किं चैवं नित्यस्थे..

४३. अथ पण्डापूर्वभङ्गः ।

तर्कताण्डवम्

किं चैवं नित्यस्थे, न कलञ्जं भक्षयेदित्यादिनिषेधस्थे च, त्वदभिमतं पण्डापूर्वं न सिध्येत् । लोके क्रियाकार्यत्वे शक्तेर्गृहीतत्वा-न्नित्यादिस्थे च कामाधिकार इव १योग्यताया अभावात्क्रियाया एव च पण्डापूर्ववच्छ्रुतिबलादलौकि२केष्टत्वकल्पनात् । क्रियाकार्यत्वस्यैव लिङर्थत्वसम्भवात् । तस्य लिङ्वाच्यत्वं दूरापास्तम् । स्वीकृतं च त्वया सन्ध्यानुपास्तिजन्यस्य कलञ्जभक्षणजन्यस्य च दुरितापूर्वस्या-वाच्यत्वेपि सन्ध्योपास्तिजन्यस्य कलञ्जभक्षणान्निवृत्तिरूपव्यापार-जन्यस्य चापूर्वस्य लिङ्वाच्यत्वम् ।

न्यायदीपः

अन्यथानुपपत्त्याऽपूर्वस्य लिङ्वाच्यत्वे बाधकान्तरमाह ।। किं चैवमिति ।। कामिनियोज्यान्वयानुपपत्त्या अपूर्वस्य लिङ्वाच्यत्व इत्यर्थः ।। त्वदभिमतमिति ।। सन्ध्योपासनविषयं कार्यं कलञ्जभक्षणाभावविषयकं कार्यमिति यत्फलाजनकमपूर्वं त्वदभिमतं तन्न सिध्येदित्यर्थः ।

कुत इत्यतः क्रियाकार्यत्वस्यैव लिङर्थत्वसम्भवादिति वक्ष्यमाण-हेतुनाऽन्वयः । कथमित्यतः लोके क्रियायाः कार्यत्व एव लिङर्थत्वग्रहात् तदपवादकस्य चेहाभावात् सन्ध्योपासनादिकं कार्यं कलञ्जभक्षणादिकं न कार्यं कलञ्जभक्षणाभावः कार्य इति वा व्युत्पत्तिग्रहसम्भवादिति भावेनाह ।। लोक इति ।। क्रियारूपकार्य इत्यर्थः ।

।। कामाधिकार इवेति ।। ‘‘यजेत स्वर्गकाम’’ इत्यादाविवेत्यर्थः । तत्र फलाश्रवणेन कामिनियोज्यान्वयानुपपत्त्यभावेन कार्यत्वान्वयायोग्यताया अभावादित्यर्थः ।

नन्वपुमर्थे पुमर्थासाधने च कथं कृतिसाध्यत्वरूपकार्यत्वबुद्धिरित्यत आह ।। क्रियाया एवेति ।। क्रियाकार्यस्येति ।। क्रियारूपकार्यस्येत्यर्थः ।। दूरपास्तमिति ।। अपूर्वे सति तस्य लिङ्वाच्यत्वं सिद्ध्येत् । तस्यैवासिद्धौ लिङ्वाच्यत्वं दूरनिरस्तमित्यर्थः । मास्तु नित्यादिस्थेऽपूर्वस्य लिङ्वाच्यत्वमित्यतोऽपसिद्धान्त इति भावेनाह ।। स्वीकृतं चेति ।।

तर्कताण्डवम्

न चैकत्र निर्णीतः शास्त्रार्थ इति न्यायस्यायं विषयः । कामाधिकारे लक्षणादिनाऽप्यपूर्वपरत्वोपपत्त्याऽपूर्वे शक्तेरनिर्णया-दित्युक्तत्वात् । न चैकत्रानुपपत्त्या लाक्षणिकार्थो गृहीत इति तदभावेऽपि सः । अवगोरणवाक्येपि दुरितापूर्वस्याऽग्नेयादिवाक्ये उत्पत्त्यपूर्वस्य च लिङर्थत्वापातात् ।

न्यायदीपः

ननु काम्यस्थेऽपूर्वस्य लिङ्वाच्यत्वसिद्धौ नित्यादिस्थेऽपि तथात्वं न्याय्यमेवेति शङ्कां निराह ।। न चेति ।। उक्तत्वादिति ।। लोकवेदाधि-करणन्यायेनेत्यादिना ग्रन्थेनोक्तत्वादित्यर्थः ।

ननु मास्तु नित्यादिस्थे शक्त्याऽपूर्वसिद्धिः, लक्षणयैव पण्डापूर्व-लाभोस्त्वित्यतो लक्षणाबीजाभावादयमपि पक्षो न युक्त इत्याह ।। न चैकत्रेति ।। काम्यस्थे कामिनियोज्यान्वयानुपपत्त्येत्यर्थः ।

अनुपपत्त्यभावेपि एकत्र निर्णीतन्यायेन लक्षणयाऽपूर्वस्य लिङर्थत्वेऽति-प्रसङ्गमाह ।। अवगोरणेति ।। ‘‘यो ब्राह्मणायावगुरेत्तं शतेन यातयात्’’ इत्यत्र ‘‘हेतुहेतुमतोर्लिङ्’’ इत्युक्तलिङ्प्रत्ययबलेनावगोरणस्य कालान्तर-भाविशतयातनारूपनरकहेतुत्वावगमेन तदन्यथाऽनुपपत्त्याऽपूर्वं कल्प्यते, तथाऽऽग्नेयादावपि फलापूर्वस्य लिङ्वाच्यत्वेप्युत्पत्त्यपूर्वाणि कल्प्यन्त इति तवाङ्गीकारो न युक्तः स्यात् । तत्राप्यपूर्वं लिङर्थः इत्येव स्यादित्यर्थः ।

तर्कताण्डवम्

किं चास्तु कामाधिकारे क्रियाऽतिरिक्तस्थायिकार्ये शक्तिग्रहः, तथाऽपि नित्यादिस्थे क्रियातिरिक्तः क्रियाजन्यः स्थायी यागध्वंसो वा द्रव्ये स्वत्वध्वंसादिर्वोपात्तदुरितक्षयादिकं वा लिङ्वाच्यम् । तेन च यागध्वंसादिना धात्वर्थस्य निरूपकत्वेनान्वयः । श्रुत्युक्तत्वात् । पण्डापूर्वमिव ध्वंसादिकमेवालौकिकेष्टमित्यस्तु ।

युक्तं चैतत् । ध्वंसस्य नित्यत्वेन पण्डापूर्व इवात्र निवर्तका-न्वेषणक्लेशाभावात् । एतदप्युक्तमिष्टसाधनत्वमेवेति । न तु पण्डापूर्व-मित्यर्थः ।

।। पण्डापूर्वभङ्गः ।। ४३ ।।

न्यायदीपः

।। किं चास्त्विति ।। काम्यस्थेपि यागादिध्वंसस्य स्थायिव्यापारत्वे ‘‘नन्वस्तु यागादिध्वंस एव’’ इत्यादिना वक्ष्यमाणदोषादस्तु तत्रस्थायिकार्ये शक्तिग्रह इत्युक्तम् ।। द्रव्य इति ।।

‘‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’’

इत्यादिवाक्योक्ते नित्ये दशपूर्णमासादौ यद्द्रव्यं पुरोडाशाज्यदध्यादि, तस्येदं न ममेति यत्स्वत्वत्यागरूपस्वत्वध्वंसः तदादिकमित्यर्थः । मन्त्रोच्चारणध्वंसादिरादिपदार्थः । सन्ध्योपासनादौ, ‘‘आपः शुद्ध्यन्तु मैनसः’’ इत्यादिनोपात्तदुरितक्षयादिकं वेत्यर्थः ।

।। तेन चेति ।। लिङ्वावाच्येन चेत्यर्थः । धात्वर्थस्य यागादेः । को विशेषोस्मिन् पक्ष इत्यत आह ।। युक्तं चेति ।। निवर्तकेति ।। जन्यस्य भावस्य निवृत्तिनियमादपूर्वस्य च कर्मनाशि१नी संस्पर्शाद्यभावे सति फलैकनाश्यत्वनियमात् । नित्यादौ च फलाभावान्निवर्तकान्वेषणप्रयासः स्यात् । न तु ध्वंस इत्यर्थः ।

।। पण्डापूर्वभङ्गः ।। ४३ ।।