यथा शक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम्
तेजोऽभावबहुत्वादिनोत्कर्षादिधीश्चेत्सुखादावपि..
ननु तमसो रूपित्वे आलोकनिरपेक्षचक्षुर्ग्राह्यत्वं न स्यात्
ननु तत्राप्यालोकावयवग्रहे महत आलोकावयविनः तद्ग्रहे..
यत्तु वर्धमानोक्तं वस्तुतो रूपवतो विशेष्यस्य चाक्षुषत्वे आलोकापेक्षा
किञ्च गृह्यमाणरूपस्य संसर्गारोपार्थमेव ..
किञ्च रूपिणो घटादेरिव रूपिघटाद्यभावस्य ग्रहोऽपि ..
न च छायायां गतेः स्वाभाविकत्वे आवरकछत्रादिद्रव्यानु-विधानानुपपत्तिः
न च स्पर्शसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातेरुद्भूतस्पर्श..
यत्तु वर्धमानादिभिरुक्तं प्रौढालोकमध्ये सर्वतो..
मनस्तु नारम्भकं प्रयोजनाभावात्
यथा शक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम्
अथ तमसो द्रव्यत्वसाधनम् ।
तमो द्रव्यान्तरम्
तर्कताण्डवम्
यथा शक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम् । तमो द्रव्यं रूपि-त्वात् क्रियाऽऽश्रयत्वात् परिमाणादियुक्तत्वाच्च घटवदित्यनुमानात् ।।
न्यायदीपः
प्रसङ्गादाह ।। यथेति ।। पदार्थान्तरमिति ।। १द्रव्यगुणकर्मसामान्य-समवायरूपपदार्थादन्यः पदार्थस्तथा २तदन्योऽपि पृथिव्यादिद्रव्यनवकादन्यद् द्रव्यमित्यर्थः ।।
एतेन तमसो द्रव्यत्वे पृथिव्यादिनवकान्तर्भावो वाच्यः । स च न युक्तः । गन्धरसभास्वररूपस्पर्शशब्दहीनत्वेन भूतपञ्चकान्तर्भावायोगात् । अनित्यत्वेन नित्यवस्त्वन्तर्भावायोगादिति निरस्तम् । अतिरिक्तद्रव्य-त्वोपपत्तेः ।।
अन्तर्भावः शक्यश्चेदित्याद्यग्रेतनवाक्यं त्वनास्थे३यमिति ध्येयम् । ४इत्यनुवादमहिम्नैव शक्तेरपि षट्पदार्थान्तर्भावानुपपत्तिबाधकं प्रत्युक्तं ध्येयम् । मणौ तमसो द्रव्यत्वाभावस्या५चिन्त्यत्वेऽपि शशधरादौ चिन्ति-तत्वात् । तत्खण्डनेन नविलक्षणत्वाधिकरणे प्राकृतेन्द्रियमनोभेदा-दित्येतद्व्याख्यानसुधायां मनो नित्यं स्पर्शरहितद्रव्यत्वादित्यत्र तमसा-स्माकमनैकान्त्यादित्युक्तहेतुसमर्थनार्थोयं प्रयत्नः ।
क्रियाऽश्रयत्वादित्ययं च हेतुर्द्रव्यत्वसाधकः पररीत्यैव बोध्यः । तेन मिथ्यात्वानुमानटीकाभावप्रकाशिकायां, ‘‘गुणाद्वालोकवत्’’ इत्यत्र चन्द्रिकायां च गुणादावपि क्रियावत्त्वसाधनान्न व्यभिचारः शङ्क्यः । परिमाणा-दीत्यादिपदेन गृह्यमाणत्वपङ्कभूतत्वपाट्यमानत्वादिग्रहः ।