एतेन पदं पदार्थस्मृतिमात्रोपक्षीणं नान्वितबोधकं ..
अभिहितान्वयवाद:
अथ भट्टाभिमताभिहितान्वयभङ्गः ।
तर्कताण्डवम्
एतेन पदं पदार्थस्मृतिमात्रोपक्षीणं नान्वितबोधकं स्मृतपदार्थ एव तु तद् बोधक इति भाट्टमतमपास्तम् । एवं हि शब्दस्य स्मारक-मात्रत्वात्पदार्थस्यैवान्वयप्रमाकरणत्वमिति वाच्यम् । न च तद्युक्तम् ।। प्रसिद्धं शब्दं त्यक्त्वाऽप्रसिद्धस्य पदार्थाख्यप्रमाणान्तरस्य कल्पनेऽनुव्याख्यानोक्तगौरवात् । तस्यातीतानागतादिरूपत्वेन फलभूतमन्वयानुभवं व्यापाराभिमतां पदार्थस्मृतिं च प्रति कारण-त्वस्यैवासम्भवेन तद्विशेषस्य करणत्वस्य दूरापास्तत्वाच्च ।
न च पदजन्या पदार्थस्मृतिरेव करणम् । प्रसिद्धत्यागादिदोष-द्वयात् । निर्व्यापारत्वाच्च । करणस्य च सव्यापारत्वनियमात् ।
न्यायदीपः
ननु यदुक्तं अन्वयः पदशक्यः वृत्त्यन्तरं विना शाब्दत्वात्पदार्थवदिति । तन्न । अनन्यलभ्यत्वस्य उपाधित्वात् । पदशक्तिं विनाऽप्यन्वयबोध-सम्भवात् । न च पदान्वयव्यतिरेकानुविधानायोगः । तस्यान्यत्रोपक्षयादित्यत आह ।। एतेनेति ।। यद्वा शाब्दत्वादित्यसिद्धं अन्वयबोधस्य पदार्थकरण-कत्वात् शब्दानुविधानस्यान्यत्रोपक्षयादिति मतान्तरं चानूद्य निराह ।। एतेनेति ।। पदार्थ एवेत्येकवचनं जात्यभिप्रायम् । ‘‘पदार्थास्तन्मतिर्वा स्यादिति’’ भाट्टोक्तेर्निर्व्यापारस्य कथं करणतेत्यत उक्तं स्मृत इति । स्मृतिरेवावान्तरव्यापार इति भावः । तैरपि पदार्थानामान्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयमेवेति सुधोक्तिं हृदि कृत्वाऽऽह ।। एवं हीति ।।
‘‘पदमभ्यधिकाभावत् स्मारकान्न विशिष्यते’’
इत्युक्तेः स्मारकमात्रत्वादित्युक्तम् ।। अनुव्याख्यानेति ।। ‘‘गौरवं कल्पनेऽन्यथा’’ इत्यनुव्याख्यानोक्तेत्यर्थः । दोषान्तरं चाह ।। तस्येति ।। पदार्थस्येत्यर्थः । वृष्टिरासीद्वृष्टिर्भविष्यतीत्यतीतादिरूपत्वेनेत्यर्थः । कारणत्वा- सम्भवदोषपरिहारमाशङ्क्याह ।। न चेति ।। करणमिति ।। अन्वयबोधं प्रतीत्यर्थः । एवमग्रेऽपि । पदानुविधानानुभवाविरोधायोक्तं ।। पदजन्येति ।। प्रसिद्धेति ।। प्रसिद्धशब्दत्यागाप्रसिद्धपदार्थस्मृतिरूपसप्तमप्रमाणकल्पना-रूपदोषद्वयादित्यर्थः । मण्युक्तं दोषमाह ।। निर्व्यापारत्वाच्चेति ।।