किं चापूर्वे लिङादेः शक्तिग्रहो न तावत्कार्यत्वेन वा..
४२. अथ लिङादेरपूर्वे व्युत्पत्तिभङ्गः ।
तर्कताण्डवम्
किं चापूर्वे लिङादेः शक्तिग्रहो न तावत्कार्यत्वेन वा, क्रियाति-रिक्तकार्यत्वेन वा, स्थायिकार्यत्वेन वा । तेषामपूर्वादन्यत्र घटादावपि सत्त्वेन शक्यतानवच्छेदकत्वात् । अन्यथा प्रमेयत्वेनापि तद्ग्रहः स्यात् । न चातिप्रसक्तत्वेऽपि प्रवर्तकज्ञानस्य यः प्रकारः स एव लिङादेः प्रकार इति वाच्यम् । घटादिव्यावृत्तस्य पूर्वापरीभूतधात्वर्थ-मात्रानुगतस्य कृतिसाध्यत्वस्यैव प्रवर्तकज्ञानप्रकारत्वात् । नाप्य-पूर्वत्वेन तस्य प्रागनुपस्थितेः ।
एतेन स्थायित्वफलजनकत्वकृतिसाध्यत्वेष्वगृहीतसंसर्गेषु त्रिषु धर्मेषु शक्तिग्रहः । तत्तु धर्मत्रयं परस्परमन्वयायोग्यं सदन्विताभि-धानदशायां स्वान्वययोग्यं धर्मिसामान्यमुपस्थापयतीति निरस्तम् । त्वदभिमतस्यापूर्वरूपस्य धर्मिणो वाच्यत्वासिद्धेः । धर्मिसामान्यस्य स्वविषयीभूतयागान्वयात् प्रागेवोपस्थितौ तद्द्वारा क्रियाया एव कार्यतान्विततया अभिधानापाताच्च ।
न्यायदीपः
अपूर्वे व्युत्पत्त्यसम्भवान्न तल्लिङादिवाच्यमित्याह ।। किञ्चेति ।। वक्ष्यमाणापेक्षया न तावदिति निर्देशः ।। कार्यत्वेनेति ।। कृतिसाध्यत्वे-नेत्यर्थः ।। नाप्यपूर्वत्वेनेति ।।
।। पूर्वापरीभूतेति ।। अतीतानागतेत्यर्थः । तन्मात्रानुगतत्वादेव घटादिव्यावृत्तस्येत्युक्तम् ।। प्रागिति ।। लिङादिव्युत्पत्तेः पूर्वमित्यर्थः । लिङादिनैवोपस्थितावन्योन्याश्रयान्मानान्तरेणोपस्थितौ चापूर्वत्वभङ्गादिति भावः ।
यत्तु– मणावपूर्ववादपूर्वपक्षे अस्तु वोपस्थितेष्वगृहीतसंसर्गेषु स्थायित्वस्वर्गजनकत्वकार्यत्वेषु शक्तिरित्यादिनोक्तं तन्निराह ।। एतेनेति ।। अगृहीतसंसर्गेष्विति ।। एकस्मिन् धर्मिण्यगृहीतसामानाधिकरण्येष्वेत-द्विशेषणं स्वरूपसत् । न तु शक्तिग्रहप्रकार इति ज्ञेयम् ।
।। शक्तिग्रह इति ।। लिङादेरित्यनुकर्षः ।। धर्मत्रयमिति ।। धर्मत्रय-वाची ।। परस्परान्वयायोग्यं सत् ।। अन्वयायोग्याभिधायी सन्नित्यर्थः ।
।। अन्वितेति ।। लिङादिना धर्मत्रयान्वितकिञ्चिद्वस्त्वभिधानदशायां स्वान्वययोग्यं धर्मत्रयान्वययोग्यमुपस्थापयति । परस्परानन्वितधर्मत्रय-वाचको लिङादिरित्यर्थः । वाच्यत्वाभावस्फोरणार्थं प्राधान्येनानुवादः ।। वाच्यत्वस्यासिद्धेरिति ।। योग्यताबललभ्यत्वाद्धर्मिणः धर्मत्रयस्यैव वाच्यत्वादिति भावः ।
।। तद्द्वारेति ।। धर्मिसामान्योपस्थितिद्वारेत्यर्थः । कामी हि काम्या-दन्यत् काम्याव्यवहितं कार्यतयावैतीति । यागस्तु व्यवहित इति न प्रथमं कार्यतया प्रतिपत्तुमलमिति । अपूर्वोपस्थितौ तु तद्धेतुतया यागं कार्यत्वेन पश्चात्प्रतिपद्यत इति च त्वयोक्तत्वाल्लिङ्वाच्यधर्मत्रयेणैव स्वयोग्यधर्मि-सामान्योपस्थितौ तत्साधनत्वस्य यागेवगन्तुं शक्यत्वेन १कार्यत्वाधारत्वेन लिङादिनाभिधानं स्यादित्यर्थः ।
तर्कताण्डवम्
एतेनैव– वस्तुतः क्रियाभिन्ने घटादिसाधारणे कार्ये कृतिसाध्यत्व-रूपकार्यत्वेन शक्तिग्रहः । योग्यताबलात् स्थायित्वलाभः । एवं च क्रिया शक्तिग्रहदशायामेव त्यक्ता । घटादिद्रव्यगुणकर्माणि त्व-योग्यत्वादन्विताभिधानदशायामेव त्यक्तानीत्यपूर्वे पर्यवसानमिति निरस्तम् । क्रियावद्घटादेरपि स्वर्गासाधनत्वेनायोग्यत्वसाम्ये क्रमेण त्यागायोगेन द्वयोरपि पूर्वमेव त्यागे शक्तिग्रहस्थाभावेन व्युत्पत्त्यनु-पपत्तेः । द्वयोरपि पश्चात्त्यागे च क्रियाया अपि शक्यत्वान्नित्यस्थे निषेधस्थे च क्रियात्यागे हेत्वभावेन क्रियाया एव लिङर्थत्व-सम्भवान्नित्याद्यपूर्वासिद्धेः ।
न्यायदीपः
‘‘घटादावेव कार्ये शक्तो लिङिति शक्तिग्रहः ततः तत्कार्यमिति स्मरणं ततो योग्यतादिवशात् प्रचुरद्रव्यगुणकर्माणि कार्याणि विहाय यागविषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते । योग्यत्वाच्च स्थायित्वलाभ’’ इत्यादिना मणावनूदितव्युत्पत्तिप्रकारं च निराह ।। एतेनैवेति ।। क्रियाभिन्नत्वस्यापि शक्यकोटौ प्रवेशे क्रियाया एव शक्यत्वं लघ्वित्यतस्तस्य शक्यकोटाव-प्रवेशद्योतनायोक्तं वस्तुतः क्रियाभिन्न इति ।
।। कार्य इति ।। कृतिसाध्य इत्यर्थः ।। योग्यताबलादिति ।। स्वर्गकामान्वययोग्यताबलादिति वा स्वर्गसाधनत्वान्वययोग्यताबलादिति वेत्यर्थः ।
।। क्रियेति ।। त्यक्तेत्यन्वयः ।। अन्विताभिधानेति ।। शब्दा-नामन्वित एवार्थे अभिधास्वीकारेण लिङादिःकार्यत्वेन घटादिकं ज्ञापयन्नपि यागविषयकं कार्यमिति यागान्वितकार्याभिधानवेायां घटादिद्रव्यगुणकर्मणा-मयोग्यत्वेन बाधादपूर्व एव पर्यवस्यति । यथा वह्नित्वेन गृहीतसम्बन्धोपि धूमादिः पर्वतादिनिष्ठः पर्वतीयवह्नावेव पर्यवस्यति । यथा वा न्यायमते कार्यत्वं कर्तृमात्रे सम्बन्धग्रहात् कर्तृविशेषे पर्यवस्यति । पक्षधर्मताबला-त्तद्वदिति भावः ।
स्यादेवं यदि त्वदुक्तरीत्या पौर्वापर्येण त्यागः न चैवं किं तु युगपदेव पूर्वम्पश्चाद्वेति न पक्षद्वयमपि युक्तमित्याह ।। क्रियावदिति ।। क्रमेणेति ।। शक्तिग्रहकाले क्रियाया यागविषयकं कार्यमित्यन्विताभिधानकाले घटादेरिति क्रमेण त्यागायोगेनेत्यर्थः ।। द्वयोरपीति ।। क्रियाया इव घटादेरपि पूर्वं शक्तिग्रहकाल एवेत्यर्थः । पश्चादन्विताभिधानकाले ।। त्यागे चेति ।। कार्यत्वेनानवगमे चेत्यर्थः ।
।। शक्यत्वादिति ।। शक्तिग्रहकाले क्रियात्यागाभावेन घटादिसाधारणेन कार्यत्वेन क्रियायामपि शक्तिग्रहादिति भावः ।। नित्यस्थ इति ।। अहरहः सन्ध्यामुपासीतेत्यादावित्यर्थः । न कलञ्जं भक्षयेदित्यादिनिषेधस्थ इत्यर्थः । तत्र कामाश्रवणेन काम्यव्यवहितत्वरूपस्य कार्यत्वानवगमरूप-क्रियात्यागहेतोरभावेनेत्यर्थः ।
तर्कताण्डवम्
किं च क्रियायाम् १यदा भिन्नपदोपात्तस्वर्गकामान्वयानुपपत्तिधीः ततः प्रागेव प्रत्ययोपात्तस्य घटादेः प्रकृत्युपात्तयागविषयकत्वान्वयानु-पपत्तिधीरिति घटादेरेव पूर्वं त्यागो युक्तः ।
ननु तर्हि– तर्कितेऽपूर्वे व्युत्पत्तिरस्तु । तर्कश्च मन्मते स्मृतिरेव । सापेक्षज्ञानत्वस्यैव तल्लक्षणत्वात् । तर्कस्य च भाविप्रमाणसापेक्ष-त्वादिति चेन्न । ज्ञानस्यार्थप्रकाशात्मकत्वेन प्रकाशेऽन्यानपेक्षत्वात् । उत्पत्तौ च भाव्यपेक्षाया असम्भवात् ।
किं च तर्कस्यापि यदि स्थायी व्यापारो न स्यात्तर्हि क्रियाया व्यवहितफलसाधनत्वं न स्यादित्येवंरूपतया फलसाधनत्व-प्रतीत्यनन्तरभावित्वेनान्योन्याश्रयः ।
न्यायदीपः
एतेनैकत्र निर्णीतः शास्त्रार्थोन्यत्रापि तथैवेति न्यायादत्राप्यपूर्वमेव लिङर्थ इति निरस्तम् । अपूर्वत्वेन शक्तेरग्रहणे कार्यत्वविशिष्ट एव धर्मिणि शक्ति-ग्रहात् । क्रियाया अपि कार्यत्वविशिष्टत्वेन तस्या एव कार्यत्वेन लिङर्थत्व-सम्भवादिति । यत्तु क्रियायाः पूर्वं त्यागः पश्चाद्धटादेरिति तद्विपरीतमित्याह ।। किञ्चेति ।। प्रत्ययोपात्तस्येति ।। शक्तिग्रहकाले कार्यत्वेन रूपेण लिङ्प््रात्ययगृहीतस्येत्यर्थः ।
प्रकारान्तरेणापूर्वोपस्थितिमाशङ्क्य निराह ।। नन्वित्यादिना ।। तर्कित इति ।। यदि स्थायी व्यापारो न स्यादिति वक्ष्यमाणतर्केणोपस्थित इत्यर्थः ।। मन्मत इति ।। प्राभाकरमत इत्यर्थः । संस्काराजन्यत्वात्कथं स्मृतिरित्यत आह ।। सापेक्षेति ।। भावीति ।। तर्को हि प्रमाण-सहकारी । तच्च प्रमाणमनुमानमर्थापत्त्यादिर्वा । प्रकृते च १प्रसिद्धार्थ-स्वर्गकामान्वयानुपपत्तिरूपभाविप्रमाणसापेक्षस्तर्क इत्यर्थः । अर्थविषय-करणेऽन्यसापेक्षत्वमुत स्वोत्पत्तावाद्य आह ।। ज्ञानस्येति ।।
अन्त्य आह ।। उत्पत्तौ चेति ।। अन्योन्याश्रय इति ।। फल-साधनत्वप्रतीत्यनन्तरं तदुपजीवनेन तर्कप्रवृत्तिः । तर्केण चापूर्वोपस्थितौ तद्द्वारा फलसाधनत्वप्रतीतिरित्यन्योन्याश्रय इत्यर्थः ।
तर्कताण्डवम्
अपि चान्वयप्रयोजकरूपस्य स्थायिव्यापारस्य तर्केण २प्रागेव वोपस्थितौ तद्द्वारा क्रियायामेव कार्यत्वान्वयसम्भवादपूर्वस्य वाच्यत्वं न सिध्येत् ।
किञ्च न केवलमपूर्वे व्युत्पत्तिविरहः । किन्तु लोकसिद्धप्राथमिक-क्रियाकार्यव्युत्पत्तिविरोधोऽपि ।
न्यायदीपः
तर्केणापूर्वोपस्थितिः त्वन्मतप्रतिकूलेत्याह ।। अपि चेति ।। क्रियायां फलसाधनत्वान्वये कार्यत्वान्वये वा प्रयोजकरूपस्येत्यर्थः । काम्यव्यवहित-क्रियायां कार्यत्वाद्यन्वयस्य स्थायिव्यापारनिमित्तत्वात्तस्य च सम्भवेन लिङ्-वाच्यत्वमपूर्वस्य न सिध्येत् । क्रियायाः कार्यत्वान्वयार्थतयैव स्थायि-व्यापारोपस्थित्यर्थमपूर्वस्य लिङ्वाच्यकल्पनादिति भावः ।
एवमपूर्वे लिङो व्युत्पत्तिराहित्यमुक्त्वा प्रत्ययानां प्रकृत्यर्थान्वित-स्वार्थव्युत्पत्तिविरोधरूपदोषान्तरं चाह ।। किञ्चेति ।। लोकसिद्धेति ।। लोके पचेतेत्यादौ कार्ये धर्मिणि न शक्तिग्रहः किं त्वनन्यलभ्ये कार्यत्व एव । धर्मिणः पाकादेर्धातुनैवोपस्थितिसम्भवात् । क्रियाकार्यत्वस्य चान्विताभिधानलभ्यत्वादिति त्वया स्वीकृतत्वेन पचेतेत्यादौ पाकरूपक्रिया कार्येत्येवंरूपायाः क्रियायाः १कार्यव्युत्पत्तिर्लोकसिद्धा । प्राथमिकी च । तद्विरोधोपीत्यर्थः । तस्मादयोग्यतया क्रियानिरासानन्तरं तदतिरिक्त एव शक्तिकल्पनमित्यादिना मणौ पूर्वपक्षोक्तं व्युत्पत्तिविरोधाभावमाशङ्क्य निराह ।। नन्विति ।।
तर्कताण्डवम्
ननु– लोकव्युत्पन्नकार्यत्वमत्यक्त्वैव तदनुकूलो धर्मी स्वीकृत इति न तद्विरोध इति चेन्न । तत्र स्वीकृतस्य कार्यत्वस्य इहात्यागेपि २तत्रास्वीकृस्य धर्म्यंशस्ये३ह स्वीकृतत्वेन तद्विरोधतादवस्थ्यात् ।
किं च तत्र स्वीकृतस्य कार्यत्वं लिङ्शक्यम् कार्यत्वत्वं तु शक्यतावच्छेदकमित्यस्येह कार्यं शक्यं कार्यत्वं शक्यतावच्छेदकमिति वदता त्यक्तत्वेन स्वीकृतत्यागोऽप्यस्त्येव ।
न्यायदीपः
।। तदनुकूल इति ।। कार्यत्वान्वयानुकूलोपूर्वाख्यो धर्मी वेदे स्वीकृत इत्यर्थः । धात्वर्थो यागादिस्तु कामी हि काम्यादन्यदित्याद्युक्तदिशा कार्यत्वा-ननुकूल इति भावः ।। स्वीकृतस्येति ।। लिङर्थत्वेनेति योज्यम् ।
।। धर्म्यंशस्येति ।। अपूर्वाख्यस्येत्यर्थः । ननु लोकेऽस्वीकृतस्येह स्वीकारेऽपि तत्र स्वीकृतस्येह त्यागोनास्त्येवेत्यतः सोप्यस्तीत्याह ।। किं च तत्रेति ।। लोक इत्यर्थः ।। इहेति ।। वेद इत्यर्थः ।। शक्यमिति ।। लिङ इत्यनुषङ्गः ।
तर्कताण्डवम्
न च वैदिकव्युत्पत्तिविरोधात्क्रियाकार्य एव लिङ् लाक्षणिको-स्त्विति वाच्यम् । मद्रीत्या लोके वेदे च मुख्यत्वसम्भवे तदयोगात् । लोकवेदाधिकरणन्यायेन व्युत्पत्तौ लोकस्यैवोपजीव्यत्वेन वैपरीत्य-स्यैवोचितत्वाच्च । न ह्यत्र स्वर्गशब्दस्य प्रीतिविशेषे यन्न दुःखेन सम्भिन्नमित्यादिवाक्यशेषेणेव लिङोपूर्वे केनचिद्वाक्येन शक्तिर्बोधिता ।
न्यायदीपः
ननु यथा स्वर्गपदस्य–
‘‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्’’
इति वाक्यशेषादलौकिकसुखे गृहीतव्युत्पत्त्यनुरोधेन चन्दनखण्डादौ लोके स्वर्गपदस्यामुख्यता; यथा वा यवादिशब्दस्यार्यप्रसिद्ध्या दीर्घशूकादौ गृहीतशक्त्यनुरोधेन च प्रियङ्ग्वादावमुख्यत्वं एवं वेदे लिङादेरपूर्वे गृहीतव्युत्पत्त्यनुरोधेन लोके लिङ् अमुख्योस्तु । तथा च न लोकव्युत्पत्ति-विरोध इत्याशङ्क्याह ।। न चेति ।। क्रियाकार्य एव क्रियारूपकार्य एवेत्यर्थः ।। मद्रीत्येति ।। इष्टसाधनत्वमेव लिङर्थ इति मद्रीत्येत्यर्थः ।
।। लोकवेदेति ।। आद्यस्य तृतीये पादे ‘‘प्रयोगचोदनाभावा-दर्थैकत्वमविभागात्’’ इति दशमेधिकरणे चिन्तितः लोके प्रयुज्यमान-गोब्राह्मणादिशब्देभ्यस्तदर्थेभ्यश्च वेदे प्रयुज्यमानगवादिशब्दास्तदर्थाश्चान्ये उताभिन्ना इति सन्देहे स्वरच्छान्दसवर्णागमलोपविकारविपर्ययाध्यय-नाध्यापनादिधर्मभेदात्क्रमभेदा१त्स्वरुयूपाद्यपूर्वशब्दसाहचर्याच्च शब्दानामन्यत्वं तत एवार्थानामपीति प्राप्ते प्रत्यभिज्ञाबलेन वर्णानां तदात्मकपदानामुभयत्रा-भेदावगमाद्वैदिकशब्दानामन्यत्वे लौकिकव्यवहार२विषयत्वेन वृद्धव्यवहाराधीन-व्युत्पत्त्यसम्भवेन तेषामर्थाप्रत्यायकत्वापाताच्चानन्यत्वमेव लोकवेदशब्दानां तदर्थानां चेति सिद्धान्तयति । तत्रोक्तेन लौकिकवैदिकशब्दानामभेदोपपादकेन लौकिकव्युत्पत्त्यनुसरणन्यायेनेत्यर्थः ।। वैपरीत्यस्येति ।। लोके व्युत्पत्ति-विरोधेन वेद एव लक्षणास्वीकारस्येत्यर्थः ।
ननु– स्वर्गादिशब्दव्युत्पत्तेरिव वैदिकव्युत्पत्तेर्बलत्त्वमित्यत आह ।। न हीति ।। अत्र वेदे । ३प्रतीतसुखविशेष इत्यर्थः ।
तर्कताण्डवम्
नापि यववराहादिशब्दानां दीर्घशूकादाविव लिङः स्थायिकार्य एवार्यप्रयोगप्राचुर्यमस्ति । येन शक्तिः सिध्येत् । श्रौतस्य कामिनि-योज्यान्वयस्यानुपपत्तिस्तु न शक्तिग्राहिका । किं त्वपूर्वे तात्पर्य-ग्राहिका । तात्पर्यं च लक्षणयापि युक्तम् । अन्यथा गङ्गाशब्दस्य तारे, आदित्यो यूपो यजमानः प्रस्तर इत्यादावादित्ययजमानादि-शब्दानां यूपप्रस्तरादौ च, शक्तिः स्यात् ।
एतदप्युक्तं लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति । न त्वपूर्वम् । तत्र लिङादेः शक्तिग्रहायोगादित्यर्थः ।
।। लिङादेरपूर्वे व्युत्पत्तिभङ्गः ।। ४२ ।।
न्यायदीपः
।। नापि यववराहेति ।। तत्रैव ‘‘तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्याद्’’ इति पञ्चमेधिकरणे ‘‘यवमयश्चरुर्भवति, वाराही उपानहावुपमुञ्चते’’ इत्यादौ श्रुतयववराहादिशब्दाः किं म्लेच्छप्रसिद्ध्यनुसारेण प्रियङ्ग्वाद्यर्था उतार्यप्रसिद्ध्यनुरोधेन दीर्घशूकार्थका इति सन्देहे शब्दार्थ-निर्णयस्य लोकप्रमाणकत्वाद्विरोधाभावाच्च उभयार्था इति प्राप्ते आर्यप्रसिद्धेर-विप्लुतत्वेन बलवत्त्वात् तदनुरोधेन दीर्घशकूादौ गृहीतव्युत्पत्तेर्बलवत्त्वा-त्तद्विरोधेन म्लेञ्छव्यवहारसिद्धा प्रियङ्वादिव्युत्पत्तिरमुख्येति सिद्धान्तितम् । नह्येवं प्रकृतेस्तीत्यर्थः ।
नन्विहाप्यर्थापत्तिरेवापूर्वशक्तिग्रहे प्रमाणमित्यत आह ।। श्रौतस्येति ।। प्रकृत्यवगतयागादाविति योज्यम् ।। न शक्तीति ।। अपूर्वे शक्तिग्राहिका नेत्यर्थः ।। शक्तिः स्यादिति ।। न चेष्टापत्तिः । तथात्वे ‘‘तत्सिद्धिजाति-सारूप्यप्रशंसाभूमलिङ्गसमवायात्१’’ इति सूत्रे गौणतोक्तिविरोध इति भावः ।
।। लिङादेरपूर्वे व्युत्पत्तिभङ्गः ।। ४२ ।।