अप्रमायां त्वनन्यथासिद्धान्वयव्यतिरेकित्वाद् दोषः कारणम्
अप्रामाण्यस्य परतस्त्वम्
तर्कताण्डवम्
अप्रमायां त्वनन्यथासिद्धान्वयव्यतिरेकित्वाद् दोषः कारणम् । क्वचित् सादृश्यादिके दोषे सत्यपि भ्रमानुत्पत्तिरसंसर्गाग्रहादिहेत्वन्तर-वैकल्यादिति नान्वयव्यभिचारः । विसंवादिशुकादिवाक्येपि दोषस्योक्तत्वान्न व्यतिरेकव्यभिचारोऽपि ।
न चप्रमायां गुणःप्रतिबन्धकस्य दोषस्येवाप्रमायामपि दोषःप्रतिबन्धकस्य गुणस्य दोषाभावस्य वा निरासक इत्यन्यथासिद्ध इत्यप्रामाण्यमपि स्वतः स्यादिति वाच्यम् । पीतः शङ्ख इत्यादिप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षे शङ्खत्वादि-विशेषदर्शनादिरूपे गन्धप्राग-भावावच्छिन्नो घट इत्याद्यनुमाने सत्यपरमार्शरूपे घटोस्तीति वक्तव्ये पटोस्तीति वाक्यजन्यज्ञाने विवक्षितार्थतत्वज्ञानरूपे च गुणे सत्यपि पित्तबाधप्रमादरूपेण दोषेण भ्रमोत्पादनेन दोषस्य गुणनिरासो-पक्षीणत्वायोगात् । स्वाभावनिरासोपक्षीणत्वेन अन्यथासिद्धौ च सहकारिमात्रापलापप्रसङ्गात् ।
न्यायदीपः
ननुप्रमायां गुणस्येव भ्रमेप्यन्वयव्यतिरेकव्यभिचाराद् भ्रमविरोधिगुण-निरासादावुपक्षयेन अन्यथासिद्धेश्च दोषो न हेतुरिति सोपि स्वतः स्यादित्यतः ‘‘परतोऽप्रामाण्यम्’’ इति तत्त्वनिर्णयाद्युक्तमप्रामाण्यस्य परतस्त्वं साधयितु-मुक्तदोषं निरस्यन् भ्रमे दोषस्य हेतुत्वमाह ।। अप्रमायान्त्विति ।। हेतो-र्विशेष्यासिद्धिम् निराह ।। क्कचिदिति ।। ‘‘कारणे सत्यपि कार्यानुत्पादस्य सामग्र्यभावेनोपपत्तेः’’ इति तत्त्वनिर्णयटीकां हृदि कृत्वाह ।। असंसर्गा-ग्रहादीति ।। विशेषादर्शनादिरादिपदार्थः ।
एतेन यादृच्छिकसंवादिन्यपि दोषस्य व्यभिचारो निरस्तः । तत्र विषया-सत्वादिसहकारिविरहात् ।। उक्तत्वादिति ।। भूयोऽवयवेन्द्रियसन्निकर्षादि-हेतुत्वभङ्गे ‘‘तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्त्वज्ञानाभावस्य’’ चेत्यादिनोक्तत्वादित्यर्थः । अनन्यथासिद्धेत्यादिहेतोर्विशेषणा-सिद्धिमाशङ्क्य निराह ।। न चेति ।।प्रतिबन्धकस्येति ।।प्रमाप्रतिबन्धकस्य दोषस्य यथा निरासकस्तथाऽप्रमाप्रतिबन्धकस्य गुणस्येत्यर्थः ।
दोषस्यान्यथासिद्धिं वदता हि गुणस्यप्रतिबन्धकत्वमुपेत्य तदभावस्य भ्रमे कारणत्वं वाप्रमायां दोषाभावस्येवप्रयोजकत्वं वा वाच्यम् । आद्ये भ्रमस्य न स्वतस्त्वापत्तिः । द्वितीये किं गुणाभाव एवप्रयोजकोऽथो-त्तेजकाभावविशिष्टगुणःप्रतिबन्धकः तदभावश्चप्रयोजक इति वा नाद्यः । व्यभिचारादिति भावेनाह ।। पीतः शङ्ख इत्यादिना ।। विशेषदर्शनादिरूप इति ।। पीतत्वाद्यसंसर्गग्रह आदिपदार्थः । सप्तम्यन्तरूपपदानां गुण-पदेनान्वयः ।
ननु क्वचित् कश्चिद्गुण इत्यननुगतगुणपक्षे पीतःशङ्ख इत्यादौ विपरीतप्रत्यक्षादिरेव कश्चिदन्यो गुणः । स तत्र नेति वदन्तंप्रत्याह ।। गन्धेति ।। यद्वा१ विशेषप्रमा गुण इति मते व्यभिचारोक्तिरियमित्युपेत्यप्रत्यक्षादिभ्रमत्रयेपि गुणाभावव्यभिचारोक्तिरियमिति बोध्यम् ।
।। पित्तेति ।।प्रत्यक्षे पित्तं अनुमाने बाधः शाब्देप्रमादो दोष इति विवेकः । दोषाभावस्य वा निरासक इत्येतन्निराह ।। स्वाभावेति ।। सहकारीति ।। दण्डचक्रादेरपि स्वाभावनिरासोपक्षयेण मृत्पिण्ड एक एव हेतुर्न त्वन्यः कश्चिदपीति स्यादित्यतिप्रसङ्ग इत्यर्थः ।