यच्चोक्तं मणौ– चित्रगुमानयेत्यादिबहुव्रीहौ..

७४. अथ बहुव्रीहौ लक्षणाभङ्गः ।

तर्कताण्डवम्

यच्चोक्तं मणौ–

चित्रगुमानयेत्यादिबहुव्रीहौ चित्रगोपदार्थयोरन्वयबोधानन्तरं गोपदं स्वज्ञाप्यचित्रगोसम्बन्धिनस्तत्स्वामिनो लक्षकम् । चित्रपदं तु गवान्वितस्वार्थबोधकतया मुख्यार्थमेव । न तु पदद्वये एका अनेका वा लक्षणा । उक्तरीत्यैकनिष्ठैकलक्षणयैवोपपत्तेः ।

न्यायदीपः

एवं तत्पुरुषे लक्षणापक्षं समुदायशक्तिपक्षं वृत्तिं विनान्वयप्रकारतया सम्बन्धभानपक्षं च निरस्य योगवृत्तिमुक्त्वा बहुव्रीहौ योगरूढिवृत्तिं समर्थय-मानो लक्षणावादानन्तरं मण्युक्तं लक्षणापक्षमनूद्य निराह ।। यच्चोक्तमिति ।। तन्नेत्यन्वयः । मणौ बहुव्रीहिचिन्तानन्तरं तत्पुरुषचिन्तनेपीह सोपा-नारोहणन्यायेन योगवृत्तिस्थलचिन्तानन्तरं योगरूढिवृत्तिस्थलचिन्तना-द्व्यत्यासः ।

मुख्यार्थसम्बन्धलाभायोक्तम् ।। चित्रगोपदार्थयोरन्वयबोधानन्तर-मिति ।। चित्रपदार्थगोपदार्थयोरभेदरूपान्वयबोधानन्तरमित्यर्थः । लक्षणा-बीजं मुख्यसम्बन्धमाह ।। स्वज्ञाप्येत्यादि ।।

सम्बन्धश्च स्वस्वामिभाव इत्याह ।। तत्स्वामिन इति ।। पदद्वय इति ।। समुदाय इत्यर्थः ।। अनेकावेति ।। चित्रपदार्थस्यापि परम्परया चित्रगोस्वामिसम्बन्धाच्चित्रपदेपि लक्षणा नेत्यर्थः ।

तर्कताण्डवम्

न च स्वामिनि समुदायशक्तिः । उक्तलक्षणयैवोपपत्त्या समुदाय-शक्तौ मानाभावात् । अनन्यलभ्ये हि शक्तिः ।

न्यायदीपः

ननु– अनन्यलभ्य एव शक्तिर्न तूक्तदिशा लक्षणादिलभ्य इति यथा तथा लक्षणावृत्तिरप्यनन्यलभ्य एव स्वामी चेह वृत्तिं विनाऽपि लभ्योऽ-स्त्वित्यत आह ।। न चेति ।। पदार्थसंसर्गत्वेन वा विग्रहस्थ षष्ठ्यन्तय-च्छब्देन वा स्वामिनो लाभः स्यात् । न चतद्द्वयमपि युक्तमित्यर्थः ।

तर्कताण्डवम्

न च स्वामी चित्रगोपदार्थयोः संसर्गः । येन वृत्तिं विनापि भासेत ।

नापि स्वामी चित्रा गावो यस्येति विग्रहस्थयच्छब्दार्थः । षष्ठ्यन्तेन तेनानयनकर्मत्वेनानुपस्थापनात् ।

न्यायदीपः

।। अनुपस्थापनादिति ।। स्वस्वामिभावादिसम्बन्ध एव षष्ठीशेष इति सूत्रेण षष्ठीविधानेन कर्मत्वादिबोधने सामर्थ्याभावादिति भावः ।

तर्कताण्डवम्

न च लक्षकत्वे लक्षणीयपदलिङ्गत्वं न स्यात्, लाक्षणिकस्य गङ्गादिपदस्य लक्षणीयपदलिङ्गाग्राहकत्वनियमादिति वाच्यम् । बहुव्रीहेर्नियतविशेषणपदत्वेन नियमतो विशेष्यपदलिङ्गत्वोपपत्तेः । अनियतलिङ्गत्वे सति विशेषणपदत्वमेव हि विशेष्यपदलिङ्गत्वे तन्त्रम् । न तु शक्तत्वे सतीत्यपि । गौरवात् । दण्डीत्यादिवाक्यस्य अशक्तस्यापि विशेष्यपदलिङ्गत्वदर्शनाच्च । तस्माद् बहुव्रीहावन्यपदार्थे लक्षणैवेति ।

तन्न । अन्यपदार्थे समुदायशक्त्यभावे हि केशाकेशीत्यादिबहुव्रीहौ केशग्रहणप्रहरणकर्मव्यतिहारपूर्वकयुद्धरूपस्यान्यपदार्थस्यैकेनैव केश-शब्देन लक्षणासम्भवेनेतरवैयर्थ्यं स्यात् ।।

न्यायदीपः

बाधकमाशङ्क्य निराह ।। न च लक्षकत्व इति ।। गोपदस्येति शेषः । नियतविशेषणपदत्वेनेति बहुव्रीहिः । पदसमुदायस्यान्यपदार्थवाचिपदं प्रति विशेषणपदत्वनियमादित्यर्थः ।। दण्डीत्यादि वाक्यस्येति ।। तार्किकमते प्रकृतिप्रत्ययसमभिव्याहारस्य वाक्यरूपत्वाद्वाक्ये वृत्तेरनङ्गीकारा-द्वाक्यस्य अशक्तस्येत्युक्तम् ।

।। विशेष्यपदलिङ्गत्वेति ।। दण्डिगृहं दण्डी पुरुषः दण्डिनीस्त्रीति-दर्शनादित्यर्थः ।। तस्मादिति ।। अनन्यलभ्यत्वाभावेन शक्तेरयोगात् । लक्षणैवोत्तरपदस्येति योज्यम् । न तु लक्षणाद्वयं समुदायशक्तिर्वेत्यर्थः । योगमग्रे साधयिष्यन् रूढिं तावद्विपक्षबाधकोक्त्या साधयति ।। अन्यपदार्थ इति ।। केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तितमिति विग्रहे ‘‘तत्र तेनेदमिति सरूपे’’ इति बहुव्रीहिः । ‘‘इच्कर्मव्यतिहार’’ इति समासान्त इच् प्रत्ययः । ‘‘अन्येषामपि दृश्यत’’ इति पूर्वपदस्य दीर्घः । ‘‘तिष्ठद्गुप्रभृती-निच’’ इत्यव्ययत्वे केशाकेशीति रूपम् ।

तर्कताण्डवम्

किं च विग्रहस्थयत्पदाक्षिप्ततच्छब्देनैवान्यपदार्थो मुख्यतयो-च्यताम् । किं लक्षणया ।

न च तच्छब्दाध्याहारादपि वरं श्रुतस्य गोशब्दस्यैव लक्षणेति वाच्यम् । आकाङ्क्षाद्यननुसन्धानेपि यच्छब्दाद् व्याप्तिबलेनैव तच्छब्दोपस्थित्याध्याहाराभावात् । तच्छब्दश्च चित्रगुमिति द्वितीयोक्तकर्मत्वान्वयार्थमविभक्तिकमेव कल्प्यते । न तु द्वितीयान्तः । तथात्वे तत्समानाधिकरणस्य गोशब्दस्यापि स्वामि-परत्वापातात् ।।

न च तच्छब्दोक्तस्वामिनः कथं गोशब्दात्परद्वितीयोक्त-कर्मत्वान्वयः, सुब्विभक्तेः प्रकृत्यर्थगतस्वार्थाभिधायित्वनियमादिति वाच्यम् ।

तिङ्विभक्त्याक्षिप्तकर्तृगतसङ्ख्यावाचित्वाय सुबिति विशेषणवद् बहुव्रीहिप्रकृतिकविभक्तेर्विग्रहस्मारिततच्छब्दार्थगतसङ्ख्यावाचित्वाया-बहुव्रीहित्यपि विशेषणस्य युक्तत्वात् ।

विदुषेव कथ्यत इत्यत्रेवार्थे सदृशे विद्वत्प्रातिपदिकात् पर-तृतीयोक्तकर्तृत्वान्वयस्य नानुयाजेषु ए यजामहं करोतीत्यत्र व्यस्त-नञर्थेनुयाजव्यतिरिक्तेऽनुयाजप्रातिपदिकात् परसप्तम्युक्ताधारत्वा-न्वयस्य च दर्शनाच्च । विग्रहस्मरणनैयत्ये च मानमुक्तं तत्पुरुष-प्रस्तावे ।

न्यायदीपः

यत्तु नापीत्यादिनोक्तं तन्निराह ।। किं चेति ।। तच्छब्देनैवेति ।। तथा च वक्ष्यमाणदिशा नयनकर्मत्वान्वयः सुशक इति भावः ।। अकाङ्क्षा-दीति ।। इषेत्वेत्यादौ छिनत्तीत्यादेरिवाकाङ्क्षायोग्यताद्यनुसन्धाने हि तादृशपदस्याध्याहारः । न चेह तथेति भावः ।

ननु– तमिति तच्छब्दान्वये चित्रगुमिति कर्मत्वान्वयो न स्यादित्यत आह ।। तच्छब्दश्चेति ।। सुब्विभक्तेरिति ।। तिङि्वभक्तेराक्षिप्तकर्तृगत-सङ्ख्यावाचित्वेन तत्राव्यभिचाराय सुबिति विशेषणम् ।। आक्षिप्तेति ।। आख्यातवाच्यकृत्याक्षिप्तेत्यर्थः ।

क्वाप्येवं नोपलब्धमित्यत आह ।। विदुषेवेति ।। विद्वत्सदृशेन कथ्यत इत्यर्थस्य तत्राभिमतत्वादिवार्थे सदृश इत्याद्युक्तम् ।

वैदिकोदाहरणं चाह ।। नानुयाजेष्विति ।। यजति ए यजमहं करोति नानुयाजेष्वितिवाक्ये नञः पर्युदासत्वाश्रयणेनानुयाजव्यतिरिक्तेषु यजतिषु ये यजामहं करोतीत्यर्थस्य दशमान्त्यपादीयाद्याधिकरणे निर्णीतत्वादिति भावः ।। व्यस्तेति ।। समस्तत्वे अननुयाजेष्विति स्यादिति भावः ।

समासश्रवणसमये विग्रहस्मरणनियमाभावात्कथं तच्छब्देन स्वामिन उक्तिरित्यत आह ।। विग्रहे इति ।। उक्तमिति ।। समासश्रवणकाल इत्यादिना ग्रन्थेनेति भावः ।

तर्कताण्डवम्

केचित्तु– बहुव्रीहौ चित्राणां गवां स्वामीत्येव विग्रहो न तु चित्रा गावो यस्येति । तथात्वे षष्ठीनिर्दिष्टस्य स्वामिनो राज्ञः पुरुषमित्यत्रे-वोपसर्जनत्वेन क्रियानन्वयप्रसङ्गात् । तथा च विग्रहस्थस्मृतस्वामि-पदेनैव तद्धीरिति न तत्र लक्षणेत्याहुः ।।

वस्तुतस्तु बहुव्रीहौ चित्रायां गवि योगोऽन्यपदार्थे रूढिरिति पङ्कजादिवद्योगरूढिः । चित्रगुसमुदायस्य अन्यपदार्थे उत्सर्गतस्तात्पर्य-नियमात् । तस्य च शक्तिव्याप्यत्वात् । न हि गङ्गापदस्य तीरे तन्नियमः ।

न्यायदीपः

।। केचित्विति ।। अत्रारुचिबीजं तु सर्वसिद्धव्युत्पत्तिविरोधाच्चित्रगुर्गोष्ठ इत्यादावयोगाच्च तच्छब्देन प्राधान्यावगत्या क्रियान्वयसम्भवाच्च नैवं कल्पनेति ज्ञेयम् ।

नन्वेवं समुदायरूढ्यङ्गीकारेऽवयवार्थानुभवविरोध इत्यत आह ।। वस्तुतस्त्विति ।। रूढौ हेतुमाह ।। चित्रगुसमुदायस्येति ।। विशेषणत्व-स्थले गव्यपि तात्पर्यदर्शनादुत्सर्गत इत्युक्तम् ।

शक्तिव्याप्यत्वं व्यभिचाराभावेन व्यनक्ति ।। नहीति ।। समासस्थगो-शब्दस्यैवान्यपदार्थतात्पर्यनियमेन तत्र शक्तिकल्पनमभ्रान्त्वा तात्पर्य-नियमादित्यस्य व्यभिचारमाशङ्क्य निराह ।। न चेति ।। न नियम इति ।। अन्यपदार्थे तात्पर्यनियमोनेत्यर्थः ।

तर्कताण्डवम्

न च गोशब्दस्य गामानयेत्यादौ गव्यपितात्पर्यान्न नियमः, गुशब्दश्चैकदेशविकृतोपि गोशब्द एव, अन्यथा स्वामिमात्रं भासेत न तु गोस्वामीति वाच्यम् । व्यधिकरणत्वात् । न हि गोशब्दस्यान्य-पदार्थे तात्पर्यनियमेन तस्य तत्र शक्तिमलक्षकत्वं वा ब्रूमः । येनैवं शङ्क्येत । किन्तु समुदायस्यान्यपदार्थे तन्नियमेन तत्र शक्तिम् ।

न च समुदायस्थगोशब्दस्य निरूढलक्षणयैवान्यपदार्थधीसम्भवेन समुदायशक्तौ मानं नेति वाच्यम् । तात्पर्यप्रयोगप्रतीतानां नियमे सत्यप्यस्वरसनिरूढलक्षणया स्वरसाभिधापलापे पटशब्दस्य व्यक्तौ, मण्डपादिशब्दसमुदायस्थपादिशब्दस्य गृहविशेषे, पङ्कजशब्द-समुदायस्थजशब्दस्यापि पद्मे तया तदपलापापातात् ।

न्यायदीपः

ननु– गोशब्दस्य तथात्वेपि गुशब्दे किमायातमित्यत आह ।। गुशब्दश्चेति ।। ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति सूत्रेणौकारस्य उकाररूप-ह्रस्वादेशे गुशब्दनिष्पत्तेरौकाररूपैकदेशेन उकारात्मना विकृतोपि ‘‘एकदेश-विकृतमनन्यवद्भवति’’ इति न्यायेन गोशब्द एवायमित्यर्थः ।

।। अन्यथेति ।। गोशब्दादन्यत्व इत्यर्थः ।। लक्षकत्वं वेति ।। वा शब्द उपमायाम् । यथा गङ्गेशादिर्लक्षकत्वं ब्रूते न तथावयं शक्तिं ब्रूम इत्यर्थः । अलक्षकत्वमितिपाठे तु न क्लेशः ।। किं तु समुदायस्येति ।। तथा च न दोष इति भावः ।

समुदायस्यान्वयपदार्थे तात्पर्यनियमोपि न शक्तिकल्पक इति भावेनाशङ्क्य निराह ।। न चेति ।। तयेति ।। निरूढलक्षणया समुदाय-शक्त्यपलापप्रसङ्गादित्यर्थः ।

तर्कताण्डवम्

किञ्च–

लक्षणाया निरूढत्वं न तावन्मञ्चाः क्रोशन्तीत्यादिवत् प्रयोजना-नपेक्षत्वं प्रयोगप्राचुर्यं वा । तथात्वेपि तद्वदेव मुख्यार्थानुपपत्त्यनु-सन्धानसापेक्षत्वापातात् । न चेष्टापत्तिः । चित्रगुः, व्यूढोरस्कः, द्विमूर्धः, व्याघ्रपात्, प्रज्ञुः, सज्ज्ञुः, इत्यादौ यत्र बहुव्रीहिलिङ्गमस्ति तत्र गवादिरूपमुख्यार्थानुपपत्त्यननुसन्धानेप्यन्यपदार्थप्रतीतेः ।

नापि– घटं करोतीत्यादाविव मुख्यार्थस्य गोमच्छशब्दस्य कदाप्यप्रयोगो निरूढत्वम्; तत्र हि सिद्धे कारकत्वयोग्ये कृतिविषये घटावयवे कृत्युद्देश्यघटवाचको घटशब्द एव लक्षणया प्रयुज्यते, न तु वाचको घटावयवशब्द इति वाच्यम् । तद्वदेवानुपपत्ति-सापेक्षत्वापातात् । इह च चित्रगोस्वामीति वाचकस्यापि प्रयोगाच्च ।।

नापि– मुख्यार्थस्य तात्पर्यस्य चानुपपत्तिमनपेक्ष्य बहुव्रीहि-स्थत्वमात्रेण ज्ञातत्वं वा मुख्यार्थानुपपत्तिमनपेक्ष्य बहुव्रीहिस्थत्व-मात्रेण १ज्ञानतात्पर्यकत्वं वा लक्षणाया निरूढत्वम् । गोशब्दाद्गो-रनुपस्थितौ तस्याश्चित्रान्वयासिद्धेः ।

उपस्थितौ तस्य वा तत्र तात्पर्यस्य वा त्यागहेत्वनुपपत्त्य-ननुसन्धाने तन्मूललक्षणाव्याहतेः । अन्यथा पङ्कजशब्दस्थजशब्दस्यापि पद्मे निरूढलक्षणा स्यादित्युक्तम् ।

न्यायदीपः

एवं निरूढलक्षणेति पक्षमतिप्रसङ्गेन निरस्य विकल्पमुखेनापि निरसितुं हृदि पञ्चधा विकल्प्य क्रमेण निराह ।। किञ्चेत्यादिना इत्युक्तमित्यन्तेन ।। चित्रगुरिति ।। ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति समासान्तो ह्रस्वः ।

।। व्यूढोरस्क इति ।। ‘‘उरप्रभृतिभ्यः कप्’’ इति कप्रत्ययः समासान्तः ।। द्विमूर्ध इति ।। ‘‘द्वित्रिभ्यां ष मूर्ध्नः’’ इति षः प्रत्ययः ।। व्याघ्र-पादिति ।। व्याघ्रस्य पादाविव पादौ यस्य सः । ‘‘पादस्य लोपोऽहस्त्या-दिभ्यः’’ इत्यन्तलोपः ।

।। प्रज्ञुः सज्ज्ञुरिति ।। प्रकृष्टं जानु यस्य सः प्रज्ञुः । सम्यग्जानु यस्य सज्ज्ञुः ‘‘प्रसम्भ्यां जानुनो ज्ञुः’’ इति जानुशब्दस्य ज्ञुरादेशः ।। बहुव्रीहिलिङ्गमिति ।। ह्रस्वत्वादिकम् ।। इत्यादाविति ।। तत्र यथा घटावयवं करोतीति कदाप्यप्रयोगः एवं गोमच्छब्दस्येत्यर्थः ।

घटं करोतीत्यादाविवेत्युक्तं व्यनक्ति ।। तत्र हीति ।। अनुपपत्तीति ।। तत्र यथा कृत्युद्देशे घटे कृतिविषयत्वमनुपपन्नमित्यनुसन्धानेन घटावयवं प्रत्येति । एवं चित्रगुमित्यादावपि चित्रगवानयनाद्यनुपपत्त्यनुसन्धानेनान्य-पदार्थधीः स्यादित्यर्थः ।

मुख्यशब्दान्तराप्रयोगोऽसिद्ध इत्याह ।। इहेति ।। बहुव्रीहिस्थत्व-मात्रेणेत्युक्तमात्रपदव्यावर्त्यविवरणम् ।। मुख्यार्थस्येत्यादि ।। पक्षद्वयेपि मुख्यार्थानुपपत्तिमनपेक्ष्येति लक्षणावादिना न वक्तुं युक्तमित्याह ।। गोशब्दादिति ।।

गोरूपार्थस्योपास्थितिर्नास्त्युतास्ति आद्य आह ।। गोरिति ।। अन्त्य आह ।। उपस्थिताविति ।। गोशब्दादित्यनुषङ्गः ।। उक्तमिति ।। तात्पर्यप्रयोगप्रतीतानां नियमे सत्यपीत्यादिग्रन्थेनेति भावः ।

तर्कताण्डवम्

ननु– तथापि यदवयवरूपमनेकं पदं न तदन्यपदार्थवृत्ति । यश्चान्यपदार्थवृत्तिः समुदायः नासावनेकः । ततश्च ‘‘अनेकमन्य-पदार्थ’’ इति सूत्रं कथमिति चेन्न । समुदायस्याप्यनेकावयव-गर्भितत्वात् । अवयवस्यापि परम्परयाऽन्यपदार्थबोधकत्वात् ।

न हि चित्रगोपदयोरभावे चित्रगोस्वामिलाभः । त्वन्मतेपि गोपदमेव लक्षणयान्यपदार्थवृत्ति । चित्रपदं तु परम्परया तद्बोधक-मात्रम् ।

न च तर्हि चित्रपदेपि लक्षणास्त्विति वाच्यम् । पङ्कजादा-विवावयवयोः समुदायस्य च मुख्यवृत्तिसम्भव उभयलक्षणायोगात् । सूत्रोक्तमन्यत्वं च समासारम्भक१वर्तिपदार्थापेक्षयेति समुदायोऽन्य-पदार्थवृत्तिरेव ।

किञ्च त्वन्मते चित्रगुमित्यत्र चित्रपदस्येव चित्रगोस्वामीत्यत्र स्वामिपदे सत्यपि चित्रगोपदयोः परम्परया विशिष्टस्वामिबोधोप-युक्तत्वेनान्यपदार्थवृत्तित्वाद् बहुव्रीहिसञ्ज्ञायां चित्रगुस्वामीति स्यात् । अस्माकं तु तत्र समुदायो नान्यपदार्थवृत्तिरिति न तत्सञ्ज्ञा ।

तस्माद् बहुव्रीहाववयवार्थपूर्वकान्यपदार्थप्रतीतेः पङ्कजादि-वद्योगरूढिरेव ।।

न्यायदीपः

एवमुक्तदिशा अन्यपदार्थे समासपदस्य शक्तत्वेपि सूत्रमयुक्तं प्राप्नोतीति शङ्कते ।। नन्विति ।। अनेकमिति ।। अन्यपदार्थे वर्तमानमनेकं सुबन्तं समस्यते स समासो बहुव्रीहिरिति सूत्रार्थः । यदवयवरूपमित्यादिना प्रागुक्तपक्षद्वयेपि सूत्रं युक्तमिति भावेनाह ।। समुदायस्यापीति ।। तवापि सममेतदित्याह ।। त्वन्मतेपीति ।।

नन्वेवं चित्रपदस्याप्यन्यपदार्थलक्षकत्वमस्तु । एवं चानेकमन्यपदार्थ इति स्वरसमापद्यत इति पदद्वयलक्षणामतमाशङ्क्य निराह ।। न च तर्हीति ।। सूत्रस्वारस्यस्यानुसर्तव्यत्वपक्ष इत्यर्थः ।

ननु समुदायस्य शक्तत्वे शक्यस्य स्वार्थत्वेन कथमन्यपदार्थ इत्युक्ति-रित्यत आह ।। सूत्रोक्तमिति ।। तत्पुरुषस्थलेपि षष्ठ्यन्तस्यान्यपदार्थे लक्षणाङ्गीकारेण बहुव्रीहिसञ्ज्ञापत्त्या रूपविकारप्रसङ्ग इत्याह ।। किञ्चेति ।।

।। चित्रगोस्वामीति ।। चित्राणां गवां स्वामीति विग्रहे चित्रगव-स्वामीति वा चित्रगवीस्वामीति वा भाव्यमिति न शङ्क्यम् । समासान्त-विधेरनित्यत्वादिति ज्ञेयम् ।। चित्रगोपदयोरिति ।। चित्रपदस्य चित्रत्व-विशिष्टगोरूपार्थद्वारातत्स्वामिबोधोपयुक्तत्वमिव गोपदस्यापि गोरूपार्थोप-स्थितिद्वारा तत्सम्बन्धिलक्षकत्वात् चित्रगोपदयोः परम्परयेत्युक्तम् । १पदद्वयस्य समुदायस्येत्यर्थः ।। विशिष्टेति ।। चित्रगोसम्बन्धित्व-विशिष्टेत्यर्थः । इतरव्यावृत्तेति वार्थः ।

।। बहुव्रीहीति ।। ‘‘अनेकमन्यपदार्थ’’ इति बहुव्रीहिसञ्ज्ञायां ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति ह्रस्वत्वे चित्रगुस्वामीति स्यादित्यर्थः ।। नान्यपदार्थवृत्तिरितीति ।। तत्पुरुषे लक्षणानङ्गीकारादिति भावः ।। सुधायामपीति ।। आनुमानिक पादे वृत्तिनिरूपणप्रस्तावे ‘‘योगो यथा’’ इत्युपक्रम्य ‘‘कुम्भकारः, औपगवः, राजपुरुषः’’ इति कृत्तद्धितसमासाना-मुदाहरणस्थले तत्पुरुष एवोदाहृत इत्यर्थः ।

तर्कताण्डवम्

सुधायामपि राजपुरुष इति तत्पुरुष एव योग उक्तः । न तु बहुव्रीहौ । कृत्तद्धितसमासेत्युत्तरवाक्यस्थसमासशब्दोपीतरसमासपर इति बहुव्रीहौ योगरूढिस्वीकारे न सुधाविरोधः ।

यद्वा बहुव्रीहौ समासान्तानां कबादीनामेवान्यपदार्थे शक्तिः, न तु समुदायस्य । तस्य तु योग एवेति न तद्विरोधः । यत्र न समा-सान्तस्तत्रापि चित्रगुरुद्गन्धिरित्यादौ ह्रस्वादिविकारोस्त्येव । भवति च विकारेणाप्यर्थभेदः उपोमन्यायेत्यादावुपशब्दस्थाकारस्यौकाररूपेण विकारेण ।

उक्तं हि कर्मनिर्णंये– ‘‘ओ अतिशय’’ इति सूत्रमिति ।

यत्र विकारोपि न तत्रापि ह्यर्थपरः स्वरविशेषोऽस्त्येव । ‘‘मन्त्रो हीन’’ इति श्रुतौ वर्णहीनस्येव स्वरहीनस्याप्यवाचकत्वोक्तेः । भ्रातृव्यादिपदे स्वरविशेषेणैव सपत्नाद्यर्थप्रतीतेश्च । इन्द्रशत्रुरिति पदे स्वरेणैवान्यपदार्थोक्तेश्च ।।

तस्माद् बहुव्रीहौ शक्तिरेव ।

न्यायदीपः

नन्वेवं तत्रैव ‘‘नैते यौगिकाः किं नाम, रूढा एव, कृत्तद्धिता-समासकरणं तु व्युत्पादनार्थम्’’ इति चोद्यं कृत्वा केवलयौगिकत्वस्य समासमात्रे समर्थनेन तद्विरोध इत्यत आह ।। कृत्तद्धितेति ।।

सुधास्वारस्यानुरोधेन समासमात्रस्य यौगिकत्वमुपेत्य बहुव्रीहावन्यपदार्थे शक्तिं प्रकारान्तरेणाह ।। यद्वेति ।। कबादीनामिति ।। ‘‘उरःप्रभृतिभ्यः कप्’’ इत्यादिनोक्तकप्प््रात्ययादीनामित्यर्थः ।। नतदिति ।। सुधाविरोध इत्यर्थः ।

।। उपोमन्यायेति ।। ‘‘उपोमन्यायमन्यव उपेहि विश्वघ’’ इति मन्त्रे उपमन्यायेति वाच्ये उपोमन्यायेत्युक्तिरोकाररूपविकारविशेषेणाति-शयार्थलाभायेत्येतत् कर्मनिर्णये भगवत्पादैरुक्तमित्यर्थः । विकारेणेत्यनन्तर-मर्थभेद इत्यनुषङ्गः ।

।। सूत्रमिति ।। महाव्याकरणसूत्रमित्यर्थः । कथं स्वरविशेषस्यार्थ-विशेषपरत्वमित्यत आह ।। मन्त्र इति ।।

‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

 स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्’’ ।

इति श्रुतावित्यर्थः ।। भ्रातृव्यादीति ।। ‘‘व्यन्सपत्न’’ इतिसूत्रे भ्रातृशब्दात्सपत्नेर्थे व्यन्प्रत्ययो भवतीत्युक्ततया व्यन्प्रत्ययस्य नकारे-त्सञ्ज्ञकत्वेन ‘‘ञिनित्यादिर्नित्यमिति’’ विहितेनाद्युदात्तस्वरेण ‘‘परास्य भ्रातृव्यो भवती’’त्यादौ शत्रुरित्यर्थप्रतीतेः । अन्यथा ‘‘तु भ्रातुर्व्यच्चेति स्वरेण सहोदरपुत्र इत्येव प्रतीतेरिति भावः ।

।। इन्द्रेति ।। ‘‘इन्द्रशत्रुर्वर्धस्व’’ इत्यत्रेन्द्रस्य शत्रुः शातयिता इति तत्पुरुषो वा, इन्द्र एव शत्रुः शातयिता यस्येति बहुव्रीहिर्वेति सन्देहे तत्पुरुषज्ञापकस्य ‘‘समासस्ये’’ति सूत्रविहितान्तोदात्तस्वरस्याभावेन ‘‘बहुव्रीहौ प्रकृत्या पूर्वपदं’’ इत्युक्तपूर्वपदप्रकृतिस्वरेण बहुव्रीहित्वावगमके-नान्यपदार्थोक्तेरित्यर्थः ।। शक्तिरेवेति ।। अन्यपदार्थविषय इति योज्यम् ।

तर्कताण्डवम्

अत एव श्रुतौ ‘‘तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किञ्च तस्माद्विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षते । एतमेव सन्तम्’’ इति बहुव्रीहौ विश्वामित्रशब्दे, स्मृतौ च ‘‘अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’’ इति नारायणपदे । सूत्रे चादृश्यत्वादिगुणकशब्दे भगवति मुख्यतैवोक्ता ।

।। इति बहुव्रीहौ लक्षणाभङ्गः ।। ७४ ।।

न्यायदीपः

।। तदिति ।। यद्यस्मात्तत्प्रसिद्धमिदं विश्वमस्य प्रकृतप्राणनाम्नो भगवतो मित्रमासीत् तस्मादित्यैतरेयश्रुतावित्यर्थः । बहुव्रीहौ मुख्यतैवोक्तेत्यन्वयः ।। ता इति ।। आप इत्यर्थः ।

‘‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः’’ ।

इति पूर्वशेषे अपां प्रकृतत्वात्, विश्वं मित्रं यस्य नारा अयनं यस्येति विग्रहसूचनात्, सूत्रे कप्प््रात्ययप्रयोगाद् बहुव्रीहावित्युक्तम् । समन्वय सूत्रत्वात्सूत्रे मुख्यतावगम्य इति भावः ।

।। इति बहुव्रीहौ लक्षणाभङ्गः ।। ७४ ।।