमितिं विनापि स्थिते इत्यर्थः ।।
न्यायदीपः
‘‘व्याप्तिरेव तु सा स्मृता’’ इत्येतद्व्याख्यानसुधायां ‘‘तदन्यो न मन्यत’’ इत्यादिनोक्ते प्राभाकरमततद्दूषणे विवृण्वान आह– प्राभाकरा-स्त्विति । इत्याहुरित्यन्वयः । परामर्शवादपूर्वपक्षे मण्युक्तं निष्कृष्यानु-वदति– धूम इति । ज्ञानद्वयमेव स्मृत्यनुभवरूपज्ञानद्वयमेवेत्यर्थः । ननु ज्ञानद्वयानन्तरभाविनोऽनुमितिपूर्वभाविनो व्याप्तिविशिष्टपक्षधर्मताज्ञानस्य कुतो न हेतुत्वमित्यतस्तत्स्वरूपमेव नभोनलिनायितमित्याह– ज्ञानद्वयेति । ज्ञानद्वयस्य कारणत्वे गौरवं विशिष्टज्ञानस्य हेतुत्वे लाघवमित्यतो विपरीतमेव लाघवमित्याह– ज्ञानद्वयस्येति । नियम इति । अनुमित्यव्यभिचार इत्यर्थः । कथं त्रितयं क्लृप्तमित्यत आह– विशिष्टेति । अनन्यथेति । विशिष्टज्ञानरूपपरामर्शानुपक्षीणतयाऽनुमित्येकोपक्षीणत्वमात्रं कल्प्यमित्यर्थः । एकस्य कारणत्वकल्पनं लघ्वित्यत आह– एतेनेति । विशिष्टज्ञानमेव नेत्येतन्निराह– प्रत्यभिज्ञावदित्यादिना । प्रत्यभिज्ञाया इत्यादिषष्ठ्यन्ता-नामपलापप्रसङ्गादित्यन्वयः । सहचारादीत्यादिपदेन व्यभिचाराभावज्ञानग्रहः । विशिष्टव्यवहारान्यथानुपपत्त्या प्रत्यभिज्ञादेरेकत्वं सिद्धमित्यत आह– सम्भवति हीति । अन्यथेति । विशिष्टव्यवहारबलेन विशेषणविशेष्य-तत्सम्बन्धविषयकरूपविशिष्टज्ञानाङ्गीकारे विशिष्टविषयकैकज्ञानरूपा भ्रान्तिः स्वीकार्येत्यर्थः ।।
ननु संवादबलात्प्रत्यभिज्ञादौ विशिष्टैकज्ञानत्वमुपेयम् । न तु भ्रमस्थल इति वदन्तं प्रत्याह– किञ्चेति । यद्वा विशिष्टज्ञानास्तित्वं समर्थ्य पराभि-प्रेतज्ञानद्वयहेतुत्वं निराह– किञ्चेति । अथवा पूर्वं पर्वतादिनिष्ठधूम-व्यक्तिविशेषणत्वेन व्याप्तेरग्रहादन्यत्र गृहीतव्याप्तिविशिष्टज्ञानमन्यत्र कथमुत्पत्तुमर्हमित्यतस्तर्हि ज्ञानद्वयस्यापि हेतुतानापत्तिरित्याह– किञ्चेति ।।
सन्निकृष्टधूमेति । महानसीयधूमव्यक्तिमात्रेत्यर्थः । अन्यस्येति । अन्यूनानधिकदेशवृत्तित्वादेरित्यर्थः । सर्वधूमव्यक्तिनिष्ठव्याप्तेरेकत्वे मानाभावेन नानात्वेऽवश्यम्भाविनि धूमत्वस्य तदनधिकदेशवृत्तित्वाभावादवच्छित्तिप्रत्यय-जनकत्वादेर्जनकत्वस्य व्याप्तिगर्भतयाऽऽत्माश्रयापाताच्चेति भावः । यद्वाऽ-वच्छेदकत्वं ह्यनुमित्युपयोगितयाऽभ्युपेयम् । तच्च धूमत्वादेर्व्याप्ति-व्याप्यत्वरूपत्वे धूमदर्शने सति व्याप्तिस्मृतिद्वाराऽनुमित्युपयोगि । न त्वधिकदेशवृत्तित्वादि । तज्ज्ञानेन व्याप्तिस्मृतौ बीजाभावादित्यर्थः । उक्तरीत्या व्याप्तिग्रहसामग्रीति । सादृश्यादिरूपसामग्रीसत्त्वेऽपीत्यर्थः । चतुरे कुशले इत्युपहासः । उक्तमिति । व्याप्तिरेव तु सा स्मृतेत्ये-तद्व्याख्यावसरे युक्तिपादे ।।
त्वदङ्गीकृतव्याप्तिज्ञानकरणत्वबलादपि विशिष्टज्ञानं मध्ये कारणत्वे-नोपेयमित्याह– किञ्च विशिष्टज्ञानाभाव इति । असार्वत्रिकत्वादिति । संशयस्थल एव तर्कावतारस्योक्तत्वादिति भावः । व्याप्तिज्ञानाजन्य-त्वादिति । तज्जन्यजनकत्वे सति तज्जन्यस्यैव व्यापारत्वादिति भावः । अन्वयव्यभिचाराच्च न ज्ञानद्वयस्य हेतुत्वम् । विशिष्टज्ञानस्य हेतुत्वे तु न व्यभिचार इति भावेनाह– अपि चेति । विशिष्टज्ञानहेतुत्वाङ्गीकारेऽ-न्यदप्यनुकूलितमित्याह– एवं चेति । स्थिते इत्यर्थः इति । तथा च तादृशे व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतो नानुमितिरिति समग्रवाक्यार्थ इति भावः ।।
तर्कताण्डवम्
किञ्च त्वदुक्ते ज्ञानद्वये सत्यपि पक्षनिष्ठधूमो वह्निव्याप्तो नेति विपर्यये संशये वा सत्यनुमित्यदर्शनात्तयोरनुमितिप्रतिबन्धकता तावद्वक्तव्या । ज्ञानस्य च ज्ञानप्रतिबन्धकत्वं विरोधिविषयत्वेनैव । तच्च द्वेधा । साक्षादनुमितिविषयविरोधिविषयत्वेन वा, तज्जनकज्ञान-विषयविरोधिविषयत्वेन वा । तत्राद्यः प्रकृते न सम्भवति । व्याप्यभेदभ्रमस्य बाधवदनुमितिग्राह्यवह्न्यभावाविषयत्वात् । तथा च व्यभिचारज्ञानस्यानुमितिहेतुव्याप्तिविघटनेनेव व्याप्यभेदभ्रमस्या-प्यनुमितिहेतुव्याप्याभेदज्ञानविघटनेनैवानुमितिप्रतिबन्धकत्वं वाच्य-मिति सिद्धं व्याप्याभेदज्ञानस्यानुमितिहेतुत्वम् ।।
यदि च विरोध्यविषयकमपि ज्ञानं मण्यादिवद्विरोधि तर्ह्युपाधिना व्यभिचारो नोन्नीयेत । किन्तु मण्याद्यभावो दाह इव उपाधिज्ञानाभाव एवानुमितौ हेतुः स्यात् ।।
न चानुमितिसामग्य्रा बलवत्त्वाज्ज्ञानद्वये सत्यनुमितिरेवोत्पद्यते । न तु प्रत्यक्षो व्याप्यभेदभ्रम इति वाच्यम् । तस्या बलवत्त्वासम्मतेः ।।
किञ्च यत्र त्वदुक्तज्ञानद्वयानन्तरं भेदभ्रमस्तत्रैवमस्तु । यत्र धूमो वह्निव्याप्यः पर्वतीयधूमश्च वह्न्यव्याप्य इति पक्षधर्मताज्ञानमेव भेदविषयं त्वन्मते व्याप्त्यव्याप्त्योर्भिन्नविषयत्वेनाविरोधात् तत्र भेद-ज्ञानात्पूर्वं अनुमितिसामग्य्रभावेन तया भेदभ्रमस्य प्रतिबन्धो न युक्तः ।।
न च धूमत्वज्ञानरूपस्य वा धूमो वह्निव्याप्य इति ज्ञानरूपस्य वा विशेषदर्शनस्य सत्त्वान्न व्याप्यभेदभ्रम इति वाच्यम् । स्वरूपेण धूमत्वज्ञानस्याविरोधित्वात् । व्याप्तिव्याप्यत्वेन ज्ञानस्य तु विरोधित्वे तस्यायं धूमवानिति पक्षधर्मताज्ञानेऽभावात् । धूमो वह्निव्याप्य इति ज्ञानस्य च त्वन्मते भिन्नविषयकत्वेनाप्रतिबन्धकत्वात् । न च भिन्नविषयकत्वेपि समानप्रकारकत्वमात्रेण प्रतिबन्धकत्वम् । प्रमेयं घटवदिति ज्ञानेन प्रमेये गृहे घटो नेति धीप्रतिबन्धापातात् ।।
एतदप्युक्तं विशकलित इति । व्याप्य१भ्रमेण प्रतिबद्धे इत्यर्थः ।।
न्यायदीपः
व्याप्यभेदविषयकविपर्ययादेः प्रतिबन्धकत्वान्यथानुपपत्त्यापि विशिष्ट-ज्ञानहेतुत्वसिद्धिरित्याह– किञ्च त्वदुक्ते इति । ज्ञानस्य चेति । व्याप्य-भेदगोचरविपर्ययादिरूपज्ञानस्य चेत्यर्थः । व्याप्यभेदेति । व्याप्ये धूमे व्याप्यो नेति व्याप्यो वा न वेतीति १व्याप्यभेदभ्रमस्येत्यर्थः । प्रकारान्तरेण प्रतिबन्धकत्वचोद्यमनूद्य निराह– यदि चेति ।।
ननु व्याप्यभेदभ्रम एव नास्ति । यस्य प्रतिबन्धकत्वबलेन विशिष्टज्ञान-हेतुत्वसिद्धिरित्याशङ्कां निराह– न चानुमितीति ।।
अभ्युपेत्यापि बलवत्त्वमनुमितिसामग्य्रभावस्थले विपर्ययादि बलाद्विशिष्ट-ज्ञानहेतुत्वसिद्धिरित्याह– किञ्च यत्रेति । एवमस्त्विति । अनुमिति सामग्रीबलवत्त्वेन व्याप्यभेदभ्रमानुत्पादोऽस्त्वित्यर्थः । धूम इति । व्याप्तिग्रहणस्थलीय इत्यर्थः । विरोधात्कथमेवं भ्रम इत्यत आह– त्वन्मत इति । सामान्यप्रत्यासत्तेरनङ्गीकारेण पर्वतनिष्ठधूमे व्याप्तेरग्रहेण तत्र व्याप्ये भेदभ्रमे बाधकाभावात् ।।
सामग्य्रभावेऽपि विशेषदर्शनमेव भ्रमप्रतिबन्धकमित्याशङ्क्य निराह– न च धूमत्वेति । समानप्रकारकत्वेति । धूमो वह्निव्याप्य इति ज्ञानस्य पर्वतीयधूमश्च व्याप्यो नेत्यस्य च धूमत्वप्रकारकत्वात्प्रतिबध्यप्रतिबन्धकभाव इत्यर्थः । मात्रपदेन च समानविशेष्यकत्वं व्यावर्त्यते । इत्यर्थ इति । समग्रवाक्यार्थः पूर्ववद्दूष्टव्यः ।
तर्कताण्डवम्
अपि च यत्र धूमदर्शनं विनापि शब्दादिना व्याप्तिस्मृतिमतः पुंसः स्मृतव्याप्तिसन्निकृष्टधूमत्वयोर्वैशिष्ट्यं प्रत्यक्षज्ञानेन वह्निव्याप्य-धूमवानयमिति शब्दज्ञानेन च युगपदेव गृह्यते तत्राप्यनुमिति-स्तावद्दृश्यते । तत्र च व्याप्यत्वप्रकारकपक्षधर्मताज्ञानत्वेनैव हेतुता वाच्या । लाघवात् । व्याप्यतावच्छेदकत्वस्य व्याप्यतागर्भितत्वेन व्याप्यताया आवश्यकत्वाच्च । न तु व्याप्यतावच्छेदकप्रकारक-पक्षधर्मताज्ञानत्वेन । गौरवात् । अनावश्यकत्वाच्च ।।
ननु व्याप्तावपि व्याप्तिरहितावृत्तित्वरूपं व्याप्यतावच्छेदकत्व-मस्तीति व्याप्यतावच्छेदकत्वप्रकारकत्वं सामान्यं व्याप्यताप्रकारकत्वं तु विशेषः न च सामान्यस्य प्रयोजकत्वसम्भवे विशेषस्य तद्युक्तमिति चेन्न । व्याप्तौ तु त्वदुक्तस्य व्याप्यतावच्छेदकत्वस्य सत्त्वेपि व्याप्तित्वेन ज्ञानमात्रेणानुमितिदर्शनेन व्याप्यतावच्छेदकत्वेन व्याप्तिज्ञानस्यानुमित्यहेतुत्वात् । त्वयौपाधिकधर्मरूपस्य व्यापारत्वस्य सामान्यत्वेऽपि तद्विहाय लाघवेन जातिरूपकृतित्वस्यैवाख्यात-शक्यतावच्छेदकत्वस्वीकाराच्च ।।
एतदप्युक्तं सुधायाम्– ‘‘यदा तु गृहीतव्याप्तेर्विनापि लिङ्ग-दर्शनाद्व१ह्न्यादिनैव व्याप्तिस्मृतिः’’ इति ।।
ननु यत्र लिङ्गपक्षादिकमसन्निकृष्टमतीन्द्रियं वा तत्र कथं परामर्शः, प्रत्यक्षस्यासम्भवात् आनुमानिकत्वे चानवस्थानादिति चेत्तवापि कथं तत्र पक्षताज्ञानम् । कथं च स पर्वतो वह्निव्याप्यधूमवान् परमाणुर्नित्यत्वव्याप्यनिरवयवद्रव्यत्ववानिति ज्ञानं तथा व्यवहारश्च ।।
ननु तत्र कविकाव्यादिनिर्माणहेतुभूतज्ञानवन्मानसमेव पक्षधर्मता-ज्ञानम् । यद्वाऽनुमानिकत्वेऽऽपि क्वचित् स्मृतौ क्वचिच्छब्दे क्वचि-त्प्रत्यक्षे पर्यवसानान्नानवस्थेति चेत्समं परामर्शेऽपि । तस्माद्विशिष्ट-ज्ञानमेवानुमितिहेतुः ।।
न्यायदीपः
क्वचिद्विशिष्टज्ञानस्य हेतुतायाः क्लृप्तत्वादन्यत्रापि तथेति भावेन तस्य क्वचिद्धेतुत्वमाह– अपि चेति । ज्ञानद्वयरूपानुमिति सामग्री पराभिमता नेति वक्तुं धूमदर्शनं विनापीत्युक्तम् । स्मृतेति । स्मृतव्याप्तिश्च सन्निकृष्ट-धूमश्च तयोरित्यर्थः ।।
ननु तत्राप्यनुमितिदशायां तावता विशिष्टज्ञानत्वेन न हेतुता किंतु व्याप्यतावच्छेदक प्रकारकपक्षधर्मताज्ञानत्वेनैव । तथा च ज्ञानद्वयस्थल इवास्मदभिमतकारणतावच्छेदकं तत्राप्यक्षतमेवेत्यत आह– तत्र चेति । भवत्पक्षेऽपि व्याप्यत्वज्ञानमावश्यकमित्याह– व्याप्यतेति । अवच्छदकत्वं हि १व्याप्यत्वेनेह व्याप्तिरन्यस्यानुपयोगादित्युक्तदिशा व्याप्यतागर्भितत्वे-नेत्यर्थः । एवकारव्यावर्त्यमाह– नत्विति । अनावश्यकत्वाच्चेति । यथा व्याप्यतावच्छेदकत्वज्ञाने व्याप्यत्वज्ञानमावश्यकम् न तथा व्याप्यत्वज्ञाने व्याप्यतावच्छेदक२ प्रकारकत्व३ज्ञानमावश्यकम् । धूमत्वेन धूमस्वरूप-विशेष्यकव्याप्यत्वप्रकारकज्ञानविषये तदनुप्रवेशाभावादिति भावः । तदनुप्रवेशमाशङ्कते– नन्विति । व्याप्तिरहिते पाषाणादाववृत्तित्वमित्यर्थः । सामान्यमिति । व्याप्यत्वप्रकारकज्ञानविषये व्याप्तावपि सत्त्वादिति भावः । विशेष इति । अयं धूमवानित्यादि व्याप्यतावच्छेदकधूमत्वप्रकारके ज्ञाने व्याप्यत्वप्रकारकत्वाभावादिति भावः । सामान्यविशेषभावे सत्यपि लाघवा-द्विशेषस्यैव प्रयोजकत्वं वाच्यमिति भावेनाह– त्वयेति । एतदप्युक्तमिति । युक्तिपाद एवापि चेत्यादिनोक्तं प्रमेयमुक्तमित्यर्थः ।
विशिष्टज्ञानहेतुतावादे क्वचित्सामग्य्रभावेन तदनुत्पत्तिबाधकमाशङ्क्य प्रतिबन्द्योत्तरयति– नन्वित्यादिना । तवापीति । ज्ञानद्वयहेतुतावादि-नोऽपीत्यर्थः । न्यायमताशयेनाह– कथं चेति । यद्वा तन्मतेऽपि क्वचि-द्विशिष्टज्ञानसत्त्वस्योक्तदिशाङ्गीकारात्तदाशयेनेयमुक्तिः । परमाणुरिति । कथञ्चेत्यनुकर्षः । तथेति । व्याप्यधूमवानित्यादिव्यवहारश्चेत्यर्थः । तादृशज्ञानसाध्यत्वाद्व्यवहारस्येति भावः । मण्युक्तदिशा परमुखेनोत्तरं वाचयित्वा सममित्याह– नन्विति । कवेः काव्यनिर्माणहेतुभूतज्ञानं यथा मानसं तथा मानान्तरोपनीते पर्वते मानान्तरोपनीतधूमसंसर्गरूपपक्षधर्मता-ज्ञानं मानसं व्याप्तिस्मरणधूमवत्त्वज्ञानाभ्यां सहकृतेन मनसा च व्याप्यधूमवानिति ज्ञानं नित्यत्वस्मृतिमतो निरवयवत्वोपनायकेन तदुपनये च परमाणूपनायकेन परमाणौ चोपनीते मनसा नित्यत्वव्याप्यनिरवयवत्व-वानिति ज्ञानमस्त्वित्यर्थः ।।
नन्वेवं मनसो बहिरर्थप्रमाहेतुत्वे तदुपनायकज्ञानस्य प्रमाणान्तरत्वं स्यात् । यदसाधारणं कारणमासाद्य मनो बहिर्गोचरप्रमां जनयति तत्प्रमाणा-न्तरमिति नियमादिति चेन्न । इन्द्रियादेः सन्निकर्षादिवदुपनयस्य नियत-व्यापाराभावेन प्रमायामकारणत्वादित्याहुः । अनुमानेन वाऽस्तु पक्षधर्मता-ज्ञानादि । तावता नानवस्था । तज्जनकानुमाने पक्षधर्मतादि ज्ञानस्य स्मृति-रूपत्वेन वाऽऽप्तवाक्यरूपशब्दजन्यत्वेन वा प्रत्यक्षजन्यत्वेन वोपपत्ते-रित्याह– आनुमानिकत्वेऽपीति । पक्षधर्मतादिज्ञानस्येत्यनुकर्षः । अत एव पद्धतौ न च तथाप्यनुमानस्य व्याप्त्यपेक्षयाऽनवस्था । अन्ततः प्रत्यक्षागममूलत्वादित्युक्तमिति भावः ।।
।। इति प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः ।। १२ ।।