यच्च मणौ व्याप्तिर्द्वेधा अन्वयव्यतिरेकभेदात्
अथ परोक्तकेवलान्वयित्वलक्षणभङ्गः ।। १९ ।।
तर्कताण्डवम्
यच्च मणौ व्याप्तिर्द्वेधा अन्वयव्यतिरेकभेदात् । ततश्चानुमानमपि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्त्रिविधम् । तत्र वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । गगनात्यन्ता-भावस्य केवलान्वयित्वार्थं वृत्तिमत्पदमिति तन्न । गगनस्य केवलान्वय्यत्यन्ताभावप्रतियोगित्वे तुच्छत्वापातात् । न हि शशशृृङ्गादेरपीतोऽन्यदसत्त्वमस्ति । विस्तृतं चैतन्न्यायामृते ।।
न्यायदीपः
यत्तु पद्धतौ केवलान्वयिकेवलव्यतिरेकीत्यादिना परोक्तानुमानत्रैविध्यमनूद्य निरस्तं तद्विवरितुकामः तच्चानुमानं त्रिविधमित्यादिनामण्युक्तं निरसितुमाह– यच्चेति । वृत्तिमदिति । वृत्तिमान्योऽयमत्यन्ताभावस्तदप्रतियोगित्व-मित्यर्थः । अत्र वृत्तिमानित्यनेन स्वसामानाधिकरण्यविरोधिनी या वृत्तिस्तद्वान्विवक्षितः । तेन संयोगात्यन्ताभावे नाव्याप्तिः । संयोगवृत्ते-स्तदत्यन्ताभावसामानाधिकरण्याविरोधित्वादित्याहुः । एतच्च प्रमेयत्वाभि-धेयत्वादावस्ति । तदत्यन्ताभावस्य व्याघातभयेन क्वाप्यङ्गीकर्तुमशक्यत्वात् । सर्वस्याप्यन्योन्याभावप्रतियोगित्वादसम्भववारणायात्यन्तपदम् । तर्हि तावदेवास्त्वित्यतो दूषणसौकर्याय विशेषणकृत्यमाह– गगनेति । भावा-भावयोरन्योन्यविरहरूपतया गगनात्यन्ताभावोपि गगनरूपात्यन्ताभाव-प्रतियोगीति तत्राव्याप्तं लक्षणं स्यादतो वृत्तिमदिति । गगनं चावृत्तिपदार्थ-स्तन्मत इति वृत्तिमदत्यन्ताभावो न गगनरूपः किं तु घटात्यन्ताभाव एव । तथा च तदप्रतियोगित्वं गगनात्यन्ताभावेऽस्तीति नाव्याप्तिरिति । तस्यापि केवलान्वयित्वसिद्ध्यर्थं वृत्तिमत्पदमित्यर्थः । न्यायामृत इति । मिथ्यात्वनिरुक्तिभङ्गे प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वखण्डनप्रस्तावे तथा–
त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।
सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी ।।
इति सत्त्वनिरुक्तिप्रस्तावे, असतोऽत्यन्ताभावप्रतियोगित्वसमर्थनप्रस्तावे चेति भावः ।।
।। इति परोक्तकेवलान्वयित्वलक्षणभङ्गः ।। १९ ।।