अथापि स्यात्

यज्ञपत्युक्तवक्त्रानुमानभङ्गः

तर्कताण्डवम्

अथापि स्यात् ।प्रमामात्रानुगतगुणाभावेपि परतस्त्वं सेत्स्यति । न ह्यनित्यप्रमात्वस्योक्तकार्यतावच्छेदकत्वं परतस्त्वम् । किन्तु तस्य स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वम् । तच्चानित्य-प्रमामात्रानुगतगुणाभावेप्यननुगतगुणैरपि सेत्स्यति ।

तत्र चप्रमाणं अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मा-वच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यता-प्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वात् । अप्रमात्ववदित्यनुमानम् ।

अनेन सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वरूपेण हेतुना साध्यमानं विशेषकारणजन्यत्वं सर्वप्रमानुगतगुणस्य बाधितत्वे-नाननुगतगुणजन्यत्वमादाय पर्यवस्यति ।

युक्तिरत्नाकरः

एवमनुगतगुणपक्षे प्रतिक्षिप्यानुगततत्पक्षमपि प्रतिक्षेप्तुं तमाशङ्कते ।। अथापीति ।। किन्त्विति ।। स्वस्यानित्यप्रमात्वस्य य आश्रय-स्तदितरावत्तयो ये प्रत्यक्षप्रमात्वादयस्तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वमुक्तकार्यताव्याप्यत्वमिति यावत् ।

।। तच्चेति ।। मात्र१मर्थः । एवं चानित्यप्रमात्वस्य कार्यतान-वच्छेदकत्वेपि तदाश्रयसर्वप्रमासु गुणजन्यतावच्छेदकधर्मत्वमेव परतस्त्व-मिति भावः ।। अनित्ये इति ।। एतच्च बाधवारणाय । साध्यमुक्तार्थः ।। स्वेति ।। साध्यहेत्वोः स्वपदं समाभिव्याहृतपरम् । एवं यो वर्तते धर्मः नित्यज्ञानत्वादिः तदवच्छिन्नकार्यतानिरूपितकारणताश्रयो मनस्संयोगादिः तन्मात्रानुत्पाद्यं कार्यं अनित्यप्रमा तन्मात्रवृत्ति धर्मत्वादित्यर्थः । हेतोः अप्रयोजकतां निरस्यन् साध्यपर्यवसान प्रकारमाह ।। अनेन इति ।।

न्यायदीपः

यज्ञपतिमतमाशङ्कते ।। अथापीति ।। अथापीत्याद्युक्तमेव व्यनक्ति ।।प्रमेति ।। उक्तेति ।। अप्रमाकारणतेत्यादिनोक्तेत्यर्थः ।। तस्येति ।। अनित्यप्रामात्वस्येत्यर्थः ।। स्वेति ।। स्वस्यानित्यप्रमात्वस्य य आश्रय-स्तन्मात्रवृत्तयस्तदितरावृत्तित्वे सति तद्वृत्तयो ये धर्माः जन्यप्रत्यक्ष-प्रमात्वादयः तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वम् उक्तकार्यताश्रयत्व-व्याप्यत्वमिति यावत् ।

तदुक्तमेव पञ्चमात्रानुमानमाह ।। अनित्यप्रमात्वमिति ।। बाध-निरासाय ।। अनित्येति ।। साध्यमुक्तार्थम् । साध्यहेत्वोः स्वपदं समभिव्याहृतपरम् । एवं चानित्यप्रमात्वाश्रय एव यो न वर्तते धर्मः अनित्यज्ञानत्वादिः तदवच्छिन्नकार्यतानिरूपितकारणताश्रयो मनस्संयोगादिः तन्मात्रानुत्पाद्य कार्यमनित्यप्रमा तन्मात्रवृत्तिधर्मत्वादिति हेत्वर्थः । अनित्यज्ञानकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वादिति फलितोर्थः । हेतोरप्रयोजकतां निरस्यन् साध्यपर्यवसानप्रकारमाह ।। अनेनेति अननुगतेति ।।प्रत्यक्षप्रमाद्येकैकानुगतेत्यपि योज्यम् । अन्यथा जन्यप्रत्यक्षप्रमात्वादेरवच्छेदकत्वायोगेन बाधापत्तेरिति भावः ।

Load More