यत्तु मणावुक्तम्– वाचकमेवानुभावकम् ..
६७. अथ लाक्षणिकादेरनुभावकत्वसमर्थनम् ।
तर्कताण्डवम्
यत्तु मणावुक्तम्–
वाचकमेवानुभावकम् । लाक्षणिकादिकं तु स्मारकमेव । शक्तत्वस्यैवानुभावकत्वे तन्त्रत्वात् । न च सम्बन्धमात्रं तत्र तन्त्रम् लाघवादिति वाच्यम् । घटशब्दस्यापि कार्यकारणसम्बन्धेनाकाशानु-भावकत्वापातात् ।।
नापि वृत्तिमात्रं तन्त्रम् । वृत्तित्वं हि शाब्दानुभवानुकूल-पदपदार्थसम्बन्धत्वम् । तथा च शाब्दानुभवानुकूलत्वे ज्ञाते तद्घटि-तवृत्तित्वज्ञानम्, वृत्तित्वे च ज्ञाते तदवच्छेदेन शाब्दानुभवानु-कूलत्वज्ञानम्, इत्यन्योन्याश्रयात् ।
तीरस्यानुभवस्तु गङ्गापदस्मारिततीरान्वितघोषानुभावकेन घोष-पदेनैव । एतेन लाक्षणिकमेवानुभावकं न तु वाचनिकमिति वैपरीत्य-शङ्कानिरस्ता । सर्वत्र वाक्ये शक्तपदनियमवल्लाक्षणिकपदनियमाभावेन शक्ते अनुभावकताया आवश्यकत्वादिति ।
तन्न । पदं न स्मारकमित्युक्तत्वेन गङ्गापदस्याननुभावकताया-मबोधकत्वापातात् । लक्षणादेरनुभावकत्वातन्त्रत्वे स्मारकमात्रस्य कार्यकारणसम्बन्धस्येवावृत्तित्वप्रसङ्गाच्च ।।
न्यायदीपः
।। मणावुक्तमिति ।। लक्षणावादे ।। वाचकमिति ।। गङ्गायां घोषः सिंहश्चैत्र इत्यादौ गङ्गादिपदं घोषादिपदार्थान्विततीरादिरूपवस्वार्थानुभावकं नेत्यर्थः । केन तर्हि घोषाद्यन्विततीराद्यनुभव इत्यत आह ।। तीरस्येति ।।
ऐतेनेत्युक्तं व्यनक्ति ।। सर्वत्रेति ।। पदमिति ।। वाक्यस्थं पदं न पदार्थस्मारकमिति भट्टाभिमताभिहितान्वयभङ्गे उक्तत्वेनेत्यर्थः ।। अबोध-कत्वेति ।। स्मृत्यनुभवान्यबोधाभावादिति भावः ।। अवृत्तित्वप्रसङ्गा-च्चेति ।। अन्यथा घटादिशब्दस्यापि त्वन्मते कार्यकारणसम्बन्धेनाकाश-स्मारकत्वादाकाशे वृत्तिमत्त्वप्रसङ्गादिति भावः ।
तर्कताण्डवम्
न च शाब्दानुभवानुकूलस्मृतिहेतुत्वमात्रेण वृत्तित्वमिति वाच्यम् । उक्तस्मृतिहेतुत्वेपि वृत्तित्वादेस्तन्त्रत्वे अन्योन्याश्रयादिप्रसङ्गेन शक्त-त्वमेव तन्त्रमिति सुवचत्वात् साक्षात्परम्परासाधारणशक्ति१-सम्बन्धित्वं२ वृत्तित्वमिति निरुक्तौ चान्योन्याश्रयाभावात् । गङ्गा-शब्दस्य च तीरे परम्पराशक्तिसम्बन्धस्य सत्त्वात् । साक्षात्वेन विशेषणे गौरवात् । गङ्गापदात्स्मराम्येव घोषपदात्त्वनुभवाम्य-पीत्यननुव्यवसायेन घोषान्विततीरानुभवार्थं गङ्गापदेप्यनुभावकत्वस्या-वश्यकत्वाच्च ।
अन्यथा गामानयोत्यत्रापि एकमनुभावकं न स्यात् । श्रुतमेवानु-भावकं न त्वध्याहृतम् रूढमेवानुभावकं न तु यौगिकमिति च स्यात् ।
न्यायदीपः
।। हेतुत्वमात्रेणेति ।। लक्षणादेरित्यनुकर्षः ।। उक्तस्मृतिहेतुत्वे-पीति ।। शाब्दानुभवानुकूलस्मृतिहेतुत्वेपि । लक्षणादेरित्यनुषङ्गः । तस्येति शेषः । उक्तरूपस्मृतिहेतुत्वस्य वृत्तित्वलक्षणात्वगौणीवृत्तित्वतन्त्रत्वे सति शाब्दानुभवानुकूलत्वे ज्ञाते तद्घटितवृत्तित्वज्ञानं वृत्तित्वे च ज्ञाते तदवच्छेदेन शाब्दानुभवानुकूलत्वज्ञानमिति प्रागुक्तान्योन्याश्रयप्रसङ्गेनादिपदोक्तेन तस्यैव वृत्तित्वे स्वज्ञाने स्वज्ञानापेक्षेत्यात्माश्रयप्रसङ्गेन चेत्यर्थः । तन्त्रमित्युप-लक्षणम् । शक्तत्वमेवोक्तरूपस्मृतिहेतुत्वमिति सुवचत्वादित्यपि ध्येयम् ।
का तर्हि वृत्तित्वनिरुक्तिर्निदोषा लक्षणादिसाधारणी । यद्वृत्तित्व-मनुभावकतायां तन्त्रं स्यादित्यत आह ।। साक्षादिति ।। परम्परेति ।। शक्यार्थद्वारको वा लक्ष्यार्थद्वारको वा परम्परासम्बन्धो ध्येयः । तथाच लक्षितलक्षणायां नाव्याप्तिः ।। शक्तिसम्बन्धित्वम् ।। शक्तिरूप१-सम्बन्धवत्त्वमित्यर्थः । गङ्गायां घोष इत्यादावव्याप्तिरित्यत आह ।। गङ्गेति ।। लक्षितलक्षणायामपि न दोष इति इत्यपि ध्येयम् ।
ननु– साक्षाच्छक्तिरूप२सम्बन्धवत्त्वमेवानुभावकतायां तन्त्रभूतं वृत्तित्वम् । एवं च लक्षणादेर्न तादृशवृत्तित्वप्रङ्ग इत्य आह ।। साक्षा-त्वेनेति ।। कुत एवं निर्बन्ध इत्यत आह ।। गङ्गेति ।। विपक्षे बाधकानि चाह ।। अन्यथेति ।। अनुव्यवसायाभावेेपि स्मारकत्वमात्रकल्पन इत्यर्थः ।
तर्कताण्डवम्
अत एव लक्षणादिस्थलेपि शक्तेरेव परम्परयापि व्यापारा-देवानुव्याख्यानेलक्षणादिसाधारणतात्पर्यनिरुक्तौ वाचकत्वं हि तात्पर्य-मित्युक्तम् । सुधायामपि लक्षणामधिकृत्यावश्यं शक्तिराश्रयणीयेत्युक्तम् ।
केचित्तु– गङ्गापदस्याननुभावकत्वे व्युत्पत्तिसिद्धं घोषपदेन सह सम्भूय कारित्वं न स्यात् । अनुभवे गङ्गापदस्य अव्यापारात् । स्मृतौ च पदानामन्यनैरपेक्ष्यादित्याहुः ।
तन्न । प्रोक्षणादीनां व्रीह्यादिद्वारा याग इव गङ्गापदस्यापि स्मृतिद्वारा गङ्गान्वितघोषानुभवे व्यापारेण सम्भूय कारित्वसम्भवात् ।
।। लाक्षणिकादेरनुभावकत्वसमर्थनम् ।। ६७ ।।
न्यायदीपः
स्वोक्तनिरुक्तौ संवादमाह ।। अत एवेति ।। तस्यैव विवरणं लक्षणादि-स्थल इत्यादि ।। अनुव्याख्यान इति ।। ज्ञानपादीयानुव्याख्यान इत्यर्थः ।
।। सुधायामपीति ।। ‘‘पूर्वायोगे परग्रह’’ इत्यानुमानिकपादीयानु-व्याख्यानसुधायाम् । लक्षणाद्यमुख्यवृत्तिर्नोपेया सादृश्यसम्बन्धयो-स्तद्धितोत्पत्त्यैव सर्वनिर्वाहादर्थापत्तिरेव वा गङ्गायां घेष इत्यादावस्त्वित्या शङ्क्य तत्र दूषणानुक्त्वोपसंह्रियते अवश्यं शक्तिराश्रयणीयेति । तत्र लक्षणादिवृत्तिरवश्यमाश्रयणीयेत्युपसंहर्तव्ये शक्तिरित्युपसंहारोत्र प्रागुक्ताभि-प्रायक एव । अन्यथासङ्गतः स्यादिति भावः । समाध्यन्तरं नादरणीयमिति भावेन तदनूद्य निराह ।। केचित्त्विति ।।
।। लाक्षणिकादेरनुभावकत्वसमर्थनम् ।। ६७ ।।