ननु यदुक्तमीश्वरस्य सार्वज्ञ्यादिकमप्रामाणिकमेव बहु कल्प्यमिति तन्न

ईश्वरवादः

तर्कताण्डवम्

ननु यदुक्तमीश्वरस्य सार्वज्ञ्यादिकमप्रामाणिकमेव बहु कल्प्यमिति तन्न । तस्य धर्मिग्राहकमानसिद्धत्वात् ।

तथाहि । अदृष्टाद्वारकस्वोपादानगोचरजन्यकृतिजन्यभिन्नानि समवेतानि जन्यानि, समवेतपदस्थाने भावपदं वाप्रयोज्यम् १. स्वजन्यादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नोपादानगोचरापरोक्ष-ज्ञानचिकीर्षाकृतिमज्जन्यानि २. स्वजनकादृष्टोत्तरोपादानगोचर-परोक्षान्यज्ञानचिकीर्षाकृतिमज्जन्यानि वा । ३. अपरोक्षज्ञानचिकीर्षा-प्रयत्नविषयीभवदुपादानानि वा । समवेतत्वे सति प्रागभावप्रतियोगि-त्वात् भावकार्यत्वाद्वा । घटवत् ।

न्यायदीपः

शास्त्रयोनित्वादिति ब्रह्मसूत्राभिमतमीश्वरस्यानानुमानिकत्वं साधयितुमाह ।। यदुक्तमिति ।। वेदापौरुषेयत्वानुमानोक्तिप्रस्ताव इत्यर्थः ।। तस्येति ।। सार्वज्ञ्यादेरीश्वररूपधर्मिग्राहकमानेन सिद्धेरित्यर्थः । तेन सार्वज्ञ्यमात्र-सिद्धावपि तेनैव विप्रलम्भाद्यभावसिद्धेरग्रे व्यक्तत्वादेवमुक्तिरिति ज्ञेयम् । तत्र कुसुमाञ्जलौ पञ्चमे परिच्छेदे

‘‘कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः ।

 वाक्यात्सङ्ख्याविशेषाच्च साध्यो विश्वकृदव्ययः’’ ।।

इतीश्वरे धर्मिण्यनेकमानान्युक्तानि । तत्र कार्यत्वरूपं मानमेकं मणौप्रपञ्चितम् । तत्तावदनुवदति ।। अदृष्टेति ।। अत्र जन्यानीत्यन्तं पक्षः । स्वजन्येत्यादीनि त्रीणि साध्यानीति विवेकः । पक्षे स्वपदं जन्येति निर्दिष्टवस्तुपरम् । अदृष्टाद्वारिका या स्वोपादानगोचरा साक्षादेव स्वोपादान-गोचरा या जन्या कृतिः तज्जन्यानि घटादीनि तद्भिन्नानि समवेतानि समवायवृत्त्या स्थितानि पृथिव्यादीनीत्यर्थः ।।

अत्र मणौ ‘‘अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यानी’’ इत्युक्तावपि यथाश्रुत उपादानपदस्य यत्किञ्चिदुपदानपरत्वे रूपाद्युपादानमृदङ्गगोचरा-स्मदादिकृतिजन्यानां शब्दादीनां पक्षतानापत्तेः, क्षित्याद्युपादानपरत्वे तद्गोचरजन्यकृत्यप्रसिध्या तदजन्यत्वाप्रसिद्धेस्तदीयव्याख्यासूक्तपरिष्कार-पूर्वकोऽयं स्वेत्यनुवादः । तथा जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्व-मिति मणावेवोत्तरत्रोक्तेर्जन्यकृतिजन्यभिन्नेत्यप्यनुवाद इत्यदोषः ।।

।। भावेति ।। समवेतानि जन्यानीत्यत्र भावकार्याणीति वाप्रयोज्य-मित्यर्थः । अदृष्टप्रागभावव्याप्यप्रागभावप्रतियोगीति साध्यांशस्य परिष्कारपूर्वकमनुवादः स्वजन्येत्यादि ।। स्वपदेनोपादानगोचरज्ञानादिक-मुच्यते । स्वजन्यं यददृष्टं तत्प्रागभावव्याप्यो यः प्रागभावः अदृष्टकारणीभूत-ज्ञानादिप्रागभावः तत्प्रतियोगि च यत्किञ्चिदुपादानभूतहविरादिगोचरज्ञानादि तद्भिन्नाः स्वजन्यादृष्टजनकभिन्ना इति फलितार्थः । या उपादानगोचरा-परोक्षज्ञानचिकीर्षाकृतयः तद्वता जन्यानीत्यर्थः । अत्रापरोक्षज्ञानपदं परोक्षान्यज्ञानार्थकं न त्वपरोक्षत्वजात्याक्रान्तज्ञानपरमित्यग्रे व्यक्तम् ।।

।। स्वजनकेति ।। स्वस्य कार्यस्य जनकं यददृष्टं तत उत्तराः पक्षधरोक्तदिशाऽदृष्टाधिकरणक्षणोत्तरक्षणवर्तिन्यः न तु तदुत्तरक्षणोत्पत्ति-मत्यः । तेन न बाधः शङ्क्यः । तादृश्य उपादानगोचरपरोक्षान्यज्ञानचिकीर्षा-कृतयस्तद्वता जन्यानीत्यर्थः । ईश्वरज्ञानादेर्नित्यतया क्षित्यादिकार्यजनका-दृष्टोत्तरत्वात् कुलालज्ञानादेरपि घटादिजनकादृष्टोत्तरत्वादिति न दृष्टान्ता-सिद्धिः । अपरोक्षेति बहुव्रीहिः । परोक्षान्यज्ञानचिकीर्षाप्रयत्नविषयोपादान-समवेतानीत्यर्थः । च्व्यर्थलडर्थौ तु न विवक्षितौ ज्ञेयौ ।। घटवदिति ।। स्वपदस्य समभिव्याहृतपरत्वात्तत्र साध्यहेतुसत्त्वं व्यक्तमिति भावः ।

Load More