एवं साध्याप्रसिद्धिरपि न दोषः

अथाप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः ।। २७ ।।

तर्कताण्डवम्

एवं साध्याप्रसिद्धिरपि न दोषः । तथा हि– तस्या दोषत्वं किमतिप्रसङ्गात्, साध्यकोटेरप्रसिद्ध्या सन्देहाभावेन तद्घटितपक्षधर्मता-विघटनाद्वा व्याप्तिविघटनाद्वा प्रतिज्ञावाक्यस्याविदितपदार्थकत्वेना-बोधकत्वप्रसङ्गाद्वा, कारणस्य विशेषणज्ञानस्याभावे कार्यस्य विशिष्ट-ज्ञानस्यायोगाद्वा ।।

नाद्यः । असाधुत्वेन संमतस्य विमतं सदसद्विलक्षणं बाध्यत्वा-दित्यादेः क्लृप्तेन व्याघातादिना दोषान्तरेणैव इयं भूः शशशृृङ्गवती एतद्भूत्वादित्यादेर्योग्यशृङ्गसाधकत्वे योग्यानुपलब्धिबाधादिना दोषान्तरेणैवायोग्यसाधकत्वेऽतीन्द्रियैः शृृङ्गादिभिः सिद्धसाधनादिना च दोषान्तरेणैव दुष्टत्वात् दोषान्तररहितत्वेन संमतस्य तु जीव-च्छरीरजातं सात्मकं प्राणादिमत्त्वादित्यादेः साधुत्वादतिप्रसङ्गाभावात् ।।

प्रत्युत अप्रसिद्धस्यासिद्धावेवातिप्रसङ्गः । पर्वताग्निसम्बन्धस्य कार्यत्वाद्यनुमाने ईश्वरसार्वज्ञ्यादेश्चाप्रसिद्धस्यैव सिद्धेः । वह्नेरपि महानसाद्यसम्बद्धस्य वस्तुगत्या अपूर्वस्यैव वह्नित्वेन भौमवह्नित्वेन च प्रकारेण सिद्धेश्च ।।

ननु– पक्षधर्मताबललभ्यादन्यस्याप्रसिद्धस्य सिद्धिर्न, साध्यस्य पक्षसम्बन्धादिकं तु पक्षधर्मताबललभ्यम् सार्वज्ञ्यमपि तथा । द्व्यणुकादिभूगोलकपर्यन्तस्यानाद्यनन्तकालीनस्य कार्यस्य पक्षत्वादिति चेन्न । कार्यत्वाद्यनुमानेषु तदलभ्यस्यापि कर्त्रैकत्वादेः सिद्धेः ।।

अथ व्याप्तिबललभ्यस्य साध्यतावच्छेदकावच्छिन्नस्याप्रसिद्धस्या-सिद्धिर्न, कर्त्रैक्यं तु न व्याप्तिबललभ्यं लाघवतर्कानुग्रहलभ्यत्वादिति चेन्न । अत्रापि प्राणादिमत्त्वस्य सात्मकत्वप्रयोज्यतया व्याघात-तर्कानुग्रहादेवाप्रसिद्धस्य सिद्ध्युपपत्तेः । १त्वयाप्ययं वह्नित्वेनानुभवः वह्नित्वाभाववति वह्नित्वप्रकारको नेत्याद्यभावसाध्यके केवल-व्यतिरेकिणि साध्यतावच्छेदकावच्छिन्नसाध्यस्याप्रसिद्धस्य सिद्धि-स्वीकाराच्च । न च तत्राभावरूपं यत्साध्यं तदभावरूपस्य भावस्यैव व्याप्तिग्रहः । तत्र चाभावरूपसाध्यात्मकप्रतियोगिज्ञानं नापेक्षितमिति व्याप्तिग्रहसम्भवात् साध्याप्रसिद्धिरदोष इति वाच्यम् । भूः शशशृङ्गवतीत्यादावपि शशशृङ्गराहित्याभावः साध्यः । सात्मक-मित्यत्रापि निरात्मकत्वाभाव एव साध्य इति सुवचत्वाच्च ।।

किञ्च तत्तन्मतप्राप्तकोटिप्रसिद्धिमूलायां जगत्परमाणूपादानकं वा, प्रधानोपादनकं वेति विप्रतिपत्तौ सत्यां तदनुसारेण विमतं परमाणू-पादानकं तदन्योपादानकत्वे बाधकोपपन्नत्वे सति सोपादानकत्वादिति सामान्यव्याप्तिमाश्रित्य तार्किकप्रयुक्तेऽनुमाने कथं साध्यप्रसिद्धिः । न चात्रापि विप्रतिपत्त्यननुसारिणी अर्थान्तराप्राप्तकालत्वान्यतरा-पादिका त्र्यणुकोपादानत्वेन द्व्यणुकं प्रसाध्य तदुपादानत्वेन परमाणुः साध्यत इति क्लिष्टकल्पनैवाश्रयणीयेत्यत्र हेतुरस्ति ।।

किंच भाट्टैर्यत्र गुणगुण्यादौ समानाधिकृतत्वान्यथानुपपत्ति-रूपार्थापत्त्या भेदाभेदौ साध्येते तत्रार्थापत्तेरनुमान१त्वादिना तार्किके-णानुमानेनैव तद्धीर्वाच्येति कथमनुमानेनाप्रसिद्धस्यासिद्धिः ।।

अपि च यथाऽऽत्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघाताद्या-पादकेषु तर्केष्वप्रसिद्धस्यैवात्माश्रयादेरापादनं तथाप्रसिद्धस्य साधनमपि किं न स्यात् । न ह्यात्माश्रयादिकं क्वचित्प्रमितम् । न चाप्रसिद्ध-मापाद्यं न तु साध्यमित्यत्र हेतुरस्ति ।।

किञ्च मन्मते तर्कोऽप्यनुमानं, त्वन्मते त्वननुमानरूपोऽपि तर्को व्याप्तिसापेक्ष इति कथमनुमानं प्रसिद्धिसापेक्षं तर्कस्तु तन्निरपेक्ष इति व्यवस्था ।।

अपि चाप्रसिद्धस्यापि सिद्धौ शशशृृङ्गादिकमपि सिध्येदिति त्वयाऽऽ- पाद्यमानस्याप्यतिप्रसङ्गस्याप्रसिद्धत्वात्कथमापादनमिति दिक् ।।

नापि पक्षधर्मताविघटनादिति द्वितीयः । पक्षधर्मता सन्देहान-पेक्षेत्युक्तत्वात् ।।

न तृतीयः । उक्तेषु परमाणूपादानकत्वादिसाधकेष्वनुमानेष्वर्था-पत्तिस्थले आत्माश्रयाद्यापादकतर्करूपानुमानेषु च साध्याप्रसिद्धावपि व्याप्तेः सत्त्वात् । केवलव्यतिरेकिमात्रे साध्याप्रसिद्धावपि ममान्वय-व्याप्तेस्तव व्यतिरेकव्याप्तेः सत्त्वाच्च । शिष्टं व्यतिरेकिभङ्गे उक्तम् ।।

ननु व्यतिरेकिण्यप्रसिद्धेन साध्येन साधनस्य कथमन्वयव्याप्तिरिति चेन्न । व्यतिरेकव्याप्तिरपि कथम् । प्रतियोग्यज्ञाने व्यतिरेका-निरूपणात् । किञ्च मन्मते साध्यं विना साधनस्यानुपपत्तिरेव व्याप्तिः । तत्र च विनाशब्दोक्तसाध्याभावज्ञानाय प्रतियोगिभूत-साध्यधीरेवापेक्षिता । न तु पूर्वं तत्प्रमितिः । अस्तु वा सामानाधि-करण्यनियमो व्याप्तिः । तथापि न तावदप्रसिद्धेन साध्येन साधनस्यानन्वय एवेति युक्तम् । व्यतिरेकिणो विरुद्धहेत्वाभासत्वा-पातात् । साध्यप्रसिद्धेर्व्याप्तिज्ञप्तिहेतुत्वेन व्याप्तिं प्रत्यहेतुत्वाच्च । नापि सत्यामन्वयव्याप्तौ तद्ग्रहो न शक्य इति वाच्यम् । पक्षादिप्रविभागा-त्प्राक् स्वशरीरादावेव प्रत्यक्षेणोपदेशादिना वाऽवगतसात्मकत्वस्य पुंसो भूयोदर्शनादिना धूमाग्न्योरिव प्राणादिमत्त्वसात्मकत्वयोरप्यन्वय-व्याप्तिग्रहस्य स्वार्थानुमितौ सम्भवात् । न च जीवच्छरीरमात्रस्य पक्षीकरणादन्वयदृष्टान्ताभावः । अभेदसाधकानुमान इवानुमित्यादिना पक्षस्यापि स्वशरीरस्य निश्चितसाध्यकतया दृष्टान्तत्वस्यापि सम्भवात् ।।

नापि सिद्धसाधनम् । स्वार्थानुमाने तस्यादोषत्वात् । उद्देश्यायाः शरीरत्वावच्छेदेन साध्यप्रतीतेः प्रागसिद्धेश्च । न च पक्षस्य पक्षैकदेशस्य वा दृष्टान्तत्वे सपक्षत्वेन व्यतिरेकित्वभङ्गप्रसङ्गो व्यतिरेकवादिनस्तवेव तदभाववादिनो ममाप्यनिष्टः ।।

ननु स्वेन गृहीताऽपि व्याप्तिः शरीरमात्रे विप्रतिपन्नं प्रति कथं दर्शनीयेति चेन्न । तं प्रति व्याप्तिग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्ध-त्वेन प्रदर्शयितुमशक्यत्वेऽपि जीवच्छरीरजातं सात्मकं प्राणादिमत्वात् यत्कार्यवत्तत्कारणवत् यथाऽङ्कुरवती भूमिर्बीजगर्भेति सामान्यव्याप्ति-प्रदर्शनस्य वा, प्राणादिमत्त्वं सात्मकत्वेन व्याप्तं तदभावव्यापकाभाव-प्रतियोगित्वात्, यद्यदभावव्यापकाभावप्रतितयोगि तत्तेन व्याप्तं यथा धूमो वह्निनेति व्यतिरेकव्याप्त्या विशिष्यान्वयव्याप्तिसाधनस्य वा, अनुपपत्तिरूपान्वयव्याप्तेर्विशिष्यप्रदर्शनस्य वा सम्भवात् । यथा च व्यभिचारस्थलानुक्तावप्युपाधिना व्यभिचारः, यथा वा दृष्टान्तानु-क्तावपि धूमो वह्निव्याप्य इति आप्तवाक्येन व्याप्तिः, तथाऽन्वय-दृष्टान्तानुक्तावप्यनेनानुमानेनान्वयव्याप्तिः सिध्यत्येव ।।

एतेन साध्यरूपप्रतियोग्यज्ञानात्तदभाव१रूपज्ञानं न युक्तमिति साध्याभावस्य साधनाभावेन व्याप्तिज्ञानं न सम्भवतीति निरस्तम् । उक्तरीत्या प्रत्यक्षेणोपदेशादिना वा साध्यसाधनरूपासाधारणधर्मावेक-त्रोपलब्धवतः ततोऽन्यत्र सर्वत्रापि तदभावं च पश्यतो वादिनः प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनस्तदभावग्रहसम्भवेन व्यतिरेकव्याप्तिग्रहस्य सुलभत्वात् । न च प्रमाणेनैव प्रतियोगी ज्ञातव्य इति नियमोऽस्ति । शशशृृङ्गाद्यभावासिद्ध्या शशशृृङ्गादेरसत्त्वा-सिद्धिप्रसङ्गात् । न ह्यसतो निषेधः स्वविरुद्धसत्त्वापेक्षः ।।

किं चैवं सति तत्तद्वादिनां पराभिमतसप्तमपदार्थप्रधानपरमाण्वादि-निषेधो न स्यात् । न च तत्रापि प्रधानादिकं नेति न निषेधः । किं तु जगदुपादानं परमाण्वादिकं नेत्येवं, तथा च खण्डशः प्रमिति-रस्तीति वाच्यम् । पररीत्या प्रसक्तस्य स्वरूपेणैव निषेधसम्भवे स्वाभिमतस्य निषेधप्रतियोगिप्रामाणिकत्वस्य निर्वाहायानानुभाविक-क्लिष्टकल्पनेऽन्योन्याश्रयात् ।।

किञ्च जगदुपादानशब्देन परमाणोरेवोक्तौ सिद्धसाधनम् । प्रधानोक्तावाश्रयासिद्धिः । प्रामाणिकाप्रामाणिकानुगतं सामान्यं तु नास्त्येव ।।

एतेन सात्मकत्वरूपसाध्यघटितान्वयव्याप्तिरूपसाध्याप्रमिता-वन्वयव्याप्त्या सह व्यतिरेकव्याप्तेरन्वयव्याप्त्यग्रहात्कथं व्यतिरेक-व्याप्त्याऽन्वयव्याप्त्यनुमितिः । तत्रापि व्यतिरेकव्याप्त्याश्रयणे चानव-स्थेति निरस्तम् । यद्यदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तं यथा धूमोऽग्निनेति सामान्यव्याप्तेः । अनुपपत्तिरूपाया विशिष्यान्वयव्याप्तेश्च दर्शितत्वात् । एवं शब्दः अष्टद्रव्यातिरिक्तद्रव्याश्रितः, अष्टद्र-व्याश्रितत्वे बाधकोपपन्नत्वे सति गुणत्वात् । गगनमितरेभ्यो भिद्यते शब्दाश्रयत्वादित्यादिकेवलव्यतिरेकिष्वपि यो यदाश्रयत्वे बाधको-पपन्नत्वे सति गुणः स तदन्याश्रितः, यद्य१दसाधारणधर्मवत् तत्ततो भिद्यत इति सामान्यव्याप्तिर्वा । कणादोपदेशादिना शब्दे गगने च साध्यसाधने उपलब्धवतः ‘‘तदन्यत्र सर्वत्र तदभावं च पश्यत’’ इत्यादि पूर्वोक्तरीत्या व्यतिरेकव्याप्त्याविशिष्याऽन्वयव्याप्तिर्वा अनुपपत्तिरूपा विशिष्यान्वयव्याप्तिर्वा उपपाद्या ।।

न च तत्रापि शब्दः क्वचिदाश्रितो गुणत्वादित्यनुमानेन साध्यं सामान्यतः प्रसिद्धमिति वाच्यम् । उक्तरीत्या साध्याप्रमितावपि त्रेधा व्याप्तिग्रहसम्भवेन सामान्यतो दृष्टानपेक्षणात् ।।

किंच सामान्यतो दृष्टस्यावश्यकत्वे तदेव तर्कं विनाकृतमनिर्धारि-ताश्रयविशेषमाश्रितत्वसामान्यं गृह्णदपि इतरबाधकतर्कानुगृहीतं पुनरनुसन्धीयमानमष्टातिरिक्ताश्रितत्वरूपविशेषमेव ग्रहीष्यति । एकस्यैव सहकारिवैचित्र्येण विचित्रकार्यजनकत्वदर्शनात् । सामान्य-स्यैकविशेषबाधे विशेषान्तरे पर्यवसाननियमाच्चेति किं व्यतिरेकिणा । न चाष्टद्रव्यातिरिक्तद्रव्याश्रितत्वप्रकारिका प्रतीतिर्व्यतिरेकिसाध्या सा च न सामान्यतो दृष्टेन सिध्यति । ततः प्रागनुपस्थितेरिति शङ्क्यम् । ईश्वरानुमाने कर्त्रैकत्ववदनुव्यवसाये रजतत्वप्रकारकत्ववदभावज्ञानेऽनु-योगित्वप्रतियोगित्वादिवच्च प्रागनुपस्थितस्यापि प्रकारत्वोपपत्तेः ।।

ननु तथापि कथंचित्साध्यप्रसिद्धिरावश्यकीति त्वयापि स्वीकृत-त्वात्कथं तदावश्यकत्वनिरास इति चेन्न । मम हि पराभिप्रेतायाः पक्षादन्यत्र साध्यतावेच्छदकावच्छिन्नत्वेन प्रकारेण प्रतिवादिनं प्रति साध्य१प्रसिद्धेरावश्यकतैव निरस्या । न तु प्रतीतिमात्रस्य । उक्तं हि टीकायाम् । प्रत्यक्षेणोपदेशादिना वाऽसाधारणधर्मावेकत्रोपलब्धवत इत्यादि । टीकाकारीया परेण व्यतिरेकिणि सामान्येनान्वयव्याप्त्या-दिके शङ्किते तं प्रति क्लिष्टकल्पनत्वोक्तिस्तु व्यतिरेकवादिनस्तवान्वय-व्याप्त्युक्तिर्व्यतिरेकित्वहान्यापादकत्वात्क्लिष्टेत्यभिप्रायेणैव । न तु स्वमतेऽपि क्लिष्टेत्यभिप्रायेण । सिद्धान्तेऽपि सामान्यव्याप्त्यादेः सत्त्वादेव । तस्मात्साध्याप्रसिद्धिर्व्याप्तिविघटिकेति तृतीयो न युक्तः ।।

तदुक्तं भगवत्पादैः– असत्यपि व्याप्तिरस्त्येवेति । साध्यस्य प्रसिद्धत्वेऽसत्यपि साध्यं विनाऽनुपपत्तिरूपा वा, नियतसामानाधि-करण्यं व्याप्तिरिति पक्षेऽपि सामान्यतोऽन्वयव्याप्तिर्वा व्यतिरेक-व्याप्त्यनुमिता विशिष्यान्वयव्याप्तिर्वा उक्तरीत्याऽस्त्येवेत्यर्थः ।।

नापि चतुर्थः । उक्तरीत्या स्वेन ज्ञातस्य सात्मकमित्यादि-शब्दार्थस्य वादिनापि प्रतिवादिनं प्रति समवायान्त्यविशेषादि-शब्दार्थस्येव व्युत्पादनेऽविदितपदार्थकत्वाभावात् । तदर्थाज्ञाने तत्र विवादायोगाच्च । न पञ्चमः । विशेषणज्ञानं विशिष्टज्ञानहेतुर्नेति निर्विकल्पकभङ्गे उक्तत्वात् । हेतुत्वेऽप्यप्रामाण्याभावसाध्यकानुमान इवादौ साध्यविशेष्यकैव धीः पश्चात्साध्यविशेषणिकेति सुवचत्वाच्च ।।

तस्मात्साध्याप्रसिद्धिर्न दोष इति ।।

न्यायदीपः

अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।

असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ।।

इति भक्तिपादीयानुव्याख्यानसुधोक्तदिशा विकल्पयति– किमति-प्रसङ्गादिति । विमतं सदसद्विलक्षणं बाध्यत्वात्, भूः शशशृङ्गवती भूत्वादित्यादेरपि प्रमाणत्वापत्तिरूपातिप्रसङ्गादित्यर्थः । तद्घटितेति । सन्दिग्धसाध्यधर्मकधर्मिरूपपक्षनिष्ठत्वरूपत्वात् पक्षधर्मताया इति भावः । व्याप्तीति । साध्याप्रसिद्धौ तन्निरूपितव्याप्तिग्रहासम्भवेन व्याप्तिविघटना-दित्यर्थः । अविदितेति । भूः शशविषाणोल्लिखितेति प्रतिज्ञावाक्ये शशविषाणपदार्थो न ज्ञातः अप्रसिद्धत्वात् । तथा च तस्य तत्र शक्तिग्रहा-सम्भवेन तत्पदार्थस्मृतेरयोगात् प्रतिज्ञावाक्यस्य तदन्वयाबोधकत्वप्रसङ्गा-दित्यर्थः । सुधानुक्तं कोट्यन्तरं तार्किकरीतिमनुसृत्य स्वयं पक्षान्तरं विकल्पयति– कारणस्येति । विशिष्टज्ञानस्येति । अनुमितिरूप-स्येत्यर्थः । सुधोक्तदिशा निराह– असाधुत्वेनेत्यादिना । व्याघातादि-नेति । सन्नेत्युक्ते असत्त्वमुक्तं स्यात् । सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनरसन्नेत्युक्ते स्ववचनव्याघातः । एवमसन्नेत्युक्त्या ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्त्वं लब्धम् । पुनः सन्नेत्युक्ते स्ववचनव्याघात एव । आदिपदेन प्रमाणबाधव्याप्त्यभावादिग्रहः ।।

ननु व्याघातादेरेव अदोषत्वमुपेत्य तत्र साध्याप्रसिद्धिर्दोष इत्येवोप-येतामित्यत उक्तम्– क्लृप्तेनेति । माता वन्ध्येत्यादौ दोषत्वेन क्लृप्तेनेत्यर्थः । शृङ्गवतीत्यत्र शृङ्गशब्देन महत्त्वसमानाधिकरणोद्भूतरूपवान् शिरस्संयुक्तोऽ-वयवविशेषोऽभिप्रेयतेऽथ कश्चिदतीन्द्रियः । आद्य आह– योग्येति । व्याप्त्य- भावादिरादिपदार्थः । द्वितीय आह– अयोग्येति । शृृङ्गेति नाममात्रम् । न ह्यतीन्द्रियं नाम शृङ्गमस्ति । अत एवादिपदप्रयोगः–

अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।

इत्यनुव्याख्यानसुधोक्तं हृदि कृत्वाऽऽह– प्रत्युतेति । अतिप्रसङ्ग इति । पर्वताग्निसम्बन्धस्येश्वरसार्वज्ञ्यादेश्चासिद्ध्यापातादित्यर्थः । इष्टापत्तिरित्यत आह– पर्वतेति । सम्बन्धस्याप्रसिद्धस्य सिद्धावपि न वह्नेः साध्यभूतस्या-प्रसिद्धस्य सिद्धिरिति वदन्तं प्रत्याह– वह्नेरपीति । अप्रसिद्धसाध्यकत्वमात्रं न दोषो येनोक्तातिप्रसङ्गः स्यादिति शङ्कते– नन्विति । क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र सार्वज्ञ्यं कथं पक्षधर्मताबल लभ्यमित्यतो व्यनक्ति– द्व्यणुकादीति । तादृशपक्षधर्मत्वं कार्यत्वहेतोः कर्तुः सार्वज्ञ्यं विना न युक्तमितीति भावः । तदलभ्यस्य पक्षधर्मताबल१लभ्यस्येत्यर्थः । आदिपदेन ज्ञाननित्यत्वादिग्रहः । एकत्वादावतिप्रसङ्गाभावमाशङ्क्य निराह– अथेति । लाघवेति । अनेककर्तृकल्पनापेक्षयैककर्तृकल्पनमात्रेण कार्यत्वहेतोरुपपत्ति-रूपलाघवतर्केत्यर्थः । व्याघातेति । प्राणादिमत्त्वमुपेत्य सात्मकत्वानङ्गीकारे प्रयोज्योपगमेन प्रयोजकानङ्गीकारात्कार्योद्देशेन कारणे प्रवृत्तिरूपस्वक्रिया-विरोधरूपव्याघाततर्केत्यर्थः । तथा च तस्य दोषत्वमुपेत्य सामान्य-प्रसिद्ध्यर्थं न क्लेशोऽनुभोक्तव्य इत्यर्थः । अथेत्यादिना वदतः शङ्काऽस्य१ व्याहतेत्याह– त्वयापीति । इत्याद्यभावसाध्यक इति । अप्रामाण्या-भावादिसाध्यकेत्यर्थः । वैषम्यमाशङ्क्य प्रतिबन्द्योत्तरमाह– न च तत्रेत्यादिना ।।२

साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते’ ।

इत्यनुव्याख्यानसुधोक्तिं हृदि कृत्वाऽऽह– किञ्चेति । ननु तत्र परेण साध्याप्रसिद्धावुद्भावितायां नैयायिकेन द्व्यणुकस्याप्रत्यक्षत्वेऽपि त्र्यणुकं सोपादानकं कार्यद्रव्यत्वादिति द्व्यणुकं प्रसाध्य द्व्यणुकं सोपादानकं भावकार्यत्वाद्घटवदित्यनुमानेन परमाणुप्रसिद्धिं सम्पाद्य साध्याप्रसिद्धिः परिहरणीयेत्यत आह– न चात्रापीति । ३केवलं कार्यत्वादिप्रयोगे सात्मकत्वादिप्रयोगे वा इत्यपेरर्थः । प्रयोगोत्तरकालं साधने प्रकृतानुप-युक्तान्वितोक्तिरूपार्थान्तरापादिका, प्रयोगात्पूर्वं विप्रतिपत्त्यनन्तरमेव साधने क्रमविपर्यासरूपाप्राप्तकालत्वापादिका इति कल्पनेत्यन्वयः । उभयत्र हेतुर्विप्रतिपत्त्यननुसारिणीति । परमाणूपादानकं प्रधानोपादानकं वेति विप्रति-पत्तौ परमाणूपादानकत्वरूपेण साध्यप्रसिद्धिसंपादनस्यैवानुगुणत्वादिति भावः ।

क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ।

इत्यनुव्याख्यानोक्तेरिति भावः ।।

परिशेषो मिथः सिद्धिश्चक्रकः स्वाश्रयादयः ।

असिद्धसाधकत्वेन पञ्चावयतां विना ।। अङ्गीकार्या’

इत्यनुव्याख्यानसुधोक्तं हृदि कृत्वा परिशेष इत्युपलक्षणं मत्वाऽऽह– किञ्चेति । समानाधिकृतत्वेनेति । अत्यन्तभिन्ने घटपटादौ घटः पट इति न सामानाधिकरण्यप्रयोगोऽस्ति । अत्यन्ताभिन्ने च घटः करीर इति प्रयोगोऽस्ति । गुणगुण्यादौ तु नीलो घटः शुक्लः पट इत्यस्ति सामानाधि-करण्यप्रयोगः, स च तयोर्भेदाभेदौ विना नोपपद्यत इति तदन्यथानुपपत्ति-रूपार्थापत्त्येत्यर्थः । तद्धीः भेदाभेदधीरित्यर्थः । अर्थापत्त्यैव तद्धीजन्माङ्गी-कारेऽर्थापत्तेः पृथङ्मानत्वापत्तेः । भाट्टानां भेदाभेदधीरनुमितिरूपैव । अथाप्यत्रार्थापत्तिफलत्वाभिमानमात्रमिति नैयायिकेन वाच्यमित्यर्थः । कथमापादनमिति दिगिति ।। नन्वप्रसिद्धमप्यापादयितुं शक्यते न तु साधयितुमिति चेन्न । हेत्वभावेन निराकृतत्वात् । व्याप्तिसापेक्षत्वस्यापादने साधने चोभयत्र तुल्यत्वात् । ननु शब्दाभासादिना शशशृङ्गादिज्ञाने सति शशशृङ्गादिसिद्धिरापादयितुं शक्यते एव । यदपि विमतं परमाणूपादानक-मित्यादौ साध्यप्रसिद्धिः कथमिति । तन्न । काणादादिवादिवाक्येन परस्य तज्ज्ञानसम्भवात् । तावन्मात्रेण तत्प्रसिद्ध्युपपत्तौ प्रमाणेनैव प्रसिद्ध्या भाव्यमिति निर्बन्धायोगात् । नैयायिकस्यापि काणादाद्युपदेशेन वा स्वार्थानु-मानेन वा परमाण्वाद्यवगतिसम्भवेन साध्यप्रसिद्धेरिति चेत्तर्हि सात्मकत्वादि-स्थलेऽप्येवं वक्तुं शक्यत्वादप्रसिद्धत्वं न दोषायेत्येवमुपेयमित्याद्यूह्यमिति भावः । उक्तत्वादिति । पक्षलक्षणोक्तिप्रस्ताव इत्यर्थः । व्याप्तिविघटनाद्वा दोषत्वमिति पक्षं निराह– न तृतीय इति । किं व्याप्तिस्वरूपविघटकत्व-मभिप्रेतं उत तद्ग्रहविघटकत्वम् । आद्ये– ‘‘व्याप्तिश्च व्यतिरेकेण तत्रतैश्चाव-गम्यते’’ ।। इत्यनुव्याख्यानसुधोक्तं हृदि निधायाह– उक्तेष्वित्यादि । तर्कस्यानुमानतायाः साधितत्वात्तर्करूपानुमानेष्वित्युक्तम् । व्यतिरेकमात्र इति । मात्रशब्दः कार्त्स्न्यपरः । सर्वकेवलव्यतिरेकिषु भूरितरेभ्यो भिद्यते भूत्वात्, जीवच्छरीरं सात्मकमित्येवमादिष्वित्यर्थः ।।

ननु भूरितरभिन्नेत्यादौ त्रयोदशान्योन्याभावानां विशकलिततया प्रसिद्धत्वेनैकबुद्ध्युपारूढानां तेषां व्यतिरेकव्याप्तिनिरूपणं सुशकम् । घटादावेव वा साध्यप्रसिद्धिः । न च तथात्वेऽन्वयित्वं, तस्य पक्षैक-देशत्वात् । न चैवमनुमानं व्यर्थम् । उद्देश्यसिद्ध्यर्थत्वादिति चेत्तर्हि तत्र हेतुसत्त्वासत्त्वाभ्यामन्वयित्वासाधारण्ययोरापात इत्याद्यभिप्रायेणाह– शिष्टमिति । ननु ममान्वयव्याप्तेरित्ययुक्तम् । साध्याप्रसिद्धौ तत्सामानाधि-करण्यस्य हेतौ क्वाप्यग्रहेण सामानाधिकरण्यघटितान्वयव्याप्तेरसम्भवादिति शङ्कते– नन्विति । प्रतिबन्दीमाह– व्यतिरेकेति । ननु परपक्षेऽनुप-पत्त्युक्तिमात्रेण कथं स्वपक्षेऽनुपपत्तिपरिहारः । न हि पराङ्गं दग्धमिति स्वाङ्गदाहः शाम्यतीत्यतः न केवलं प्रतिबन्दी उपपत्तिश्चास्मत्पक्षेऽ-स्तीत्याह– किञ्चेति ।।

नन्वथापि न्यायमतसिद्धसामानाधिकरण्यनियमरूपव्याप्तिरशक्यैवेत्यतः तत्राप्युपपत्तिमाह– अस्तु वेति । अनन्वय एवेति । असामानाधि-करण्यमेवेत्यर्थः । तथात्वे नित्यः शब्दः कृतकत्वादितिवत् विरुद्धहेत्वाभासः स्यादित्यर्थः । नन्वस्तु सामानाधिकरण्यं तन्नियमरूपव्याप्तिस्तु साध्या-प्रसिद्धिस्थले कथमित्यत आह– साध्येति । तथा च साध्याप्रसिद्धिस्थले तन्निरूपितव्याप्तिज्ञप्तेरभावेऽपि नियतसामानाधिकरण्यरूपव्याप्तेर प्रतिबन्धा-द्व्याप्तिविघटनात्साध्याप्रसिद्धिर्दोष इति न युक्तमिति भावः । द्वितीयं निराह– नापीति । सुधोक्तमाह– पक्षादीति । व्यतिरेकवादे मण्युक्तं सर्वमत्राह– अभेदेति ।।

ननु प्राग्व्यतिरेकिभङ्गे पक्षैकदेशस्य दृष्टान्तत्वे व्यतिरेकित्वभङ्गो भवद्भिरेवापादितः स दोषस्तर्हि स्यादित्याशङ्क्य निराह– न चेति । स्वार्थानुमानदोषत्वासम्भवेऽपि परार्थप्रयोगे दोष इति शङ्कते– नन्विति । सुधोक्तदिशा समाधिमाह– तं प्रतीत्यादिना । अनुपपत्तिरूपेति । प्राणादिमत्त्वस्य सात्मकत्वप्रयोज्यतया प्राणादिमत्त्वं सात्मकत्वेन विनाऽनुपपन्नमित्येवंरूपेणानुपपत्तिरूपान्वयव्याप्तेर्विशिष्य प्रदर्शनसम्भवा-दित्यर्थः । ननु प्रमाणेन प्रतियोगिनोऽनवगतौ क्वचित्सत्त्वाभावात्कथं तन्निषेध इत्यत आह– न ह्यसत इति । सत्त्वे सति निषेधस्यैवायोगादिति भावः । सप्तमेति । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडेव भावपदार्थाः । न सप्तमोऽस्तीति सप्तमपदार्थस्य साङ्ख्यभिमतप्रधानस्य च निषेधो नैयायिकस्य न स्यात् । तथा साङ्ख्यादेः परमाण्वादिनिषेधो न स्यादित्यर्थः । खण्डश इति । जगति परमाण्वतिरिक्तोपादानकत्वस्याखण्डस्याप्रसिद्धावपि जगदुपादानपदार्थस्य परमाण्वतिरिक्तपदार्थस्य च प्रमितिरस्तीत्यर्थः । पररीत्याप्रसक्तस्येति । तदीयवाक्याभासप्रसक्तस्येत्यर्थः । अन्योन्या-श्रयादिति । त्वदुक्तरीत्त्यैव निषेधे सिद्धे निषेध्यस्य प्रामाणिकत्वसिद्धिः । सिद्धे च तस्मिन्नुक्तरीत्या निषेधसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।।

त्वदुक्तरीत्या निषेधो न युक्त एव । जगदुपादानमिति परमाणुत्वे-नोपादानमभिप्रेतमुत साङ्ख्याभिमतप्रधानत्वेनाथोभयानुगतोपादानत्वरूप-सामान्यधर्मेणोपादानमात्रमिति विकल्पान् क्रमेण निराह– किञ्चेत्यादिना । प्रामाणिकेति । परमाणुर्हि त्वन्मते प्रामाणिकः । प्रधानमप्रामाणिकं, न हि शशविषाणगोविषाणयोर्विषाणत्वसामान्यमिव प्रामाणिकाप्रामाणिक-परमाणुप्रधानरूपोभयगतमुपादानत्वसामान्यमस्ति । आश्रयाभावे धर्मायोगात् । न हि प्रतियोगित्वासत्त्वादिवदुपादानत्वं धर्मिसत्तानिरपेक्षम् । येन प्रतियोगि-त्वादिप्रतिबन्दी स्यादिति भावः ।।

ननु व्यतिरेकव्याप्त्याऽन्वयव्याप्त्यनुमानं प्रागुक्तमयुक्तम् । साध्यस्याप्रसिद्धौ तन्निरूपितान्वयव्याप्तेरप्यप्रसिद्ध्या तया सह लिङ्गभूतव्यतिरेकव्याप्तेर्व्याप्ति ग्रहासम्भवादित्याशङ्कामनूद्य निराह– एतेनेति । ननु व्यतिरेकव्याप्ति-रूपलिङ्गेनान्वयव्याप्तिरूपसाध्यस्यानुमानस्थेऽपि लिङ्गलिङ्गिभूतयोर्व्यतिरेक-व्याप्त्यन्वयव्याप्त्योरन्वय व्याप्तिस्तयोर्व्यतिरेकव्याप्त्यानुमिता सती सात्मकत्व-प्राणादिमत्त्वनिष्ठान्वयव्याप्त्यनुमित्यनुकूलाऽस्त्वित्यत आह– तत्रापीति । व्यतिरेक्यन्तरेष्वपीति सुधोक्तं हृदि कृत्वा प्रागुक्तरीत्याऽन्वयव्याप्तिं त्रेधोपपादयति– एवमित्यादिना ।।

यत्तु मण्यादितार्किकग्रन्थे व्यतिरेक्यनुग्रहार्थं सामान्यप्रसिद्धिसंपादकं सामान्यतो दृष्टानुमानं नियतमिति तत्कथनं तदाशङ्क्य निराह– न च तत्रापीति । तदपेक्षायां बाधकं चाह– किञ्चेति । इतरेति । इतराश्रितत्वे यद्बाधकं तादृशतर्कानुगृहीतमित्यर्थः । एकस्यैवेति । कार्यत्वाद्यनुमानं लाघवतर्कानुगृहीतं सत् कर्त्रैक्यमपि गृह्णाति न चेत्कर्तृमात्रं गृह्णाति । संस्कारादिसहकृतं चक्षुरादि तत्तामपि गृह्णाति न चेदिदंतामेवेत्येवं दर्शना-दित्यर्थः । व्याप्तिबलाच्च सामान्यस्यैव विशेषेपर्यवसानं न्याय्यमित्याह– सामान्यस्येति । उद्देश्यसिद्ध्यर्थत्वेन व्यतिरेकिसार्थक्यमाशङ्क्य निराह– १न चेदित्यादिना । कथञ्चिदिति । प्रमाप्रमासाधारण्येनेत्यर्थः । स्वीकृत-त्वादिति । प्रतिवादिनोऽपि वादिवाक्यावगतेत्यादिपूर्वग्रन्थेन तथा प्रतीतेरिति भावः । उक्तं हीति । भक्तिपादे– ‘‘यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा’’ इत्येतद्व्याख्यावसरे सुधायामित्यर्थः । पूर्वं यत् त्रेधा व्याप्त्युप-पादनं व्यतिरेकिणि कृतं तत्र भक्तिपादीयसुधावाक्यविरोधमाशङ्क्य तदभि-प्रायोक्त्या निराह– टीकाकारीयेत्यादिना । तदुक्तमिति । साध्या-प्रसिद्धावपि व्याप्तिरस्तीत्येतत्प्रमाणलक्षणे उक्तमित्यर्थः । प्रागर्थान्तर-स्योक्तत्वात्प्रकृतोपयोगितयाऽत्रार्थमाह– साध्यस्येति । प्रतिज्ञावाक्यस्या-विदितपदार्थकत्वेनाबोधकत्वप्रसङ्गात्साध्यासिद्धेर्दोषत्वमिति पक्षं निरोह– नापि चतुर्थ इति । उक्तरीत्येति । स्वशरीरादौ प्रत्यक्षेणोपदेशादिना वाऽवगतसात्मकत्वस्य पुंस इत्यादिनोक्तरीत्येत्यर्थः । अस्ति नास्तीति विवादरूपकार्येणैव तज्ज्ञानं वादिप्रतिवादिनोः सिद्धमिति कथमविदित-पदार्थकत्वं प्रतिज्ञावाक्यस्येति भावेनाह– तदर्थाज्ञान इति । कारणस्य विशेषणज्ञानस्याभावे कार्यस्य विशिष्टज्ञानस्यायोगाद्वा साध्यासिद्धेर्दोषत्वमिति पक्षं निराह– न पञ्चम इति । अप्रामाण्येत्यादि । व्यक्तमेतत्प्रामाण्यवादे परमते प्रामाण्यानुमित्यसम्भवोक्तिप्रस्तावे ।।

नन्वेवम‘निर्वचनीयासिद्धेरप्रसिद्धविशेषणः पक्षः’ इति प्रकरणादौ तत्र तत्राप्रसिद्धविशेषणत्वस्य दोषत्वेनोद्भावनं विरुध्यत इति चेन्न । तस्य परमतानुसारित्वस्य तत्र टीकायामेव व्यक्तत्वादिति भावः ।।

।। इति अप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः ।। २७ ।।