एवं प्रजयतीत्यादौ प्रादिनोपसर्गेण ..
५९. अथ उपसर्गाणां वाचकत्वसमर्थनम् ।
तर्कताण्डवम्
एवं प्रजयतीत्यादौ प्रादिनोपसर्गेण प्रकर्षादिरूपार्थविशेषप्रतीतेः प्रादेः प्रकर्षादौ शक्तिरेव । न तु मण्याद्युक्तं धातुगतशक्त्यवच्छेदकत्व-रूपमुपसन्दानत्वापरपर्यायं द्योतकत्वम् । गवादिशब्दानां स्वार्थ इव प्रादेरपि प्रकर्षादावावापोद्वापाभ्यां शक्तिग्रहात् ।
प्रकृष्टजयप्रत्ययस्य च जयमात्रे कप्तशक्तिकजिधातुसमभिव्याहारे-णोपपत्तौ धातावेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पने गौरवात् ।
न्यायदीपः
यत्तु मणौ– शब्दखण्डे उपसर्गास्तु द्योतका न वाचका इत्यादिना द्योतकत्वमुक्तं तन्नेतिभावेन धात्वर्थनिरूपणप्रसङ्गात्तत्संसृष्टोपसर्गार्थमपि निरूपयति ।। एवमिति ।। कुत इत्यत आह ।। गवादीति ।। आवापो-द्वापाभ्यामन्वयव्यतिरेकाभ्यामित्यर्थः । प्रादेरन्वये प्रकर्षादिधीस्तद्व्यतिरेके तदभावधीरित्येवमावापोद्वापाभ्यामिति भावः ।
नन्वावापोद्वापयोः शक्ततावच्छेदकत्वेनोपपत्तिरस्त्वित्यत आह ।। प्रकृष्ट- जयप्रत्ययस्य चेति ।। शुक्लगवीति ।। समासान्तस्यानित्यत्वात्साधुः ।
तर्कताण्डवम्
अन्यथा शुक्लां गामानयेत्यादावपि गोशब्द एव शुक्लो त्तरगो-शब्दत्वेन शुक्लगवि शक्तिकल्पनाप्रसङ्गाच्च । न च सार्थकत्वेन कप्तस्य धातोरेव नानार्थत्वं कल्प्यम् । न तु स्वातन्त्र्येणार्थानवबोधकत्वेन निरर्थकस्य प्रादेरर्थवत्त्वमिति वाच्यम् । व्यतिस इत्यादावुपसर्गस्यापि स्वातन्त्र्येणा१न्वयबोधकत्वदर्शनात् ।
अस्वातन्त्र्यमात्रेण निरर्थकत्वे चशब्दैवशब्देवशब्दादीनां प्रकृतिप्रत्ययादीनां च नैरर्थक्यप्रसङ्गात् । धातोरेवाक्षादिवन्ना-नार्थत्वेऽर्थविशेषबोधने उपसर्गानपेक्षाप्रसङ्गात् ।
न्यायदीपः
ननु– शुक्लशब्दस्यापि गोशब्दस्येव लोकेर्थवत्त्वं कप्तं न तु प्रदेरूप-सर्गस्यतो वैषम्यान्न प्रतिबन्दीति भावेनाशङ्क्य निराह ।। न च सार्थक-त्वेनेति ।। जयार्थत्वं प्रकृष्टजयार्थत्वमित्येवंरूपेण नानार्थत्वमित्यर्थः ।। स्वातन्त्र्येणेति ।। धातुपरित्यागेनेत्यर्थः ।। व्यति स इति ।। विअतीत्युपसर्गद्वयपूर्वकादस भुवीत्यस्मात् ‘‘कर्तरि कर्मव्यतिहारे’’ इत्यात्मनेपदे ‘‘श्नसोरल्लोप’’ इत्यकारलोपे ‘‘तासस्त्योर्लोप’’ इति सकार-लोपे प्रत्ययसकारस्य ‘‘सात्पदाद्योरिति’’ षत्वाभावे च व्यतिस इति रूपम् । व्यतिभवस इत्यर्थः ।। उपसर्गस्येति ।। जातावेकवचनम् । तत्र धातोर-श्रवणेप्युपसर्गप्रत्ययमात्रश्रवणेप्यर्थबोधदर्शनादित्यर्थः ।
तत्रापि स्मृतधातोरेवार्थबोधकत्ववादिनं प्रत्याह ।। अस्वातन्त्र्य-मात्रेणेति ।। चशब्दैवशब्दादीनामिति ।। चशब्दस्यैवकारस्य इवशब्दस्य तुशब्दहिशब्दादीनां प्रत्येकमर्थबोधकत्वादृष्टेरिति भावः ।
तर्कताण्डवम्
नचोपसर्गस्यापि शक्तत्वे धात्वपेक्षा न स्यादिति वाच्यम् । प्रकृतिप्रत्ययाभ्यां प्रत्ययप्रकृत्योरिवोपसर्गेण साधुत्वार्थमेव धातो-रपेक्षणेनार्थबोधनार्थमनपेक्षणात् । धातुस्त्वर्थविशेषबोधनार्थमेवोप-सर्गसापेक्षः ।
अन्यथा चकारादिरपि समभिव्याहृतशब्दान्तरस्य, प्रकृतिरपि प्रत्ययस्योपसन्दानं स्यात् ।
किञ्चैवं धातोः प्रोत्तरजित्वेन प्रकृष्टजये शक्तिश्चेत् प्रशब्दस्यैव जिपूर्वत्वेन तत्र शक्तिः किं न स्यात् । तस्मादावापोद्वापाभ्यां जिधातोर्जय इव प्रशब्दस्यापि प्रकर्षे शक्तिरेव । एवं चेत् प्रतिष्ठत इत्यत्र प्रकृष्टगतिनिवृत्तिधीरेव स्यात्, न तु गतिधीरिति चोद्यं तूभाभ्यां समाधेयम् ।
न्यायदीपः
।। प्रकृतिप्रत्याभ्यामिति ।। न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति प्रकृतिः स्वस्य साधुत्वार्थमेव प्रत्ययसाहाय्यमपेक्षते न तु स्वार्थबोधनार्थम् । प्रत्ययोपि स्वस्य साधुत्वार्थमेव प्रकृतिमपेक्षते । यथा तथैवोपसर्गेणापि ‘‘उपसर्गाः क्रियायोगे’’ इति सूत्रेण प्रादीनां क्रियावाचियोगे सत्येवोपसर्गसज्ज्ञोक्त्योपसर्गाणां क्रियाविनाभावेन साधुत्वार्थमेव धात्वपेक्षा न त्वर्थबोधायेत्यर्थः ।
ननु– जिप्रभृतिधातुरपि स्वयमेव प्रकृष्टजयादिवाचकः उपसर्गं तु स्वस्य साधुतार्थमेवापेक्षते । न तु प्रकृष्टत्वादिरूपार्थविशेषबोधनाय । येनोपसर्गाणामप्यर्थवत्त्वं स्यादित्यत आह ।। धातुस्त्विति ।। उपसर्ग-व्यतिरेकेण केवलधातुप्रयोगस्यापि दर्शनेन तेन विना धातोः साधुत्वं नेत्यस्याभावादिति भावः ।। उपसन्दानं स्यादिति ।। द्योतकः स्यान्नत्वर्थ-विशेषस्य वाचकः स्यादित्यर्थः ।
नन्वन्वयव्यतिरेकाभ्यां जिधातोर्जयरूपार्थवत्त्वं कप्तमिति न वैपरीत्यं युक्तमित्याशङ्कां परिहरन्नुपसंहरति ।। तस्मादिति ।। उक्तार्थे बाधक-माशङ्क्य निराह ।। एवं चेदिति ।। प्रतिष्ठत इति ।। ‘‘समव-प्रविभ्यःस्थः’’ इत्यात्मनेपदम् ।। गतिनिवृत्तिधीरिति ।। ‘‘ष्ठा गति-निवृत्ता’’विति धातुपाठादिति भावः ।। उभाभ्यामिति ।। उपसर्गस्या-वाचकत्ववादिना वाचकत्ववादिना चेत्यर्थः ।
तर्कताण्डवम्
यदि तव ष्ठाधातुः प्रोत्तरो गत्यर्थस्तदनुत्तरस्तु गतिनिवृत्त्यर्थ इति नानार्थस्तर्हि ममापि प्रशब्दः ष्ठाधातुपूर्वो गत्यर्थस्तदपूर्वस्तु प्रकर्षार्थ इति नानार्थोस्तु ।
ननु तथात्वे प्रतिष्ठत इत्यत्र प्रत्ययार्थस्य गमनान्वयो न स्यात् । प्रशब्दस्याप्रकृतित्वात् । प्रत्ययस्य च प्रकृत्यर्थान्वितस्वार्थबोधकत्व-नियमात् । धातुस्तु प्रकृतिरिति मन्मते न दोष इति चेन्न । त्वयैवाख्यातार्थभूतायां सङ्ख्यायामस्य नियमस्य त्यागात् ।
न्यायदीपः
प्रतिष्ठत इत्यत्र गमनं धात्वर्थ एवेत्यादिना मण्युक्तं समाधिमनूद्य समं तन्ममापीत्याह ।। यदीत्यादिना ।। गमनस्य प्रशब्दार्थत्वे भावनान्वयो न स्यादिति मण्युक्तं बाधकमाशङ्कते ।। ननु तथात्व इति ।। गतेः प्रशब्दार्थत्व इत्यर्थः ।। प्रत्ययार्थस्येति ।। लट्प््रात्ययार्थस्य प्रयत्नस्य व्यापारस्य वा गमनेन सह जनकत्वरूपान्वयो न स्यादित्यर्थः । कुत इत्यत आह ।। प्रशब्दस्येति ।। मन्मत इति ।। प्रोत्तरस्थाधातोरेव गमनमर्थः, प्रशब्दस्तूपसन्दानमात्रमिति मते दोषो नास्ति, कुतः धातुस्तु प्रकृतिरिति हेतोरित्यर्थः ।
यद्वा धातुस्तु प्रकृतिः गमनवाचक इति मन्मत इति यथान्यास एव योजना ।। अस्य नियमस्येति ।। प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियम-स्येत्यर्थः । प्रातिपदिकार्थ एवान्वयस्वीकारादिति भावः । व्यक्तमेतत्कर्त्रादे-र्लकारवाच्यत्वसमर्थनवादे । न च १सङ्ख्यान्वयप्रत्ययार्थस्य प्रकृत्यर्था-न्वितत्वनियम इति वाच्यम् । विनिगमनविरहात् । वर्तमानत्वस्य यत्नान्वयस्वीकाराच्च ।
तर्कताण्डवम्
किञ्च प्रत्ययार्थान्वयेपि प्रयोजकीभूतं प्रकृत्यर्थत्वं– न ताव-त्प्रकृतिजन्यधीविषयत्वम् । घटमानयेत्यादावाकाशादेः कारणत्व-सम्बन्धेन प्रकृतिजन्यधीविषयत्वेन कर्मत्वान्वयप्रसङ्गात् ।
नापि प्रकृतिवृत्तिविषयत्वम् । गम्भीरायां नद्यां मत्स्य इत्यादौ गम्भीरनद्याः सप्तम्यर्थानन्वयप्रसङ्गात् । न हि विशिष्टं नदीवृत्तेर्विषयः ।
न्यायदीपः
अस्तु वायं नियमस्तथापि गतेः प्रशब्दार्थत्वेपि न प्रत्ययार्था१नन्वयानु-पपत्तिः । उपसर्गार्थस्यापि प्रकृत्यर्थत्वमस्त्येवेति वक्तुं प्रकृत्यर्थत्वेन प्रसक्तं पक्षद्वयं तावदपाकरोति ।। किञ्च प्रत्ययार्थेति ।।
परमतेनाह ।। आकाशादेः कारणत्वसम्बन्धेनेति ।। तन्मते शब्दस्य जन्यत्वेन घटादिशब्दान् प्रत्याकाशस्य कारणत्वात् ।। विशिष्टं नदीति ।। गाम्भीर्ययुक्तनदी न नदीपदवृत्तेर्विषयः । येन नदया मित्यत्र श्रुतसप्तम्यर्थान्वयः स्यादित्यर्थः । यद्वान्विते वृत्तेस्त्वयानङ्गीकाराद्गाम्भीर्यवैशिष्ट्यस्य समभि-व्याहारलभ्यत्वाद् विशिष्टनदी न वृत्तेर्विषय इत्यर्थः ।
तर्कताण्डवम्
किन्तु वृत्तिसहकारेण प्रकृतिप्रयोज्यधीविषयत्वमात्रम् । अस्ति च तत्प्रशब्दार्थेपि गमने । तस्य प्रशब्दशक्तिसहकारेण ष्ठाधातुरूप-प्रकृतिप्रयोज्यधीविषयत्वात् । भवति हि प्रशब्दशक्तिजन्यापि गमनधीः ष्ठाधातुप्रयोज्या । धात्वभावे असाधुत्वेन प्रशब्दस्याख्यातस्य च प्रयोगासम्भवात् ।
यद्वाऽश्वकर्णादिशब्दस्य वृक्षविशेष इव प्रोत्तरस्य ष्ठाधातोर्गमने रूढत्वाद्धातुवत्प्रशब्दोपि शक्त्याश्रयकोटिनिविष्ट एव न तूपसन्दानम् ।
न्यायदीपः
प्रकृत्यर्थत्वं निष्कृष्य वदन्प्रकृते तदस्तीत्याह ।। किं त्वित्यादिना ।। धातुप्रयोज्यत्वं व्यनक्ति ।। धात्वभाव इति ।। प्रयोगनिर्वाहकत्वेन धातो-रन्यथोपयोगे प्रत्ययस्यापि प्रकृतिसाधुत्वार्थतापत्तेर्धातोरप्यर्थवत्त्वावश्यम्भवा-दित्यनुशयेनाह ।। यद्वेति ।। रूढत्वादिति ।। मुख्यार्थधीद्वारा गत्यर्थ-प्रतीतेरभावेन शीघ्रमेव गच्छतीत्यादाविव प्रतिष्ठत इत्यादावपि गत्यर्थ-प्रतीतेरिति भावः ।
एतेन– प्रतिष्ठित इत्यत्र विरोधिलक्षणया धोतोर्गमनोपास्थितिः तात्पर्य-ग्राहकः प्रशब्द इति मण्युक्तं निरस्तम् । गतिप्रतीतौ मुख्यार्थधीविलम्बा-भावात् । विवरिष्यते चायं लक्षणापक्षनिरासोग्रे ।
तर्कताण्डवम्
केचित्तु– प्रतिष्ठत इत्यत्र प्रशब्दो निषेधार्थः । एवं च प्रशब्दार्थेन निषेधेन धात्वर्थस्य गतिनिवृत्तेः प्रतियोगित्वेन अन्वयाद्गतिनिवृत्ति-निषेधधीरस्तु ।
न चैवं गतिनिवृत्तिनिषेधस्य अप्रकृत्यर्थत्वादाख्यातार्थान्वयो न स्यादिति शङ्क्यम् । गम्भीरायां नद्यामित्यत्र गम्भीरनद्योरन्वयानन्तरं विशिष्ट एवार्थे नद्युत्तरसप्तम्यर्थान्वयवत्तण्डुलान्पचतीत्यत्र तण्डुल-विशिष्टपाके भावनान्वयवच्च प्रशब्दार्थधात्वर्थयोर्निषेधप्रतियोगिनो-रन्वयानन्तरं विशिष्टे गतिनिवृत्तिनिषेधे भावनान्वयसम्भवात् । गतिनिवृत्तिरूपप्रतियोग्यनुल्लेखस्तु प्रयविरामविमलस्थित्यादि-शब्दजन्यप्रतीताविव शब्दस्वभावाद्युक्त इत्याहुः ।
न्यायदीपः
उक्तार्थे बाधकमाशङ्क्य निराह ।। नचैवमिति ।। अप्रकृत्यर्थत्वात्-धातुरूपप्रकृत्यर्थत्वाभावात् । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्व-नियमादिति भावः । तर्हि प्रतियोग्युल्लेखः स्यादित्यत आह ।। गतिनिवृत्ति-रूपेति ।। स्थितीति ।। गतिनिवृत्तिरूपत्वेपि न तथोल्लेख इति भावः ।
अत्र पक्षे यद्यप्यनेकसंविधानसापेक्षतया कुसृष्टित्वं रूढपक्षस्यैव ऋजुत्वमित्यस्त्यरुचिबीजम् । तथापि मण्युक्तलक्षणानिरासायैतत्पक्षावतार इति ज्ञेयम् ।
तर्कताण्डवम्
ननु– गतिनिवृत्तौ कप्तशक्तिकस्य ष्ठाधातोः प्रोत्तरस्य गमने लक्षणैवास्तु । विरोधरूपस्य सम्बन्धस्य सत्त्वात् । कृतं प्रशब्दस्य शक्तिकल्पनया अनन्यलभ्यस्यैव शक्यत्वात् । तथा च प्रजयतीत्या-त्रापि जयमात्रे शक्तस्य जिधातोः प्रकृष्टजये लक्षणैवास्त्विति चेन्न । अनुभवति परिणमत इत्यादौ विरोधरूपस्यापि शक्यसम्बन्धस्या-भावात् । तत्र कथञ्चिच्छक्यसम्बन्धकल्पने प्रशब्दस्यैव कथञ्चिच्छक्य-समबन्धकल्पनेन गमने लक्षणास्तु ।
न्यायदीपः
अथवा प्रतिष्ठत इत्यत्रेत्यादिना मण्युक्तलक्षणापक्षं चानूद्य प्रत्याह ।। नन्विति ।। अनुभवतीति ।। सत्तार्थस्य भूधातोरुपसर्गयोगेनानुभवार्थत्वं प्रतीयते । तत्रानुभस्य सत्ताविरोधित्वाभावात् । परिणमत इत्यत्रापि प्रह्वीभावार्थकस्य नमेः परीत्युपसर्गयोगेन विकाररूपार्थकत्वं प्रतीयते । स च न प्रह्वीभावविरोधीति भावः ।। तत्र कथञ्चिदिति ।। अनुभवस्य वस्तु-सत्ताधीनत्वादिनेत्यर्थः ।। प्रशब्दस्यैवेति ।। यत्नादिप्रकर्षेण गते-र्जायमानत्वात्प्रकर्षरूपशक्यार्थेन गतेः कथं चिज्जन्यजनकत्वादि-रूपसम्बन्धसम्भवात् । आवापोद्वापाभ्यां प्रोपसर्गादेव गतिप्रतीतिदर्शनादिति भावः ।
न चैवं प्रशब्दस्यैव गत्यर्थत्वे धात्वपेक्षा न स्यादिति शङ्क्यम् । शब्दसाधुत्वार्थमेव तदपेक्षणेनार्थबोधने तदपेक्षाभावस्योक्तत्वात् । तादृशस्यापि प्रकृत्यर्थत्वथनेनाख्यातार्थान्वयस्यापि प्रागेवोक्तत्वादिति भावः ।
तर्कताण्डवम्
किञ्च प्रजयतीत्यादौ कप्तशक्तिकजिशब्दलक्षणयैव प्रशब्दार्थलाभेन तच्छक्त्यपलापे कप्तशक्तिकप्रत्ययलक्षणयैव धात्वादिप्रकृत्यर्थलाभे धात्वादिशक्त्यपलापः स्यात् ।
किञ्च प्रशब्दस्य प्रकर्षे शिक्तिरन्वयव्यतिरेकसिद्धा । प्रकृष्टजयस्तु पदान्तरसमभिव्याहारलभ्य इति न तत्र धातोर्लक्षणा ।
किञ्च सम्भूयैकार्थबोधकत्वरूपैकवाक्यत्वरक्षार्थं गङ्गाशब्दादौ लक्षणा कल्प्यते । प्रशब्दस्य निरर्थकत्वे च कथमेव वाक्यत्वम् । यद्रक्षणार्थं लक्षणा कल्प्यते । उपसन्दानतयैकार्थबोधकत्वे-नैवैकवाक्यत्वे च गङ्गाशब्दस्याप्युपसन्दानत्वेनैकवाक्यत्वं स्यात् ।
किञ्च प्रकृष्टजये धातोर्लक्षणा चेत्प्रशब्दापेक्षा न स्यात् ।
न्यायदीपः
प्रशब्दस्य शक्यार्थ एव नेति वदन्तं प्रत्याह ।। किञ्चेति ।। धात्वादि-शक्त्यपलाप इति ।। ननु विनिगमनाविरहरेण वैपरीत्यस्यापि सम्भवाद् द्वयो-रप्यन्वयव्यतिरेकाभ्यां कप्तशक्तिकत्वान्नान्यतरशक्त्यपलाप इति चेत्तर्ह्यप-सर्गस्यापि कप्तशक्तिकत्वान्नापलापः कार्य इति सममिति भावः ।
यदपि प्रकृष्टजये लक्षणैवास्त्विति तन्निराह ।। किञ्चेति ।। लक्षणबीजाभावाच्च प्रजयतीत्यादौ लक्षणा न युक्तेत्याह ।। किञ्च सम्भूयेति ।।
तर्कताण्डवम्
न च यथा बहुव्रीहिस्थगोशब्दस्य बहुव्रीहिर्लक्ष्येऽन्यपदार्थे तात्पर्य-ग्राहकस्तथा धातोः प्रशब्दो लक्ष्ये प्रकृष्टजये तात्पर्यग्राहक इति वाच्यम् । तथात्वे तद्वदेव नियतलक्षणात्वेन प्रपूर्वस्य जिधातोः प्रकृष्टभङ्गादौ लक्षणाभावप्रसङ्गात् ।
यदि तु– प्रशब्दः प्रकृष्टभङ्गादावपि तात्पर्यग्राहकस्तर्हि प्रशब्द-मात्रस्यानियतत्वात्तात्पर्यनियमार्थं प्रकरणादिकमावश्यकमिति प्रशब्द-वैयर्थ्यम् ।
किञ्च– प्रकृष्टजये लक्षणा चेज्जयत्वप्रकारिकाधीर्न स्यात् । लक्ष्यस्य शक्यतावच्छेदकरूपेणाप्रतीतेः ।
अत एवाजहत्स्वार्थायामपि लक्षणायां काकस्यापि न काकत्वेन धीः । किन्तु दध्युपघातकत्वेनैव ।
न्यायदीपः
मण्युक्तमुपसर्गप्रयोजनमाशङ्क्य निराह ।। न च यथेति ।। चित्रगु-रित्यादिस्थगोशब्दस्य यत्तात्पर्यमन्यपदार्थे तद्ग्राहको यथा बहुव्रीहिः तथा धातोस्तात्पर्यग्राहकः प्रशब्द इत्यर्थः । तद्वदेव बहुव्रीहेरिवैकार्थविशेष-लाक्षणिकत्वनियमेनेत्यर्थः ।
।। प्रशब्दमात्रस्येति ।। तस्य प्रकृष्टजयादावनेकार्थ१तात्पर्यग्राहकत्वेन तन्मात्रस्येह प्रकृष्टजयोऽर्थः । इह च प्रकृष्टभङ्गोर्थ इत्यर्थविशेषतात्पर्य-निर्णयाक्षमत्वात् तत्प्रकारणादिरूपतात्पर्यनिर्णायकान्तरसापेक्षत्वे तेनैव पूर्णत्वाद्व्यर्थः प्रशब्द इत्यर्थः ।। शक्यतावच्छेदकेति ।। प्रजयतीत्यादावपि विशेष्यवाचकस्य धातोर्विशिष्टे लक्षणैवेति मण्युक्त्या जयत्वस्य शक्यतावच्छेदकत्वादिति भावः ।
तर्कताण्डवम्
तस्मादुपसर्गाः स्वार्थे शक्ता एव । वैयाकरणानामुपसर्गे निरर्थ-कत्वप्रसिद्धिस्तु स्वातन्त्र्येणार्थानवबोधकत्वमात्रेण । एतदेवाभि-प्रेत्योक्तं भगवत्पादैः–
‘‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यते ।’’ इति;
‘‘उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।’’ इति च ।
।। उपसर्गाणां वाचकत्वसमर्थनम् ।। ५९ ।।
न्यायदीपः
नन्वेवमाद्यस्य द्वितीयपादे ‘‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’’ इत्यत्र ‘‘निपातस्य अनर्थकस्य प्रतिपदिकत्वं वक्तव्य’’मित्यादिमहाभाष्योक्तेः, कैयटे च पस्पशादिमग्रन्थे निपातानां द्योतकत्वं वाक्यपादीये निर्णीतमित्याद्युक्ते-स्तद्विरोध इत्यत आह ।। वैयाकरणानामिति ।। अन्यथा ‘‘अतिरति-क्रमणे च’’ ‘‘सुः पूजायाम्’’ इत्याद्युक्तिर्न स्यादिति भावः ।
।। समिति हीति ।। वाक्यमुपासनापादीयानुव्याख्याने समन्वय-सूत्रस्थसमित्यस्यार्थोक्तिपरम् । उपसक्रमणं चेति वाक्यं त्वानन्दमयनयानु-व्याख्याने ‘‘एतमन्नमयमात्मानमुपसङ्क्रम्य’’ इति श्रुतिस्थोपशब्द-व्याख्यानपरम् ।
।। उपसर्गाणां वाचकत्वसमर्थनम् ।। ५९ ।।
।। समाप्तः आख्यातवादः ।।