लिङ्गज्ञानमेव करणम् । न तु लिङ्गम्

अथ लिङ्गपरामर्शस्य करणत्वम् ।। १५ ।।

तर्कताण्डवम्

लिङ्गज्ञानमेव करणम् । न तु लिङ्गम् । स तदा वह्निमान् तदा धूमवत्त्वादित्यादौ धूमाभावेऽपि तज्ज्ञानेनैवानुमितिदर्शनात् । न च तत्र धूमत्वं सादिकं लिङ्गान्तरमस्तीति वाच्यम् । तस्यापरामर्शात् । अपरामृश्यमानस्य हेतुत्वे च मानाभावात् । अत एवोक्तं सुधायाम्– ‘न धूमादिकमेवानुमानं किं नाम तज्ज्ञान’मिति ।।

न्यायदीपः

यत्तु मणौ लिङ्गकरणतावादे लिङ्गपरामर्शः करणं न तु परामृश्यमानं लिङ्गमित्युक्तम् । तदस्माकमनुमतमेव । किं तु परामर्श इत्यत्र तृतीय-ज्ञानत्वमेव नाभिमतमिति भावेनाह– लिङ्गज्ञानमेवेति । लिङ्गपदेन व्याप्यमुच्यते । प्रत्यक्षेणानुमानेन शब्देन वा जातं यल्लिङ्गज्ञानं तदित्यर्थः । व्याप्तिविशिष्टलिङ्गज्ञानमेवेत्यर्थः । स इति । पर्वतादिः । अत एवोक्तं सुधायामिति । प्रत्यक्षवच्च प्रामाण्यमित्येतद्व्याख्यानसुधायामित्यर्थः ।।

उपलक्षणमेतत् । अन्यथाख्यातिवादसिद्धान्ते लिङ्गज्ञानस्य करण-तयाऽभ्युपगतत्वादिति सुधोक्तिरपि ग्राह्या । यत्तु पद्धतौ लिङ्गस्य सम्यग्ज्ञानं वा सम्यग्ज्ञातं वा लिङ्गमित्युक्तम् । तत्त्वभ्युपगमवादेन वा लिङ्गसत्त्व-स्थलाभिप्रायेण वा नेयम् । वस्तुतस्तु व्याप्तिप्रकारमनुसृत्यानुमितिं जनयती-त्यत्रैव तात्पर्यादनास्थयोक्तावपि सुधानुरोधाल्लिङ्गज्ञान एव तात्पर्यमिति भावः । अस्मिन्पक्षे क्रियायोगव्यवच्छिन्नत्वमेव करणत्वं न सव्यापारत्व-मित्येके । लिङ्गज्ञानं करणं तज्जन्याव्याप्तिस्मृतिर्व्यापारः । शाब्दज्ञाने शक्तिस्मृतिवदित्यन्ये । मन एव करणं व्याप्यज्ञानं व्यापारः । न चानुमितेर्मानस प्रत्यक्षत्वापत्तिः संस्कारव्यापारकत्व एव तथात्वात् व्यापारप्राधान्यविवक्षया लिङ्गज्ञानं करणमित्युक्तिरित्यपरे ।। १५ ।।

।। इति लिङ्गपरामर्शस्य करणत्वम् ।। १५ ।।