ननु तथाऽपीष्टसाधनत्वं ..

३५. कृतिसाध्यत्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः ।

तर्कताण्डवम्

ननु तथाऽपीष्टसाधनत्वं तक्षकचूडामण्याहरणादावप्रवृत्त्यर्थं कृतिसाध्यत्वेनावश्यं विशेषणीयमिति चेन्न । २कृतिसाध्यत्वज्ञान-दशायां प्रवृत्त्यापादने इष्टापत्तेः । तदसाध्यत्वज्ञानदशायां तु कृत्या फलं साधयिष्यामीति कृतिसाध्यत्वप्रकारिकायाः फलेच्छाया अभावा-देवाप्रवृत्तेः । न हि साधने कृत्यसाध्यत्वेन ज्ञाते फले कृतिसाध्यत्वं ज्ञातुं शक्यम् । न च फलस्य कृतिसाध्यत्वाज्ञाने फले तत्प्रकारि-केच्छा युक्ता ।

कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानं वा कार्यताज्ञानं वा प्रवर्तक-मिति मतेऽपि हि उक्ता फलेच्छाऽऽवश्यकी । उक्ते ज्ञानद्वये सत्यप्युक्तफलेच्छारहितस्य चेतनस्याप्रवृत्तेः । दृश्यते हि फलं दैवादन्यकृतितोऽपि वा मम सिध्यत्वितीच्छायां त्वदुक्तविशिष्टेष्ट-साधनत्वज्ञाने कृतिसाध्यत्वज्ञाने च सत्यपि फलं कृत्या साधयिष्या-मीतीच्छाऽभावेन प्रवृत्त्यभावः ।

न्यायदीपः

।। तथाऽपीति ।। मण्याद्युक्तदिशा चतुर्धा विशेषणीयत्वाभावेपीत्यर्थः ।। कृतिसाध्यत्वेन अवश्यं विशेषणीयमिति ।। कृतिसाध्यं यदिष्टसाधनं तत्त्वज्ञानं प्रवर्तकमिति वाच्यमित्यर्थः । तक्षकचूडामण्याहरणादिकं च तक्षकदंशनभीत्या कृत्यसाध्यमिति भावः । असाध्यत्वाज्ञानदशायां विशेषणीयं उत तत्त्वेन ज्ञानकाले । आद्य आह ।। कृतीति ।। अन्त्ये त्वन्यथैवा-प्रवृत्त्युपपत्तौ किं विशेषणेनेत्याह ।। तदसाध्यत्वेति ।।

साधनस्य कृत्यसाध्यत्वज्ञानकाले फलेच्छाया अभाव एव कुत इति चेत् । कृतिसाध्यत्वप्रकारकफलगोचरेच्छायाः कृतिसाध्यत्वप्रकारकफल-विशेष्यकज्ञानजन्यत्वात् तादृशज्ञानस्य च कृतिसाध्यत्वप्रकारकसाधनगोचर-ज्ञानजन्यत्वात्कारणाभावादेव फलेच्छारूपकार्याभाव इत्येतद्व्यतिरेक-मुखेनोपपादयति ।। न हीति ।।

अस्त्वेवं तथाऽपि फलेच्छाया आवश्यकत्वमेव कुत इत्यतः प्रतिज्ञापूर्वं हेतुमाह ।। कृतिसाध्यत्वेति ।। आद्यं तार्किकरीत्योक्तम् । अन्त्यं प्राभाकररीत्या । कुत इत्यत आह ।। उक्त इति ।। ज्ञानद्वये ।। कार्यत्वज्ञानंवेत्यन्तेनोक्तज्ञानद्वये इत्यर्थः ।

।। उक्तफलेच्छेति ।। कृत्या फलं साधयिष्यामीत्युक्तकृतिसाध्यत्व-प्रकारकेच्छेत्यर्थः । चेतनस्येति स्पष्टार्थम् । ज्ञानद्वये सतीत्यस्य घटनार्थं वेति ध्येयम् । कथमेतदित्यतो व्यनक्ति ।। दृश्यते हीति ।। प्रवृत्त्यभाव इत्यन्वयः ।। उक्तविशिष्टेति ।। कृतिसाध्यत्वविशिष्टेत्यर्थः । कार्यत्वज्ञानं वेत्यस्य विवरणेन निर्देशः ।। कृतिसाध्यत्वज्ञाने चेति ।। इच्छाभावे-नेति ।। इच्छाया अभावेनेत्यर्थः ।।

Load More