न च प्रोक्षणजन्यजलसंयोग एव व्रीहिनिष्ठोऽतिशयः
किञ्चैवं व्रीहीणामपि प्राप्यकर्मत्वे संस्कार्यकर्मत्वाभावेन..
किञ्चैवं परमतेऽपि प्रोक्षणजन्यमात्मनिष्ठमपूर्वं कल्प्यं स्यात्
न च ग्रामं गच्छामि, घटं जानामि, अतीतं जानामीत्यादौ व्यभिचारः
न च संस्काराणां प्रतिव्रीहि नानात्वे गौरवम्
किञ्च त्वन्मते जीवन्मुक्तावनुष्ठितप्रोक्षणादिनाऽदृष्टाजननात् कथं तस्य भाव्युपयोगः
किञ्च प्रोक्षणादेरपूर्वजनकत्वे दर्शादिवत्प्रधनकर्मत्वं वा..
एवमाधेयशक्तिरपि स्वीकार्या
आधेयशक्तिः
तर्कताण्डवम्
एवमाधेयशक्तिरपि स्वीकार्या । अन्यथा व्रीहीन् प्रोक्षतीत्यादौ प्रोक्षणजन्यस्य व्रीहिनिष्ठस्यातीन्द्रियस्येप्सितस्य अतिशयस्याभावेन व्रीहीनितीप्सितकर्मणि द्वितीया न स्यात् ।
न्यायदीपः
।। एवमाधेयेति ।। सहजशक्तिवत्कारणविशेषोत्पाद्याप्युपेयेत्यर्थः । यद्यपि सहजशक्तेरभावे विष्णावेव वेदस्य शक्तितात्पर्यरूपसमन्वयायोग-वदाधेयशक्त्यभावे काचिदपि हानिर्नास्ति,पदानि पदान्तरसन्निधानाहित-शक्त्यन्तराणि विशेषतोऽप्यन्वितान् स्वार्थनभिदधतीति पद्धतिवाक्यस्य अन्विताभिधानवादेऽग्रे गतेर्वक्ष्यमाणत्वेन विशेषान्वयतोऽप्याधेयशक्ते-रनपेक्षितत्वात् । तथाऽपि करणानां प्रमाजननस्वभावानामपि दोषेणाहित-शक्तिकानामप्रमाजनकत्वस्वीकारात्तथा प्रामाण्यग्रहणस्वभावस्यापि साक्षिणो विसंवादादिरूपपरीक्षाहितशक्तिकस्याप्रामाण्यग्राहकत्वस्वीकारात्संस्काराहित-शक्तिकस्य चक्षुरादेः प्रत्यभिज्ञाजनकत्वस्वीकारात् तदुपयोगितया तत्साधन-मित्यवधेयम् ।।
।। व्रीहीनिति ।। यदा हि ‘‘चतुरो मुष्टीर्निर्वपति’’ इति पुरोडाशार्थतया निरुप्तानां व्रीहीणां प्रोक्षणं विधीयते ‘‘व्रीहीन् प्रोक्षति’’ इति । आदिपदेन ‘‘अपः प्रणयति’’ इत्यादिग्रहः ।। ईप्सितस्येति ।। आप्तुमिष्टस्येत्यर्थः । आपव्याप्तावित्यस्य सन्प्रत्यये ‘‘आप्ज्ञप्यृधामीत्’’ इतीकारादेशे सति निष्ठायामीप्सितमिति रूपसम्पत्तेः ।।
।। ईप्सितकर्मणीति ।। कर्मकारकं तावद् द्विविधम् । ईप्सितमनीप्सितं च । ‘‘कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितम्’’ इति पाणिन्युक्तेः । तत्राद्यं ग्रामं गच्छति व्रीहीन् प्रोक्षतीत्यादि । द्वितीयं तु विषं भुङ्क्त इत्यादि । अतस्तद्व्यावृत्त्यर्थमीप्सतकर्मणीत्युक्तम् ।। द्वितीयेति ।। ‘‘कर्मणि द्वितीया’’ इति सूत्रोक्ता द्वितीयाविभक्तिरित्यर्थः ।।