ननु अस्तु यागध्वंस एव यागस्य व्यापारः
४६. अथ यागध्वंसस्य यागव्यापारत्वभङ्गः ।
तर्कताण्डवम्
ननु अस्तु यागध्वंस एव यागस्य व्यापारः । यागजन्यत्वान्नत्व-पूर्वम् । कप्तस्य ध्वंसस्य फलजनकत्वमात्रकल्पने लाघवात् । अपूर्वस्य तु स्वरूपमपि कल्प्यम् ।
न च प्रतियोगिध्वंसयोः कथमेकत्रापेक्षा, विरोधादिति वाच्यम् । व्यापारव्यापारिभावेनापेक्षायामविरोधात् । एककाल एव हि तयो-रपेक्षा विरुद्धा । न तु कालभेदेऽपि ।
न्यायदीपः
कार्यकादाचित्कत्वनियामककारण१व्यवधानस्यान्यथोपपत्तिरूपं तथापि ध्वंस एव व्यापारोस्त्वित्यादिना मण्युक्तचोद्यमाह ।। नन्वस्त्वित्यादिना ।।
तज्जन्यत्वे सति तज्जन्यजनकत्वस्यैव व्यापारत्वादाह ।। यागेति ।। ध्वंसस्येति योज्यम् ।। स्वरूपमपीति ।। न केवलं जनकत्वमित्यपेरर्थः ।
मण्युक्तसमाधिमाशङ्क्य निराह ।। न च प्रतियोगीति ।। तयो-रपेक्षेति ।। स्वर्गादिरूपकार्यस्यैककालीनयागतद्ध्वंसविषयकापेक्षा जात्या विरुद्धा न तु भिन्नकालीनयोः तयोर्विषये अपेक्षेत्यर्थः ।
तर्कताण्डवम्
न चैवं कारणीभूताभावप्रतियोगित्वेन यागस्य प्रतिबन्धकत्वं स्यादिति वाच्यम् । कारणीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वा-पादने इष्टापत्तेः । कार्यानुकूलविघटकत्वरूपप्रतिबन्धकत्वापादनं तु न युक्तम् । प्रतिबन्धकत्वेन प्रतिबन्धकत्वापादनायोगादिति चेन्मैवम् ।
ध्वंसस्यानन्तत्वेन फलानन्त्यापातात् । अपूर्वं तु फलविनाश्यम् ।
न चापूर्वमप्यनन्तकालं स्थित्वाऽनन्तफलमुत्पादयत्विति वाच्यम् । फले कालनियमस्य श्रुतिसिद्धत्वात् ।
न च ध्वंसस्यानन्त्येपि फलकालनियमः श्रुतिबलादेव अस्त्विति वाच्यम् । साङ्गवैदिककर्मजन्यव्यापरस्यापि १स्वनिष्पाद्येतरापेक्षया फलजनकत्वे बहुवित्तव्ययायाससाध्ये वैदिके कर्मणि निष्कम्प-प्रवृत्त्ययोगेन स्वानिष्पाद्येतरानपेक्षयैव फलजनकत्वे वक्तव्ये ध्वंसस्य व्यापारत्वे फलानन्त्ययस्य दुर्वारत्वेन कालनियमश्रुतिप्रामाण्यरक्षार्थमेव अपूर्वस्य कल्प्यत्वात् ।
।। यागध्वंसस्य यागव्यापारत्वभङ्गः ।। ४६ ।।
न्यायदीपः
।। कारणीभूतेति ।। ध्वंसस्यापि व्यापारतया कारणत्वादिति भावः ।। प्रतिबन्धकत्वेनेति ।। कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्व-रूपत्वात्तेनैव कार्यानुकूलकिञ्चिद्धर्मविघटकत्वरूपप्रतिबन्धकत्वस्यापादने आपाद्यापादकाविशेष इत्यर्थः ।। आनन्त्येनेति ।। उत्तरावधिशून्यत्वे-नेत्यर्थः ।
अपूर्वोपगमेपि स्यादयं दोष इत्यत आह ।। अपूर्वं त्विति ।। प्रागभाववदिति भावः । उत्पत्तिमतो भावस्य विनाशनियमादिति दोषे सत्येव दोषान्तरमाह ।। फल इति ।। श्रुतीति ।। ‘‘अमृतो वा सोमपो भवति यावदिन्द्रो यावन्मनुः’’ इत्यादिश्रुतिसिद्धत्वादित्यर्थः ।
स्वभावात्सावधिकफलजनकत्वमिति मण्युक्तमाशङ्क्य निराह ।। न च ध्वंसस्येति ।। स्वानिष्पाद्येतरापक्षयेति ।। २कालनियमबोधक-श्रुत्यपेक्षयेत्यर्थः ।
।। यागध्वंसस्य यागव्यापारत्वभङ्गः ।। ४६ ।।