ननु तथाऽपि ज्ञातकरणे सम्बन्धः ..

अथ मण्याद्यभिमतकुब्जशक्तिभङ्गः ।

तर्कताण्डवम्

ननु तथाऽपि ज्ञातकरणे सम्बन्धः संसर्गिप्रतियोगिकतयैव ज्ञातो हेतुः । न तु संसर्ग१प्रतियोगितयाऽपि, व्याप्तौ तथा दर्शनात् । न हि वह्निव्याप्तिर्वह्निप्रतियोगिकतयेव वह्निसंसर्गप्रतियोगिकतया विज्ञायते । एवं च शक्तिः संसर्गीभूतपदार्थप्रतियोगिकतयैव ज्ञाता हेतुः । न त्वन्वयप्रतियोगिकतयेति चेन्मैवम् ।

व्याप्तिग्राहकमानेन वह्निनैव सह व्याप्तिग्रहः, अन्वितविषयक-व्यवहाररूपेण शक्तिग्राहकमानेन त्वन्वयेनापि सह शक्तिग्रह इति वैषम्यात् ।। अन्यथा संसर्गेण सह व्याप्तिः स्वरूपेणैव नास्तीति अन्वयेपि शक्तिः स्वरूपेणैव न स्यात् । व्याप्तिर्व्यापकतावच्छेदक-प्रतियोगिकतयाऽपि न ज्ञायत इति शक्तिरपि शक्यतावच्छेदकजाति-प्रतियोगिकतयाऽपि न ज्ञातव्या, गौरवादित्यपि स्यात् ।।

न्यायदीपः

प्रकारान्तरेणान्वयांशे शक्तिज्ञानं न शब्दाधीहेतुरित्याक्षिप्य समाधत्ते ।। ननु तथापीति ।। व्यक्तिप्रतिबन्द्या दुष्परिहरत्वेपीत्यर्थः । तथा दर्शना-दित्युक्तं व्यनक्ति ।। नहीति ।। ततः किमित्यतः पक्षे योजयति ।। एवं चेति ।। ज्ञातकरणसम्बन्धस्य संसर्गिप्रतियोगिकतयैव ज्ञातस्य हेतुत्वे सतीत्यर्थः । हेतुः, शाब्दधीहेतुरित्यर्थः । शब्दशक्तेरपि ज्ञातकरणसम्बन्ध-त्वादिति भावः । एतदुक्तम्भवति । शब्दशक्तिः संसर्गिप्रतियोगिकतयैव ज्ञाता ज्ञानहेतुः । ज्ञातकरणसम्बन्धत्वात् । लिङ्गसम्बन्धरूपव्याप्तिवदिति । जातिव्यक्त्योरुभयोरपि संसर्गितयोभयांशे ज्ञाता शब्दशक्तिः जातिविशिष्टव्यक्ति-ज्ञानहेतुश्चेदपि न तत्र व्यभिचार इति भावः ।

ज्ञातकरणसम्बन्धत्वाविशेषेऽपि यथाप्रमाणं हेतुत्वं कल्प्यमिति भावेन समाधिमाह ।। व्याप्तीति ।। व्यवहाररूपेणेति ।। मानेनेत्यन्वयः । संसर्ग-प्रतियोगिकतया व्याप्तिग्राहकमानाभावादेव तेन रूपेणाज्ञाताया अपि तस्या अनमितिहेतुत्वेपीह शक्तौ संसर्गप्रतियोगिकतयाऽपि प्रागुक्तदिशा ग्राहकमान-भावेन तेन रूपेण ज्ञाताया एव शाब्दधीहेतुत्वोपपत्तेरित्यर्थः ।। एतेन संसर्गप्रतियोगिकतया ग्राहकमानवैधुर्यमुपाधिः प्रागुक्तानुमानस्योक्तो भवति ।। स्वरूपेणैव नास्तीति ।। तेन सह व्याप्तिग्राहकमानाभावादिति भावः ।

ननु तत्रापि यत्र धूमस्तत्र वह्निसंसर्ग इत्यस्त्येव व्याप्तिरिति वदन्तं प्रति व्याप्तिशरीरप्रविष्टसम्बन्धेन व्याप्त्यभावरूपदोषे सत्यपि जातिप्रति-बन्दीमप्याह ।। व्याप्तिरिति ।। अन्यथेत्यनुषङ्गः ।। इत्यपि स्यादिति ।। तथा च पदशक्तिवादसिद्धान्ते जातिव्यक्युभयप्रतियोगिकतया ज्ञातैव हेतुरिति त्वदुपपादनविरोध इति भावः ।

Load More