अथ मतम्– अस्त्येवान्वये शक्तिः..
अथ अन्विताभिधाने युक्तिदशकम् ।
तर्कताण्डवम्
अथ मतम्–
अस्त्येवान्वये शक्तिः, किं तु सा स्वरूपसत्येव हेतुः, न तु ज्ञाता । पदार्थे शक्तिज्ञानादेवान्वयबोधोपपत्तेः ।
न च वैपरीत्यं शङ्क्यम् । अन्वयस्य पदार्थनिरूप्यत्वेन नागृहीत-विशेषणान्यायेन तत्रैव शक्तिग्रहस्य हेतुत्वात् । व्यवहारेण लिङ्गे-नान्विते शक्तिग्रहेऽपि गौरवान्यल्लभ्यत्वाभ्यामन्वयांशमपहाय पदार्थ-मात्रविषयत्वेनैव शक्तिग्रहस्य शाब्दबोधहेतुत्वकल्पनात् ।।
न चैवं पदार्थे ज्ञाता शक्तिरुपयोगिन्यन्वये त्वज्ञातेति शक्तिद्वित्वे गौरवमिति वाच्यम् । गुरुमते जातिविशिष्टव्यक्तिविषयायाः शक्ते-रेकत्वेऽपि जात्यंशमात्रे ज्ञातोपयोगित्ववदिहाप्यन्वितविषयायाः शक्तेरेकत्वेऽपि पदार्थांशमात्रे ज्ञातोपयोगित्वस्योपपत्तेः । अत एव कुब्जशक्तिवाद इति ।
न्यायदीपः
१यत्तु मणौ पदशक्तिवादपूर्वपक्षे प्राभाकरमतानुवादप्रस्तावे जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि शब्दशक्तिः जात्यंशे सा ज्ञाता, व्यक्त्यंशे तु स्वरूपसती हेतुः लाघवादिति कुब्जशक्तिवादस्त्वया नैयायिकेनाप्यन्वये कुब्जशक्तिस्वीकारादिति दृष्टान्तमुखेनान्वये कुब्जशक्तिरुपक्षिप्ता तां तन्माताभिमतोपपादनपूर्वमनुवदति ।। अथ मतमित्यादिना ।। कुत इत्यतोऽन्यतो लभ्यत्वान्न तत्र ज्ञातोपयुज्यत इत्याह ।। पदार्थ इति ।। वैपरीत्यमिति ।। अन्वये ज्ञाता पदार्थे स्वरूपसतीति वैपरीत्यमित्यर्थः ।। नागृहीतेति ।। ‘‘नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते’’ इति न्यायेन प्रथमोपस्थितपदार्थरूपविशेषणांश एव शक्तिग्रहस्य हेतुत्वादित्यर्थः । व्यवहारलिङ्गकान्वितशक्तिग्रहविरोध इत्यत आह ।। व्यवहारेणेति ।।
ननूभयत्र शक्तेरेकत्वे ज्ञातत्वाज्ञातत्वयोर्विरोधेन शक्तिभेदे गौरवमिति शङ्कते ।। न चेति ।। शक्त्यैक्येऽप्यवच्छेदकभेदादविरोध इति सदृष्टान्तमाह ।। गुरमत इति ।। जात्यंश इति ।। नागृहीतविशेषेणान्यायेनेति भावः ।। ज्ञातोपयोगित्ववदिति ।। जातिविशिष्टव्यक्तिज्ञानहेतुत्वं यथा तथेत्यर्थः । ज्ञाताया उपयोगित्वं ज्ञातोपयोगित्वं तद्वत्, ‘‘तदशिष्यं१ प्रमाणत्वात्’’ इतिवदयं निर्देशः साधुः । एवमग्रेऽपि ।। अत एवेति ।। अंशभेदेनाज्ञातत्वादेवेत्यर्थः ।