अत्र मुख्यवृत्तित्रये पङ्कजादिशब्देषु रूढेर्योगाच्च योगरूढिः प्रबला

७१. अथ रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ।

तर्कताण्डवम्

अत्र मुख्यवृत्तित्रये पङ्कजादिशब्देषु रूढेर्योगाच्च योगरूढिः प्रबला । रूढार्थस्य पद्मशब्देनापि, यौगिकार्थस्य च कर्दमजातशब्देनापि, प्रतीतिसम्भवेनाप्तप्रयुक्तानामवयवानां समुदायस्य च सार्थक्यायो-भयानुग्रहकस्यौचित्यात् ।

अत एव लोके निरुपपदेन पङ्कजशब्देनोत्सर्गतो जलकमलस्यैव धीः । न तु स्थलकमलस्य । न वा कुमुदस्य । एवं वेदेपि ब्रह्मादि-शब्दैर्न रूढिमात्राज्जीवादेर्धीः । नारायणादिशब्दैरपि न योगमात्राद-बयनवस्तुमात्रस्य ।

न्यायदीपः

एवमस्य शब्दस्य वृत्तिस्त्रेधेत्यादिना प्रकरणदशकेन विभागलक्षण-परीक्षाभिर्वृत्तिस्वरूपाणि निर्धार्येदानीं बलाबलं निरूपयितुं मुख्यवृत्तीनां ताव-त्तदाह ।। अत्रेति ।। प्राङ्निरूपितमुख्यामुख्यवृत्तिमध्ये यन्मुख्यवृत्तित्रयं तस्मिन्नित्यर्थः । पङ्कजमानयेत्यादौ रूढितः स्थलकमलस्य योगात्कुमुदादे-र्योगरूढितो जलकमलस्य ग्रहणप्रसक्तौ कस्य ग्रहणमित्यत आह ।। रूढे-र्योगाच्चेति ।।

प्राबल्ये हेतुमाह ।। रूढार्थस्येति ।। वेदेपीति ।। ‘‘तद्विजिज्ञासस्व, तद् ब्रह्म’’ इत्यादौ, श्रुतब्रह्मशब्दादेः ‘‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन्गुणाः’’ इत्यादिश्रुत्या, ‘‘तदेव ब्रह्म परमं’’ इत्यादिश्रुत्या च योगरूढैर्र्ब्रह्मादिशब्दैरित्यर्थः । व्यक्तमेतज्जन्माधिकरणचन्द्रिकायाम् ।

आदिपदेन ‘‘आत्मा वारे द्रष्टव्यः’’ इत्यादावात्मादिशब्दग्रहः । तथान्तराकाशप्राणाद्यधिकरणोदाहरणभूतेन्द्रमित्राग्न्याकाशप्राणादिशब्दानां च ग्रहः । तेषामपि देवादौ रूढिमात्राद्विष्णौ योगरूढिमत्त्वात् । रूढितो योगरूढेः प्राबल्ये उदाहरणमुक्त्वा योगात्तत्प्राबल्ये आह ।। नारायणेति ।।

‘‘अपो नारा इति प्रोक्ता आपौ वै नरसूनवः ।

 अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’’

इति स्मृत्या ‘‘विष्णुर्नारायणः कृष्ण’’ इत्यभिधानेनच विष्णौ योगरूढे-र्नारायणादिशब्दैः ‘‘नारायणं महाज्ञेयं’’ इत्यादौ जलाश्रयमात्रवस्तुनो न प्रतीतिः किन्तु विष्णोरेवेत्यर्थः ।

तर्कताण्डवम्

रूढियोगयोस्तु योगाद्रूढिः प्रबलेति तया योगस्य अपहारः । यथा वर्षासु रथकारोऽग्नीनादधीतेत्यत्र रथकारशब्दो सङ्करजातौ रूढ्या रथकर्तरि ।

यथा वा मण्डपं पश्येत्यत्र गृहविशेषे रूढ्या मण्डपानकर्तरि योगस्य ।

न्यायदीपः

एवं रूढेर्योगाच्च योगरूढेर्बलवत्त्वमुपपाद्य योगाद्रूढेस्तदाह ।। रूढि-योगयोस्त्विति ।। वर्षासु ।। वर्षर्तौ । शब्दस्वाभाव्यात् स्त्रीलिङ्गं बहुवचनं च ।। सङ्करजाताविति ।।

‘‘शूद्रायां करभो वैश्यान्महिष्यो विट्स्त्रियां नृपात् ।

 रथकारस्तु माहिष्यात्करभ्यां यस्य सम्भवः’’

इत्युक्तसङ्करजातावित्यर्थः ।। योगस्येति ।। अपहार इत्यनुषङ्गः । एवमग्रेपि । अत एव षष्ठे ‘‘वचनाद् रथकारस्याधानम्’’ इत्याद्यपादीयो-पान्त्याधिकरणे रथकर्तृत्वयोगेन त्रैवर्णिकपरत्वं रथकारशब्दस्याशङ्क्य रूढ्या सङ्करजातिपरत्वमुक्तमिति भावः ।। मण्डपानेति ।। मण्डं घनीभूत-दधिखण्डविशेषं पिबतीति व्युत्पत्तेरिति भावः ।

तर्कताण्डवम्

ननु–

रूढेः प्राबल्यं न तावत्समुदायात्परया विभक्त्या स्वार्थस्य कर्मत्वादेः समुदायार्थे बोधनादवयवार्थे त्वबोधनादिति युक्तम् । यौगिकार्थे प्रकरणादिसत्त्वेपि तया तत्र तदबोधनप्रसङ्गात् । रूढाव-खण्डसमुदायादिव योगेपि सखण्डसमुदायात्परत्वस्य सत्त्वाच्च ।

न्यायदीपः

योगाद्रूढेः प्राबल्यमुपजीव्यत्वादिनेत्युपपादयिष्यन् प्रकारान्तरेण प्रसक्तप्राबल्येहेतुचतुष्टयं पूर्वपक्षिमुखेनानूद्य निराचष्टे ।। नन्वित्यादिना उच्यत ।। इति पर्यन्तेन ।। यौगिकार्थेति ।। यौगिकार्थग्राहकप्रकरण-लिङ्गाप्तवाक्यादिसत्त्वेपि तया समुदायात्परया विभक्त्या कर्मत्वकर्तृत्वाद्यबोध-प्रसङ्गात् । अवयवार्थे तदबोधनादिति त्वयोक्तत्वात् । न चेष्टापत्तिः । अनुभवविरोधादिति भावः ।

यदि समुदायात्परविभक्त्या स्वार्थभूतकर्मत्वादेर्बोधनमवयवार्थेन स्यात् तर्हि केवलयौगिकस्थले प्रोक्षणीरासादयेत्यादावपि विभक्त्यर्थकर्मत्वादेरन्वयो न स्यात् । तत्रापि विभक्तेः समुदायात्परत्वात् । ननु चाखण्डसमुदायात्पर-विभक्तिरेवावयवार्थे स्वार्थं न बोधयति रथकारमानयेत्यादौ प्रोक्षणीरित्यादि-सखण्डसमुदायात्परा तु बोधयत्येवेति चेन्न । तत्र प्रकरणादिनाऽवयवार्थ-विवक्षायामप्यबोधनापातादित्युक्तत्वात् ।

तर्कताण्डवम्

अन्यथा पाचकमानय पङ्कजमानयेत्यादौ कर्मत्वादेः यौगिकार्था-न्वयो न स्यात् ।

नापि– रूढौ शाब्दानुभवकारणीभूता वर्णसमुदायगोचरा स्मृति-रेकेति शीघ्रा । एकशक्त्याधारवर्णेष्वेकैव स्मृतिरिति फलबलेन कल्पनात्; योगे तु अनेकशक्त्याधारा अनेकावयवगोचरा तु नानेति विलम्बितेति रूढेः प्राबल्यमिति युक्तम् । समुदायगोचराया एव स्मृतेरवयवगोचरत्वात् ।

अत एव शाब्दानुभवेतिकर्तव्यताभूता समुदायनिष्ठैकशक्तिस्मृतिः शीघ्रा । अवयवनिष्ठनानाशक्तिस्मृतिस्तु विलम्बितेति रूढेः प्राबल्य-मिति निरस्तम् । समुदायशक्तिस्मारकवर्णसमुदायगोचराया एवोप-स्थितेरवयवविषयतया तज्जन्याया अवयवनिष्ठनानाशक्तिसमूहालम्बन-स्मृतेः विलम्बायोगात् । प्रत्युतसमुदायज्ञानस्यावयवज्ञानपूर्वकत्वा दवयवैरेव पूर्वं शीघ्रं स्वशक्तिस्मारणं युक्तम् ।

अत एवैकशक्तिस्मृतिजन्या समुदायार्थस्मृतिरेकेति शीघ्रा । अनेकशक्तिस्मृतिजन्यावयवार्थस्मृतिर्नानेति विलम्बितेति परास्तम् । पदं न स्मारकमित्युक्तत्वात् । स्मारकत्वेप्यवयवनिष्ठशक्तिस्मृताव-विलम्बस्योक्तत्वाच्च ।

तस्माच्चतुर्धापि न रूढेर्योगात्प्राबल्यमिति ।

न्यायदीपः

विपक्षे बाधकं चाह ।। अन्यथेति ।। सखण्डसमुदायात्परयापि विभक्त्या अवयवार्थे स्वार्थाबोध इत्यर्थः ।। नापीति ।। युक्तमित्यन्वयः । स्मृतिरेकेत्येतद्व्यनक्ति ।। एकशक्तीति ।। फलेति ।। शाब्दानुभवरूप-फलबलेनेत्यर्थः ।

।। समुदायगोचराया एवेति ।। तथाचैकत्वात्स्मृतेः कथं शीघ्रत्व-विलम्बितत्ववैषम्यमिति भावः ।

अत एवेत्युक्तं व्यनक्ति ।। समुदायेति ।। तज्जन्याया इति ।। अवयवविषयोपस्थितिजन्याया इत्यर्थः ।। अवयवैरिति ।। स्मृतिविषय-भूतैरित्यर्थः ।

।। चतुर्धापीति ।। विभक्त्यर्थस्य समुदायार्थबोधनेन, वर्णसमुदायगोचर-स्मृतेः शीघ्रत्वेन, शक्तिस्मृतेः शीघ्रत्वेन, पदार्थस्मृतेः शीघ्रत्वेन, वा चतुर्धापीत्यर्थः ।

तर्कताण्डवम्

उच्यते । अवयवे रूढिं विना समुदाये योगासम्भवेनोपजीव्यत्वाद् रूढेः प्राबल्यं, शीघ्रत्वाच्च । १तथाहि । रूढार्थानुभवो वर्णानुभवश्च वर्णश्रवणमात्राद्भवतीति शीघ्र: ।

२अखण्डत्वेन परस्परान्वयनिरपेक्षस्य तस्य विभक्त्यर्थान्वयः क्रियान्वयोपि शीघ्र: । यौगिकार्थानुभवस्तूपपदधातुप्रत्ययविभागज्ञान-पूर्वक इति विलम्बितः । तेषां परस्परान्वयज्ञानपूर्वकः क्रियान्वयोपि विलम्बितः ।

एवं च शीघ्रया रूढ्या प्रतिबन्धाद्वा शीघ्रोपस्थितेन रूढार्थे-नान्वितस्य पदान्तरस्य यौगिकार्थे नैराकाङ्क्ष्याद्वानन्वयः ।।

यद्यपि समुदायोपस्थितिरेवावयवगोचरा तथापि सा वर्णत्वरे-फत्वादिनैव तद्गोचरा । सा च न यौगिकार्थानुभवहेतुः । या तु यौगिकार्थानुभवहेतुरूपपदत्वादिनोपस्थितिः सा विलम्बिता । पङ्कजादौ त्वविरोधादवयवार्थेपि प्रयोगप्राचुर्येणप्रतिबध्यत्वे तन्त्रस्य तदप्राचुर्य-स्याभावाच्च न रूढ्या तदपहारः ।

न्यायदीपः

‘‘रूढिमेव समाश्रित्य विभज्यार्थान्यथाक्रमम् ।

 विशेषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत्’’ ।

इति ऋग्भाष्योक्तिं हृदि कृत्वाह ।। अवयवे रूढिं विनेति ।। अवयवस्यापि यौगिकत्वे तदवयवस्याप्येवमित्यनवस्थापातेन पूर्वपूर्वयोगा-सिद्ध्योत्तरोत्तरयोगासिद्धेर्मूलक्षतेः । ‘‘अनवस्थानिवृत्त्यर्थं यौगिके रूढिकल्पन’’ इति कर्मनिर्णयोक्तेरिति भावः । वाक्ये पदात्पदार्थस्मृतेरन-भ्युपगमाद्रूढार्थानुभव इत्युक्तम् ।

।। परस्परेति ।। अवयवार्थानामन्योन्यान्वयनिरपेक्षस्येत्यर्थः ।। तस्येति ।। रूढार्थस्येत्यर्थः ।। उपपदेति ।। कुम्भकारेत्यादौ कुम्भाद्युपपदं पाचकेत्यादौ पचिधात्वकप्रत्ययविभागः, यद्वा पङ्कजशब्दादौ १पङ्कजाद्युपपद-जनिधातुडप्रत्ययानां विभागः तज्ज्ञानपूर्वक इत्यर्थः ।

ननु– उपपदादिज्ञानपूर्वकत्वेन योगे विलम्बोक्तिरयुक्ता समुदायोप-स्थितिरेवावयवोपस्थितिरित्युक्तत्वादिति प्रागुक्तचोद्यमनूद्य निराह ।। यद्यपीति ।।

नन्वेवं योगरूढिस्थलेपि रूढ्या योगापहारः स्यात् । तथाच पङ्कज-पदाज्जलकमलधीर्न स्यात् । इत्यत आह ।। पङ्कजादौ त्विति ।। तदप्राचुर्यस्येति ।। प्रयोगाप्राचुर्यस्येत्यर्थः ।

तर्कताण्डवम्

अपहारोपि न यौगिकार्थास्मृतिः । स्मारकसम्बन्धस्य शक्ते रूढ इव यौगिकेपि सत्त्वात् । नापि प्रथममस्मृतिः । पङ्कजादावपि रूढ्या योगाप हारापातात् । स्मारकत्वस्य निरासाच्च ।

नापि मण्युक्तान्वयबोधबहिर्भावः । भ्रमरूपस्यप्यन्वयबोधस्याभावे रथकाराधिकरणपूर्वपक्षानुदयापातात् ।

नापि प्रमारूपतद् बहिर्भावः । अनाप्तवाक्ये रूढस्यापि तद्बहि-र्भावेन तस्याप्यपहारापातात् ।।

किन्तु तात्पर्यविषयबहिर्भावः । तस्मान्मण्डपं पश्येत्यादौ निरवरकाशप्रकरणादेरभावे रूढ्या योगापहारः । भावे तु योगग्रहः । मण्डपं भोजयेत्यादौ रूढस्यायोग्यत्वाद्योगग्रहः ।।

तदुक्तमनुव्याख्याने– ‘‘पूर्वायोगे परग्रह’’ इति । उपजीव्यत्वेन शीघ्रत्वेन पूर्वस्या रूढेरयोगे परस्य योगस्य ग्रह इत्यर्थः ।

न तु तत्र मीमांसकोक्ता लक्षणा । योगस्यापि शक्तित्वेन मुख्य-त्वात् । समुदायशक्त्यसम्भवेन्तरङ्गक्लप्तावयवशक्तावेव बुध्यवताराच्च । मुख्यार्थबाधाद्यनुसन्धानानपेक्षत्वेन शीघ्रत्वाच्च । लक्षणायाश्चातथात्वात् ।

न्यायदीपः

एवं योगाद्रूढेरुपजीव्यत्वशीघ्रत्वाभ्यां प्राबल्योपपादनेन रूढ्या योगापहार इत्युपपादितम् । तत्रापहारापदार्थं स्वाभिमतं विवक्षुश्चत्वारि पक्षान्तराण्यनूद्य निराह ।। अपहारोपीति ।। स्मारकसम्बन्धस्य शक्तेरिति सामानाधिकरण्यम् ।

।। अस्मृतिरिति ।। यौगिकार्थस्येति योज्यम् ।। पङ्कजेति ।। पङ्कज-मानयेत्यादावपि यौगिकार्थस्य प्रथममस्मृत्या तत्र रूढ्या योगापहारापत्तेः । न चेष्टापत्तिः । जलकमधीविरोधादिति भावः ।

।। स्मारकत्वस्येति ।। वाक्ये पदं न स्मारकमिति भाट्टभिमताभि-हितान्वयभङ्गे प्रतिपादितत्वेन रूढेरपि प्रथमं रूढार्थास्मारकत्वाद्रूढे-रप्यपहारापातादिति भावः । अन्वयबोधबहिर्भावः किं भ्रमरूपान्वय-बोधाविषयत्वं उत प्रमारूपतदविषयत्वम् ।

आद्यमसिद्धमिति भावेनाह ।। भ्रमेति ।। रथकारेति वचनाद्रथकारस्या-धानमिति षष्ठाद्यपादीयोपान्त्याधिकरणे रथकारशब्दस्य यौगिकत्वेन रथकर्तृत्रैवर्णिकपरत्वेन पूर्वपक्षकरणादिति भावः ।

द्वितीयेऽतिप्रसङ्गमाह ।। अनाप्तेति ।। पङ्कजमस्तीत्याद्यनाप्तवाक्यस्य तार्किकमते बोधकत्वाभावेन तत्र रूढार्थस्य शाब्दबोधाविषयत्वेनेत्यर्थः ।

नन्वेवं रूढेः प्राबल्येन तया योगार्थस्य तात्पर्याविषयत्वरूपापहारे सति जन्माद्यधिकरणादौ तद्विजिज्ञासस्व तद् ब्रह्मेति श्रौतब्रह्मशब्दे रूढजीवत्यागेन यौगिकविष्णुग्रहणं कथमुक्तमित्याशङ्कां परिहरन्नुपसंहरति ।। तस्मादिति ।। जन्मादिनये तु निरवकाशलिङ्गादेव यौगिकग्रह इति भावः ।।

।। तदुक्तमिति ।। रूढेरुपजीव्यत्वादिना पूर्वभावित्वात्तदसम्भव एव योगग्रहणमित्येतत् पूर्वोदाहृतानुव्याख्याने उक्तमित्यर्थः ।। न तु तत्रेति ।। मण्डपं भोजयेत्यादौ रूढ्यर्थगृहविशेषस्यान्वयायोग्यत्वाद्रूढार्थगृहसम्बन्धि-पुरुषज्ञानं लक्षणया मण्डपपदेन जायत इति मीमांसकोक्तं न भवतीत्यर्थः ।। अतथात्वादिति ।। उक्तत्रैविध्यवैपरीत्यादित्यर्थः ।

तर्कताण्डवम्

न चात्र योगस्य बाधकमस्ति । प्रबलाया रूढेरयोग्यतया निवृत्तेः । तत्पूर्विकाया लक्षणायाश्चोक्तहेतुभिः योगाद् दुर्बलत्वाच्च ।।

न च रूढिपूर्वकलक्षणया रूढी रक्ष्यते । रूढ्यबाधे लक्षणाया एवानुदयात् । येन प्रबलरूढ्याश्रयेण लक्षणा प्रबला स्यात् ।

प्रोद्गातॄणामित्यत्राप्युद्ग्रातृशब्दस्योद्गातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्येषु चतुर्षु अपसुब्रह्मण्येषु त्रिषुवोद्गानकर्तृत्वाद्योग एव । न तु ऋत्विग्विशेषे उद्गातरि योगरूढिः । तत्पूर्विका तेषु लक्षणा । यत्र तु रूढिपूर्वक-लक्षणायां तात्पर्यं निरवकाशमानसिद्धं तत्र योगं बाधित्वा सापि भवत्येव ।

एतदप्युक्तं ‘‘पूर्वायोगे परग्रहः’’ इति । पूर्वंस्या रूढेरयोगे अनन्तरस्य मुख्यवृत्तिरूपस्य योगस्य ग्रहः । न तु लक्षणायाः । योगस्याप्ययोगश्चेत्परस्यामुख्यवृत्तेर्लक्षणाया ग्रह इत्यर्थः ।

।। रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ।। ७१ ।।

न्यायदीपः

ननु– मुख्यत्वेपि योगस्य त्यागोस्त्वित्यत आह ।। न चात्रेति ।। यद्वा– अत्राप्यस्ति मुख्यार्थबाधतद्योगानुसन्धानमित्यत आह ।। न चात्रेति ।। तदेव व्यनक्ति ।। प्रबलाया इति ।। उक्तेति ।। योग-स्यापीत्यादिनोक्तहेतुभिरित्यर्थः ।

ननु– रूढिपूर्वकलक्षणाया रूढ्याश्रयेण बलवत्त्वाद्योगबाधकत्व-मस्त्वित्यत आह ।। न चेति ।। रक्ष्यत इत्यन्वयः । कुतो न रक्ष्यत इत्यत आह ।। रूढीति ।।

नन्वेवमुद्गातृचमसमेकस्य श्रुतिसंयोगादिति तृतीयाध्यायपञ्चमपादीया-ष्टमाधिकरणे प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणामित्युदाहृत्योद्गायन्तीत्य-वयवप्रसिद्ध्या गानकारिणामपसुब्रह्मण्यानां त्रयाणां छन्दोगानां चमसभक्षण-मिति पूर्वपक्षयित्वा उत्पूर्वस्य गायतेः समुदायप्रसिद्धिरूपरूढ्या द्वितीय-सामभक्तिविषयत्वेनोद्गातुरेव तद्गातृत्वेन ससुब्रह्मण्यानां चतुर्णां लक्षणेति शाबरभाष्ये स्थापितत्वात् । वार्तिककृता चापसुब्रह्मण्यानां त्रयाणां लक्षणेति स्थापितत्वात् कथमेवमुक्तिरित्यतस्तदुभयोक्तमप्ययुक्तमिति भावेनाह ।। प्रोद्गातॄणामिति ।। सापि– लक्षणापीत्यर्थः ।

।। एतदपीति ।। रूढेरसम्भवे योगस्यैव ग्रहणं न तु लक्षणाया इत्येतत् । तथा योगस्याप्यसम्भव एव लक्षणेत्येतदपीत्यर्थः ।

।। रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ।। ७१ ।।