मणौ त्वयमालोको धूमो वा उभयथापि वह्निव्याप्य इति..

अथ मण्युक्तपरामर्शप्रक्रियाभङ्गः ।। १३ ।।

तर्कताण्डवम्

मणौ त्वयमालोको धूमो वा उभयथापि वह्निव्याप्य इति ज्ञाना-त्तावदनुमिति र्दृश्यते । तत्र व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं न सम्भवति । अवच्छेदकयोर्धूमत्वालोकत्वयोरनिश्चयात् । निश्चितस्य तदन्यान्यत्वस्य गौरवेण व्यभिचारावारकविशेषणत्वेन चानवच्छेद-कत्वात् । इत्युक्तम् । तन्न । व्याप्यतावच्छेदकपदेन व्याप्तिनियत-धर्मस्य विवक्षितत्वात् । अन्यतरत्वे च गौरवादौ सत्यपि व्याप्ति-नैयत्यरूपस्य व्याप्त्यवच्छेदकत्वस्यानपायात् । न हि गुर्वित्येतावता नियतमप्यनियतं भवति । नीलधूमादौ धूमान्यान्यादौ च वैयर्थ्यमेव दोषः । प्रकृते तु संदिग्धासिद्धिवारकत्वान्न वैयर्थ्यमपि ।।

किञ्चान्यतरत्वज्ञानस्य त्वयापि व्याप्तिग्राहकप्रत्यक्षसहकारित्वं स्वीकृतम् । सहकारित्वं च न भूयोदर्शनादिवत्स्वरूपेण । किं त्वन्यतरत्वस्य व्याप्तिव्याप्यतया तद्दर्शनस्य विशेषदर्शनत्वेनैवेति कथमन्यतरत्वस्य व्याप्तिव्याप्यत्वाग्रहः ।।

केचित्तु– धूमत्वालोकत्वाभ्यां सन्दिग्धे वस्तुनि धूमालोका-न्येभ्योऽन्यत्वमेव दुर्ग्रहम् । न हि साधनाश्रययोरन्यतरत्वमित्यादौ साधनाश्रययोः साधनत्वाश्रयत्वाज्ञाने तदन्येभ्योऽन्यत्वं गृह्यत इत्याहुः । तस्मान्न मण्युक्तं युक्तम् ।।

न्यायदीपः

परामर्शवादसिद्धान्तोक्तप्राभाकरखण्डनप्रकारमनुवदति– मणौत्विति । इत्युक्तमित्यन्वयः । तदन्यान्यत्वस्येति । धूमालोकाभ्यां यदन्यत् तदन्य-त्वस्येत्यर्थः । व्यभिचारेति । धूमालोकान्यान्यवत्त्वादित्यत्र धूमवत्त्वादा-लोकवत्त्वादित्येकैकहेतूक्तौ व्यभिचाराभावाद्व्यभिचारवारकस्यैव सार्थक्यादिति भावः । गुरुधर्मतया व्याप्तिग्रहानुपयुक्तविशेषणत्वेन चेत्यर्थ इत्यप्याहुः । अन्यान्यत्व इत्यस्यार्थानुवादोऽन्यतरत्वे चेति ।।

नन्वेवं पर्वतोऽग्निमान्नीलघूमवत्त्वाद्धूमान्यान्यवत्त्वादित्यादिप्रयोगोऽपि साधुः स्यात् । नीलधूमत्वादेर्गुरुत्वेऽपि व्याप्तिनियतत्वेन व्याप्यता-वच्छेदकत्वानपायादित्यत आह– नीलेति । सन्दिग्धेति । धूमवत्त्वादिति वा आलोकवत्त्वादिति वोक्तावन्यतरसत्त्वस्यानिश्चयादिति भावः । त्वया-पीति । गुरोरप्यन्यान्यत्वज्ञानस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वादन्या-न्यत्वज्ञानं तत्र व्याप्यताज्ञानोपक्षीणमिति मणावुक्तेरिति भावः ।।

अत एव मणावेतदरुच्यापि चेत्यादिना प्रागस्मदुक्तपक्ष एव किञ्च वह्निव्याप्यवानयमिति शाब्दज्ञान इत्यादिनोपन्यस्त इति ध्येयम् । यदपि संशयस्थलेऽन्यान्यत्वनिश्चयमुपेत्य व्याप्यत्वज्ञानोपक्षीणत्ववचनम् तदप्ययुक्तमित्याह– केचित्त्विति । प्रतियोगितावच्छेदकप्रकारेण प्रतियोगिनोऽनिश्चये तदन्योन्याभावस्य दुर्ज्ञानत्वादिति भावः ।।

।। इति मण्युक्तपरामर्शप्रक्रियाभङ्गः ।। १३ ।।