एवं चेत्प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृह्णतः सार्वज्ञ्यं स्यात्
अथ प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्तसार्वज्ञ्यप्रसङ्गभङ्गः ।। ४ ।।
तर्कताण्डवम्
अत्रोक्तं खण्डने–
एवं चेत्प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृह्णतः सार्वज्ञ्यं स्यात् । तथा च सर्वान्तर्गताशेषविशेषाणां ज्ञातत्वादयं घटो नवेति संशयादिकं न स्यात् । न च प्रमेयमिति ज्ञानं सर्वविषयकमपि प्रमेयत्वप्रकारकमेव, न तु घटत्वादिप्रकारकं, समानप्रकारकमेव च ज्ञानं संशयादिविरोधीति वाच्यम् । तत्प्रकारकत्वं हि तद्वैशिष्ट्यविषयकत्वम् । प्रमेयमिति ज्ञानं च सर्वविषयकत्वाद्घटत्वादिवैशिष्ट्यविषयकमेवेति ।।
अत्र केचिदाहुः– यद्यपि प्रमेयमिति ज्ञानं घटत्वादिवैशिष्ट्य-विषयकम् । तथापि न घटत्वादिविशेषणज्ञानजन्यम् । प्रमेयमिति ज्ञानात्पूर्वं घटत्वादिज्ञाननियमे मानाभावात् । जन्यज्ञानस्य संशयादिविरोधित्वे च तद्विशेषणज्ञानजन्यत्वं तन्त्रमिति संशयादिकं युक्तमिति ।।
यद्वा यथा ज्ञानस्य स्वाभावेन स्वविषयेण च सह सम्बन्धेऽ-विशिष्टेऽप्यभावाद्व्यावृत्तो विषयेण सह सम्बन्धविशेषोऽन्य एव, यथा वा घटोऽयमित्यत्र घटघटत्वयोर्विषयत्वेऽविशिष्टेपि घटत्वांशे विशेष्य-व्यावृत्तः सम्बन्धोऽन्य एव । तथा ‘‘घटोऽयं’’ ‘‘प्रमेयम्’’ इति ज्ञानद्वयेऽपि घटत्वस्य भासमानवैशिष्ट्यप्रतियोगित्वरूपप्रकारत्वेऽ-विशिष्टेऽपि घटोऽयमिति ज्ञानस्य प्रमेयमिति ज्ञानाद्व्यावृत्तो घटत्व-वैशिष्ट्यांशे सम्बन्धोऽन्य एव । तेन च स्वरूपसता सम्बन्धेन घटत्वविषयकत्वं संशयविरोधित्वे तन्त्रम् । तच्च प्रमेयमिति ज्ञाने नास्तीति संशयादिकं युक्तम् ।। एतदेवाभिप्रेत्योक्तमाचार्यैः–
‘‘सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते’’ ।
इति सामान्यतः स्वरूपसता सम्बन्धसामान्येन हेतुनेत्यर्थः ।।
यद्वा यथा शङ्खे श्वैत्यसाक्षात्कारानुमित्योर्विषयकृतविशेषाभावेऽपि करणवैजात्यप्रयुक्ताज्जातिभेदादेव पीतत्वभ्रमविरोधित्वाविरोधित्वे, यथा वा मण्डूकवसाञ्जनाक्तनयनस्य पुंसो वंशे चाक्षुषस्पार्शनयोः साक्षात्कारयोर्विषयकृतविशेषाभावेऽपि जातिभेदादेवोरगभ्रमनिवर्त-कत्वानिवर्तकत्वे, तथा विषयकृतविशेषाभावेऽपि सामान्यप्रत्यासत्त्य-जन्यं ज्ञानं संशयविरोधि । न तु तज्जन्यम् । कारणवैजात्य-प्रयुक्ताद्वैधर्म्यात् ।। एतदप्युक्तम्– सामान्यत इति । सामान्य-प्रत्यासत्तिमपेक्ष्येत्यर्थः ।।
अथवा संशयविरोधित्वे न घटत्वप्रकारकत्वमात्रं तन्त्रम् । किंतु विरोधिकोट्यव्यावृत्तरूपानालिङ्गतघटत्वप्रकारकनिश्चयत्वम् । तच्च घटोऽयमिति निश्चयेऽस्ति । न तु प्रमेयमिति निश्चये । तत्र घटत्वस्य विरोध्यव्यावृत्तप्रमेयत्वालिङ्गितत्वेन प्रकारत्वात् ।।
नन्वेवं चेत्–प्रमेयत्वविशिष्टघटत्ववानयं इति ज्ञानमपि संशयविरोधि न स्यात् । तत्र घटत्वस्य विरोधिसाधारणप्रमेयत्वा-लिङ्गितत्वेनैव प्रकारत्वादिति चेन्न । उदाहृतज्ञाने घटत्ववत्त्वस्य प्रमेयत्वालिङ्गितत्वेनाप्रतीतेः । प्रमेयमिति ज्ञाने तु स्वस्मिन् भासमानस्य सर्वस्यापि प्रमेयत्वालिङ्गितत्वेन प्रतीतेः ।। एतदप्युक्तं सामान्यत इति । विरोधिकोट्यव्यावृत्तधर्मालिङ्गितत्वेनेत्यर्थः ।।
यद्वा सामान्यप्रत्यासत्तिसापेक्षं ज्ञानं, घटस्य प्रमेयत्वेनैव सह गुणप्रधानभावलक्षणसम्बन्धं गृह्णाति न तु घटत्वादिना सह तदा तदग्रहेऽपि अन्यथा तद्ग्रहसम्भवेन हान्यभावादिति न संशयविरोधि ।। एतदप्युक्तं सामान्यत इति । गुणप्रधानभावरूपसम्बन्धं विनेत्यर्थः ।।
यद्वा व्याप्तिज्ञानं विप्रकृष्टव्याप्यांशे न निश्चयरूपं किंतु सम्भावनारूपम् व्याप्त्यंशे तु निश्चयरूपमिति नरसिंहाकारमिति न कोऽपि दोषः । अत एव पद्धतौ ‘‘यद्यन्यत्रापि धूमः स्यात्तर्हि तस्याप्येवमित्येवं व्याप्तिग्रहो भवतीत्यतः काऽत्रानुपपत्तिः’’ इत्यनेनैतमेव पक्षमुक्त्वा ‘एतेन प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृह्णतः सार्वज्ञ्यप्रसङ्ग इत्यपि परास्तमि’त्युक्तम् । दृश्यते हि यद्यतिथिरा-गच्छेत्तर्हि भोजयितव्यः यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् गृह्णीयादि’ति वाक्यजन्यज्ञानस्य निमित्तांशे सम्भावनात्वेऽपि तस्मिन्सति नैमित्तिकं कार्यमित्यंशे निश्चयत्वम् ।। एतदप्युक्तं सामान्यत इति । सांमुग्ध्येन निर्धारणौदासीन्येनेत्यर्थः ।
अन्यथा तवापि सर्वं खल्विदं ब्रह्मेत्यादिवाक्यार्थधीर्न स्यात् । सर्वशब्दप्रयोगश्च न स्यात् । सार्वज्ञ्यापत्तिरित्यापादनं च न स्यादित्युक्तम् ।।
न्यायदीपा
अत्रेति । व्याप्तिज्ञानविषये दूषणमुक्तमित्यर्थः । एवं चेदिति । १व्यभिचाराभावसहचारज्ञानसहकृतप्रत्यक्षेण व्याप्तिग्रहश्चेदित्यर्थः । अस्त्वित्यत आह– तथा चेति । संशयादिकं संशयविपर्ययज्ञानादिकं न स्यादित्यर्थः । संशयाद्युपपत्तिमाशङ्क्य निराह– न चेति । समानेति । अयं घटो न वेत्यादिसन्देहस्य घट एवायमिति घटत्वादिप्रकारकनिश्चय-निवर्त्यत्वादिति भावः । घटत्वादिप्रकारकमपि भवति प्रमेयत्वेन ज्ञान-मित्याह– तत्प्रकार-कत्वं हीति । २घटत्वादिपरामर्शः । वैशिष्ट्येति । भासमानवैशिष्टप्रतियोगित्वरूपत्वात्प्रकारत्वस्येति भावः । केचित्तु तार्किकाः ।।
विशेषणज्ञानं कारणं नेति मतेनाह– यद्वेति । अन्य एवेति । प्रतियोग्यनुयोगिभावात्स्वाभावसम्बन्धाद्विषयविषयिभावरूपोऽन्य एवेत्यर्थः । घटत्वांशे घटत्वेन सह ज्ञानस्य विशेष्यव्यावृत्तोऽन्य एवेत्यर्थः । ततश्च किमित्यत आह– तेन चेति । उक्तमिति । तैत्तिरीयभाष्ये । प्रकृतोप-योगितयार्थमाह– सामान्यत इति । सम्बन्धसामान्येति । यादृशसम्बन्धेन ज्ञानं संशयादिविरोधि तदन्येन सम्बन्धेनेत्यर्थः । तादृशसम्बन्धे विवादिनं प्रत्याह– यद्वेति । शङ्खः श्वेत इति साक्षात्कारस्य शङ्खत्वादिहेतुजन्यानु-मितेश्चेत्यर्थः ।।
ननु– शङ्खगतरेखोपरेखपरिमाणादिविषयकत्वं साक्षात्कारस्यास्ति न त्वनुमितेरतः कथं विषयकृतविशेषाभावः । मैवम् । यद्विषयकत्वेन भ्रमविरोधित्वं तदंशे ३विशेष्यस्याभिप्रेतत्वात् । न हि श्वैत्यांशे द्वयोः कश्चिदपि विशेषोऽस्तीति भावः । निवर्तकत्वानिवर्तकत्वे इति । यथायोगमन्वयो न तु यथाक्रमम् । चाक्षुषत्वजात्याक्रान्तस्यानिवर्तकत्वं प्रत्युत भ्रमजनकत्वमेव स्पार्शनत्वजातियुक्तस्य न निवर्तकत्वमित्यर्थः । न तु तज्जन्यमिति । प्रमेयत्वज्ञानं च प्रमेयत्वरूपसामान्यप्रत्या-सत्तिजन्यमिति वाक्यशेषः । इत्यर्थ इति । यद्यपि सिद्धान्ते सामान्यप्रत्यासत्तिर्नास्ति । अनुगतधर्मापाकरणात् पूर्वपरिच्छेदे । तथापि परमतावष्टम्भेनेदं समाधानम् ।।
यद्वा सामान्यं तु समानानां सदृशानां भावः सामान्यमिति सादृश्य-मेवेत्यनुगतजातिभङ्गोक्तदिशा प्रमेयत्वनिष्ठसादृश्यप्रत्यासत्तिं वा प्रमेयनिष्ठ-सादृश्यरूपप्रत्यासत्तिं वापेक्ष्येति स्वमतरीतिरेवेयमिति ध्येयम् ।।
संशयविरोधित्व इति विभागः । न तन्त्रमिति नञोऽन्वयः । विरुद्धेति ।। विरुद्धा या कोटिः तदव्यावृत्तं तस्यां विद्यमानं यद्रूपं यो धर्मः तदनालिङ्गितेत्यर्थः । उदाहृतज्ञान इति । प्रमेयत्वविशिष्टघटत्ववानयं इत्युक्तज्ञानाकार इत्यर्थः । घटत्ववत्त्वस्येति । घटत्वस्यैव तदालिङ्गि-तत्वप्रतीतेरिति भावः । गुणप्रधानभावेति । विशेषणविशेष्यभावेत्यर्थः । पद्धत्यनुरोधेन पक्षान्तरमाह– यद्वा व्याप्तिज्ञानमिति । न निश्चयरूपमिति विभागः । सम्भावनारूपं उत्कटकोटिकसंशयरूपम् । न कोऽपीति । सार्वज्ञ्यापत्तिदोषो वा संशयाद्यभावापत्तिदोषो वा नेत्यर्थः । एवं रूपं ज्ञानमदृष्टचरमित्यतो लौकिकवैदिकदृष्टान्तावाह– दृश्यत इति । यदि रथन्तरेति । सोमो ज्योतिष्टोमः । ज्योतिष्टोमे हि रथन्तरं पृष्टं भवति बृहत्पृष्टं भवतीति वैकल्पिके रथन्तराख्यबृहदाख्यसामनी श्रुते तथाग्नि-देवतेत्युपांशुमासादयति सोमो देवतेत्यन्तर्याम्यस्येत्यादिनोलूखलाकाराः ग्रहशब्दिताः पात्रविशेषाश्च श्रुताः । तत्र सोमो ज्योतिष्टोमो यदि रथन्तराख्यसोमयुक्तः स्यात् तदा ऐन्द्रवायव एवाग्रः प्राथमिको येषां तानैन्द्रवायवाग्रान्गृह्णीयादित्यर्थः । विचारितं चैतद्वाक्यं द्वितीयस्य तृतीयपादीयाद्यनये । अन्यथेति । पूर्वोक्तपक्षषट्केऽन्यतमस्याप्यनङ्गीकार इत्यर्थः । तवापीति । खण्डनकारस्यापीत्यर्थः ।।
।। इति प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्तसार्वज्ञ्यप्रसङ्गभङ्गः ।। ४ ।।