प्राभाकरास्तु श्येनः करणम्
४०. अथ प्राभाकरभाट्टोक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ।
प्राभाकरास्तु श्येनः करणम् । अग्निषोमीयहिंसा त्वङ्गम् । करणे च रागतः प्रवृत्तिः । ओ तु वैधीति वैषम्यमित्याहुः । तदपि न । सेतिकर्तव्यताकस्यैव करणत्वेनेतिकर्तव्यतांशेऽपि फलरागादेव प्रवृत्तेः । यदि हीतिकर्तव्यतां विनाऽपि फलं सिध्येत्तर्हि तदनुष्ठानं व्यर्थमेव । यदि तु फलं न सिद्ध्येत्तर्हि फलरागादेवाङ्गेऽपि प्रवृत्तिः ।।
भाट्टास्तु श्येनस्य वधः फलम् । तच्च न हिंस्यादिति निषिद्धम् । अग्निषोमीयस्य तु क्रतूपकारः फलम् । तच्च न निषिद्धमिति वैषम्यमित्याहुः । तन्न । फलनिषेधस्य साधनपर्यन्तत्वे साधनविधेरपि फलपर्यन्तत्वापत्तेः । यदि च फलनिषेधो न साधनपर्यन्तस्तर्हि साधनान्निवृत्तिर्न स्यादिति दिक् ।
एतदप्युक्तम् । लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति । तस्मादिष्ट-साधनत्वस्य लिङर्थत्वे बाधकाभावाल्लिङ्वाच्येष्टसाधनत्वनिर्वाहायापूर्वं कल्प्यम् ।
।। प्राभाकरभाट्टोक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ।। ४० ।।
।। तर्कताण्डवे विधिवादः समाप्तः ।।
न्यायदीपः
।। करणमिति ।। अभिचाररूपफलं प्रतीति योज्यम् । श्येनेनेति तृतीयाश्रवणादिति भावः ।। अङ्गमिति ।। ज्योतिष्टोमाङ्गत्वेनाग्नीषोमीयं पशुमालभेतेति विधानादिति भावः । फलरागादेव प्रवृत्तेरित्येतद्व्यनक्ति ।। यदि हीति ।। वध इति ।। शत्रुवधः ।। इति वैषम्यमिति ।। निषिद्ध-फलकत्वानिषिद्धफलकत्वाभ्यां वैषम्यमाहुरित्यर्थः । न हिंस्यादित्यस्य हिंसासाधनं न कार्यमित्येतत्पर्यन्तत्वमस्त्युत हिंसा न कार्येत्येतत्पर्यन्तत्व-मेव वा । आद्य आह ।। फलनिषेधस्येति ।। साधनेति ।। ज्योतिष्टोमादि-साधनविधेरपीत्यर्थः ।
‘‘फलांशे भावनायास्तु प्रत्ययो न विधायकः’’ ।
इति त्वद्वचनविरोध इति भावः । यद्वा श्येनेन यजेतेति साधनविधेरपि वधरूपफलपर्यन्ततापत्त्या फलस्याप्यग्नीषोमीयादिहिंसावद्विधिसंस्पृष्टतया ‘‘न हिंस्यादि’’त्यस्य तद्व्यतिरिक्तपरत्वावश्यम्भावेन तस्यानर्थत्वं न स्यादिति भावः । अन्त्य आह ।। यदि चेति ।।
ननु निषिद्धसाधनत्वादेव श्येनान्निवृत्तिः । न तु न हिंस्यादिति निषेधस्पृष्टत्वादिति चेत्तर्हि ज्योतिष्टोमादावपि अनिषिद्धकाम्यहेतुत्वादेव प्रवृत्तिः । न तु विहित्वादित्यस्तु । तथा च विधिनिषेधयोरेव प्रवर्तना-निवर्तनाबोधद्वारा प्रवृत्तिनिवृत्तिहेतुत्वमिति भज्येत । सन्ध्यामुपासीतेत्यादौ नित्ये फलहेतुत्वाभावेनाप्रवृत्तिप्रसङ्गाच्च । निषिद्धफलकत्वेन श्येनादावप्रवृत्तौ विधिसंस्पृष्टत्वेन प्रवृत्त्यापाताच्चेत्याद्यभिप्ररोत्याह ।। दिगिति ।। एत-दपीति ।। अग्निषोमीयादिपश्वालम्भनस्यापि कारणकोटिप्रविष्टत्वं श्येनस्यापि विधिनेष्टसाधनत्वेन विधिबोधितत्वमित्येतदपीत्यर्थः ।
नन्विष्टसाधनत्वमित्यादिभङ्गाष्टकेनोपपादितं विधिवादप्रमेयं उत्तर-भङ्गोपक्षेपं कुर्वन्नेवोपसंहरति ।। तस्मादिति ।। निर्वाहायेति ।। कालान्तर भाविफलं प्रत्याशुतरविनाशिक्रियायाः साधनत्वस्यापूर्वं विनाऽनुपपत्तेः । तदन्यथानुपपत्त्याऽपूर्वनामक किञ्चिद्वस्तु परिकल्प्यम् । न तु लिङ्वाच्य-मित्यर्थः ।
।। प्राभाकरभट्टोक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ।। ४० ।।
।। समाप्तः विधिवादः ।।