ननु– हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामा-नाधिकरण्यं व्याप्यत्वम्

अथ व्यापकत्वपरामर्शस्यानुमिति हेतुत्वभङ्गः ।।१४।।

तर्कताण्डवम्

ननु– हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामा-नाधिकरण्यं व्याप्यत्वम् । तच्च व्यापकत्वगर्भितमिति लाघवात्पर्वत-वृत्तिधूमव्यापको वह्निरिति व्यापकत्वपरामर्श एवानुमितिहेतुः । न तु वह्निव्याप्यधूमवान्पर्वत इति व्याप्यत्वपरामर्श इति चेन्न । मन्मते साध्यरहितावृत्तित्वरूपाया अन्यथानुपपत्तिरूपाया वा व्याप्ते-र्व्यापकत्वागर्भितत्वेन गौरवाभावात् ।।

यद्यपि साध्यरहितावृत्तित्वज्ञानं साध्यं विनानुपपत्तिज्ञानं वा साध्यत्वरूपव्यापकत्वेन ज्ञानं विनानुपपन्नम् । तथापि धूमजातीयस्य वह्निजातीयरहितावृत्तित्वज्ञानं च वह्निज्ञानमेवापेक्षते न तु व्यापकत्वे-नेति न गौरवम् ।।

न्यायदीपः

मणौ परामर्शवादान्ते ‘‘अन्ये त्वि’’त्यादिनोपन्यस्तमेकदेशिमत-मप्याशङ्क्य निराह– नन्वित्यादिना । व्यापकत्वेति । उक्तरूपा-भावाप्रतियोगित्वस्य व्यापकत्वात्तद्गर्भितमित्यर्थः । साध्यरहितेति । साध्यरहितेऽवृत्तित्वमित्यर्थः । अन्यथेति । साध्येन विनासम्भवरूपाया वेत्यर्थः ।।

।। इति व्यापकत्वपरामर्शस्यानुमिति हेतुत्वभङ्गः ।। १४ ।।