उदयनादयस्तु साध्यसमव्याप्तत्वे सति साधनाव्यापक उपाधिरित्याहुस्तन्न
अथोदयनाद्युक्तोपाधिलक्षणभङ्गः ।। ८ ।।
तर्कताण्डवम्
उदयनादयस्तु साध्यसमव्याप्तत्वे सति साधनाव्यापक उपाधिरित्याहुस्तन्न । शास्त्रे पार्थिवपरमाणुरूपादयो नित्याः परमाणु-विशेषगुणत्वादाप्यपरमाणुरूपवदित्यादौ पृथिवीविशेषगुणत्वाभावादे-र्विषमव्याप्तस्याप्युपाधित्वस्वीकारात् । समव्याप्त्यभावेऽपि वक्ष्यमाण-रीत्या साध्यव्यापकत्वादिमात्रेण प्रतिपक्षाद्युन्नायकत्वसम्भवेन दूषकताबीजसाम्याच्च । साध्यव्याप्यत्वरूपस्वधर्मस्य साधने प्रतिबिम्बजनकत्वरूपावयवार्थाभावेऽपि लाभाद्युपाधिना कृतमित्या-दाविव रूढ्योपाधिपदप्रयोगोपपत्तेश्च ।।
किञ्च न शास्त्रे लोकव्यवहारार्थमुपाधिव्युत्पादनम् । किंत्वनुमान-दूषणार्थमिति विषमव्याप्तिके उपाधिशब्दः पारिभाषिकोऽस्तु । निश्चितसाध्यकादौ सपक्षादिशब्दवत् समव्याप्तेऽवयवार्थस्य सत्त्वेनान्यत्र गौणो वाऽस्तु । विषमव्याप्तिकस्य दूषणत्व एव हि ममाभिनिवेशः । न तु तत्रोपाधिशब्दस्य मुख्यत्वेऽपि ।।
ननु विषमव्याप्तस्योपाधित्वे बाधानुन्नीतपक्षेतरोऽप्युपाधिः स्यादिति चेन्न । अनुमाने अनुकूलतर्कासत्त्वे इष्टापत्तेः । तत्सत्त्वे उपाधेः साध्याव्यापकत्वनिश्चयात् । अन्यथा तवापि शब्दोऽभिधेयः प्रमेयत्वादित्यादावशब्दत्वादेः समव्याप्तपक्षेतरस्य निरासो न स्यात् । अत एवानुव्याख्याने साध्यव्यापकत्वमेवोक्तम् न तु समव्याप्तिः ।।
केचित्तु– व्यतिरेकिधर्मत्वमुपाधिसामान्यलक्षणम् । शुद्धसाध्य-व्यापकत्वावच्छिन्नसाध्यव्यापकत्वादीनि तु विशेषलक्षणानीत्याहुः । तन्न । व्यतिरेकिधर्मत्वस्यात्रायमुपाधिरिति व्यवहाराहेतुत्वात् । अनुमितिप्रतिबन्धकज्ञानविषयतानवच्छेदकत्वाच्च ।।
कश्चित्तु– पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । पर्यवसितत्वं च पक्षधर्मताबललभ्यत्वम् । एवं च शब्दः स्वस्वेतरावृत्तित्वरहितनित्यावृत्तिधर्माधिकरणम् मेयत्वादित्यादौ पर्यवसितेऽनित्यत्वे कृतकत्वमुपाधिः । तत्साधनेऽनित्यत्वमुपाधि-रित्याह । तन्न । तथात्वे हि द्व्यणुकस्य सावयवत्वे सिद्धे द्व्यणुक-मनित्यद्रव्यासमवेतम् महत्वानधिकरणद्रव्यसमवेतत्वादित्यत्र पर्य-वसिते नित्यद्रव्यसमवेतत्वे निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् ।।
किञ्च पक्षधर्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः । तदसिद्धौ कस्य व्यापकः ।।
न्यायदीपः
अनुव्याख्याने साध्यव्यापकवैलोम्यं साधनस्येत्युपाधिलक्षणोक्तिः साध्यसमव्यापकत्वलक्षणनिरासायेत्युक्त्वा सुधायां १दूषितं तद्विशदीकुर्वन्नाह– उदयनादयस्त्विति । यद्यप्येतन्मतं मणावेव पूर्वपक्षे निरस्तम् । तथाप्यधिकदोषविवक्षया सुधावाक्यविवरणचिकीर्षया चात्र पुनरुपन्यासः । समव्याप्तत्वं किं विषमव्याप्तस्योपाधित्वेन शास्त्रकारैरनुपादानादुपादीयते, उत दूषकताबीजस्य समव्याप्त एव सम्भवेन विषमव्याप्तोपाधेरभावात् ।
अथ–
स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र दर्शयेत् ।
स उपाधिर्यथा लोके जपादिः स्फटिकादिषु ।।
इहाप्यव्याप्यहेत्वर्थव्याप्तत्वभ्रमहेतुता ।
उपाधेः स्यात् .... ...... ....।।
इत्याद्युक्त्या यः समीपस्थिते हेतौ स्वधर्मं व्याप्यत्वमादधाती-त्युपाधिपदस्यान्वर्थत्वसिद्ध्यर्थं, यद्वा पक्षेतरत्वस्योपाधित्वनिवृत्त्यर्थमिति । आद्यं निराह– शास्त्र इति । विषमव्याप्तस्येति । यत्र नित्यत्वं तत्र पार्थिवविशेषगुणत्वाभावो जलपरमाण्वादाविति साध्यव्यापकत्वमिव यत्र पार्थिवविशेषगुणत्वाभावस्तत्र नित्यत्वमिति नास्ति । घटादौ व्यभिचारादतो विषमव्याप्तस्येत्युक्तम् । द्वितीयं निराह– समेति । वक्ष्यमाणेति । दूषकताबीजोक्तिप्रस्ताव इति भावः । तृतीयं प्रत्याह– साध्येति ।।
ननु–
‘‘भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन ।
अदृष्टां समुदायस्य कः शक्तिं जातु कल्पयेत्’’ ।।
इति न्यायेनावयवार्थसम्भवे रूढिकल्पना न युक्तेत्यतः मण्युक्तदोषान्तरं चाह– किञ्चेति । सुधोक्तमाह– समव्याप्त इति । चतुर्थं शङ्कते– नन्विति । बाधस्थले सर्वं तेजोऽनुष्णं पदार्थत्वादित्यादौ अतेजस्त्वादिरूपस्य पक्षेतरत्वस्योपाधित्वस्वीकाराद्बाधानुन्नीतेत्युक्तम् । अनुव्याख्यान इति । साध्यव्यापकवैलोम्यमित्यनुव्याख्याने । व्यतिरेकिधर्मत्वमिति । अभावप्रतियोगिधर्मत्वमित्यर्थः । धर्मत्वमात्रस्य प्रमेयत्वादावपि सत्त्वा-द्व्यतिरेकीत्युक्तम् । शुद्धेति । शुद्धव्यापकत्वावच्छिन्नसाध्यव्यापकत्व-साधनावच्छिन्नसाध्यव्यापकत्वघटितानीत्यर्थः । अनुमितिप्रतिबन्धकेति । यदवच्छिन्नविषयकं ज्ञानं अनुमितिप्रतिबन्धकं तादृशं ह्युपाधित्व-मनुमानदूषणार्थमिह निरूपणीयम् । तादृशं च साध्यव्यापकत्वादिकमेव न तूक्तरूपमिति भावः ।।
रत्नकोशकारमतमाह– कश्चिदिति । पक्षधर्मताबललभ्यत्वमिति । तथा च बाधानुन्नीतपक्षेतरेऽपि नातिव्याप्तिः । तस्य पक्षीयसाध्या-व्यापकत्वादिति भावः । स्वेति । स्वस्मिन्स्वेतरत्र चावृत्तित्वरहित-स्तत्रोभयत्र विद्यमान इति यावत् । तादृशो, नित्येऽविद्यमानश्च यो धर्मः तदधिकरणमित्यर्थः । नित्यावृत्तिधर्माधिकरणमित्येवोक्तौ शब्दत्वरूप-धर्मवत्त्वेनार्थान्तरं स्यात् । अतो रहितेत्यन्तम् । प्रमेयत्वादिधर्मवत्त्वे-नार्थान्तरनिरासाय नित्यावृत्तीत्युक्तम् । तत्साधन इति । स्वस्वेतरावृत्तित्व-रहिताकृतकावृत्तिधर्माधिकरणमित्येवंरूपेण कृतकत्वसाधन इत्यर्थः । एवं च पक्षधर्मावच्छिन्नसाधनावच्छिन्नसाध्यव्यापकादिसर्वसङ्ग्रहः । तादृशसाध्यस्य पर्यवसितत्वात् ।।
‘‘वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः ।
पर्यवसितं नियमयन् दूषकताबीजसाम्राज्यात्’’ ।।
इति तद्वचनादिति भावः । सिद्ध इति । कार्यत्वादिहेतुनेति भावः । असमवेतत्वेन साध्यपर्यवसानवारणाय सावयवत्वे सिद्धे इत्युक्तम् । द्रव्य-समवेतत्वमात्रस्य त्र्यणुकादावव्यभिचाराय महत्वानधिकरणेति द्रव्यविशेषणम् । मणौ जन्यत्वानधिकरणेत्याद्युक्तावपि जन्यविशेषणस्य व्यर्थत्वात्परित्यागः । निःस्पर्शद्रव्येति । अत्र द्रव्यपदं समव्याप्त्यभिप्रायेणेति ज्ञेयम् । नन्वत्र पक्ष एव साध्याव्यापकत्वात्पर्यवसितसाध्यव्यापकत्वं नास्त्येवेति नाति-व्याप्तिरित्यरुचेराह– किञ्चेति । निष्फल इति । साध्यव्यावृत्त्यर्थत्वादुपाधेः सिद्धस्य च व्यावृत्तेरयोगादिति भावः ।।
।। इत्युदयनाद्युक्तोपाधिलक्षणभङ्गः ।। ८ ।।