किञ्चातीन्द्रियज्ञानोपगमे योग्यानुलब्धेरभावेन..
निर्विकल्पके बाधकम्
तर्कताण्डवम्
किञ्चातीन्द्रियज्ञानोपगमे योग्यानुलब्धेरभावेन ज्ञानाभावस्य निश्चेतुमशक्यतया अनुपलब्धिलिङ्गजन्या घटाद्यभावधीर्न स्यात् ।।
न्यायदीपः
निर्विकल्पके साधकाभावमात्रं न बाधकं चास्तीत्याह ।। किञ्चेति ।। योग्येति ।। यद्यत्र मयि ज्ञानं स्यादुपलभ्येतेतिप्रतियोगिसत्त्वप्रसञ्जित-प्रतियोगित्वरूपमण्युक्तयोग्यानुपलब्धेरित्यर्थः ।। लिङ्गजन्येति ।। यद्यपि घटाद्यभावो योग्यानुपलब्धिसहकृतप्रत्यक्षवेद्यस्तथापि क्वचिदन्धकाराद्या-वृतस्थले परामर्शेन गृह्यमाणो घटाद्यभावोत्र घटो नास्ति योग्यत्वे सत्य-नुपलभ्यमानत्वादिति लिङ्गगम्य इत्यभ्युपगमात् । ज्ञानाभावज्ञान-स्यावश्यकत्वद्योतनाय लिङ्गजन्या घटाद्यभावधीरित्युक्तम् ।
न च सविकल्पकाभाव एव घटाभावबुद्धौ लिङ्गमस्तु सविकल्पकस्य योग्यतया तदभावज्ञानसम्भवादिति वाच्यम् । उपलब्धिसामान्या-भावस्यैवार्थाभावे लिङ्गत्वादन्यथातिप्रसङ्गादिति भावः ।