श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा..
८०. अथ परोक्तश्रुत्यादिलक्षणभङ्गः ।
तर्कताण्डवम्
एवं शब्दादेव प्रमित इत्यधिकरणे–
‘‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा.
पूर्वम्पूर्वं बलीयः स्यादेवमागमनिर्णयः’’ ।
इतिभाष्यव्याख्यानावसरे टीकायां–
‘‘श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् ।
पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा ।।
एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते ।
अन्यत्र तत्समोक्तिस्तु समाख्यास्थानमेव च ।
अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्य तु’’ ।
इति तत्त्वप्रदीपोदाहृतवचनानुसारेण श्रुत्यादिलक्षणमुक्तम् । तत्र टीकोक्तश्रुत्यादिलक्षणनिर्वाहः पूर्वबलीयस्त्वे बीजम् । तत्रोदाहरणा-दिकं चास्माभिश्चन्द्रिकायामुक्तं द्रष्टव्यम् ।
न्यायदीपः
उपक्रमादेरिव श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामप्याम्नायार्थाव-गत्यर्थत्वात् तत्स्वरूपादिकमन्यत्रोक्तं स्मारयति ।। एवं शब्दादेवेति ।। आद्यस्य तृतीयपादीयसप्तमेऽधिकरण इत्यर्थः ।
तर्कताण्डवम्
मीमांसकास्तु–
श्रुतिः शब्दोऽनपेक्षःसा विद्ध्युक्तिविनियोगकृत् ।
विनियोक्त्री त्रिधा भिन्ना तुल्यशब्दादिरूपतः ।।
सर्वभावगता शक्तिर्लिङ्गमित्यभिधीयते ।
वाक्यं तु पदसङ्घातमात्रं विद्वद्भिरुच्यते ।।
इतिकर्तव्यताकाङ्क्षा प्रक्रियाद्विविधा च सा ।
स्थानं तु तुल्यदेशत्वं पाठानुष्ठानतो द्विधा ।
समाख्या यौगिकी सञ्ज्ञा लौकिकी वैदिकी च सा ।
तत्र लिङादिश्रुतिर्विधात्री । इन्द्रादिश्रुतिरभिधात्री । विनियो-क्त्यप्येकपदरूपा एकप्रत्ययरूपा विभक्तिरूपा चेति त्रिविधा । तत्राद्या यथा यजेतेति पदम् । तेन हि प्रत्ययोक्तां भावनां प्रति प्रकृत्युक्त-यागस्य शेषता भाति । द्वितीया तु पशुना यजेतेत्यत्र नेति तृतीया ।
न्यायदीपः
।। मीमांसकास्त्विति ।। इत्याहुरिति दूरेऽन्वयः । तत्र वार्तिककृदभि-मतं न्यायरत्नमालाश्लोकं पठति ।। श्रुतिरिति ।। अर्थबोधनेऽन्यनिरपेक्षः शब्दः श्रुतिरित्यर्थः । लिङ्गादिकं तु श्रुत्यादिसापेक्षमेवेति न तत्रातिव्याप्तिरिति भावः । तद्विभागमाह ।। सेति ।। श्रुतिर्विधिकृत् । उक्तिरभिधानम् अभिधानकृत् विनियोगकृदित्यर्थः ।
विनियोगकृच्छ्रुतेर्विभागमाह ।। विनियोक्त्रीति ।। शेषशेषिभावबोधिका श्रुतिस्त्रिधा भिन्नेत्यर्थः ।। तुल्येति ।। एकेत्यर्थः । आदिपदेन प्रत्यय-विभक्त्योर्ग्रहः ।
लिङ्गलक्षणमाह ।। सर्वभावेति ।। सर्ववस्त्वित्यर्थः । स्फोटादि-पक्षान्तरनिरासाय पदसङ्घातमात्रमिति मात्रपदप्रयोगः । इतिकर्तव्यता अङ्गकलापस्तदाकाङ्क्षेत्यर्थः ।
।। प्रक्रियेति ।। प्रकरणम् । साच महाप्रकरणावान्तरप्रकरणभेदेन द्विविधेत्यर्थः । तुल्यदेशत्वमिति बहुव्रीहिः ।
साविध्युक्तीत्यादिपादार्थं व्यनक्ति ।। तत्रेति ।। श्लोकोक्तश्रुतिविभागे-ष्वित्यर्थः ।। लिङादीति ।। लिङ्लोट्तव्यप्रत्ययलेट्प््रात्ययरूपा । जुहुयादित्यादिश्रुतिर्विधात्री कर्तव्यताबोधकर्त्रीत्यर्थः । ‘‘कदाचनस्तरीरसि नेन्द्रसश्चसिदाशुष’’ इत्यादिश्रुतिः प्रवर्तकत्वादिमन्तरेणार्थप्रकाशनमात्र-व्यापारवत्त्वरूपाभिधात्रीत्यर्थः ।
विनियोक्त्त्रीत्यर्घश्लोकं व्यनक्ति ।। विनियोर्क्त्यापीति ।। एकपदेति ।। सुप्तिङन्तं पदमित्युक्तपदरूपेत्यर्थः ।। नेति तृतीयेति ।। ‘‘आङो नास्त्रियाम्’’ इति नाभावविधानान्नेतीत्युक्तमिति ।
तर्कताण्डवम्
तया हि स्वोक्तकरणत्वं प्रति स्वोक्तैकत्वस्य शेषतोक्ता । तृतीयापि शेषित्वबोधिका यथा व्रीहिन् प्रोक्षतीत्यादौ द्वितीयादिः । शेषत्वबोधिका यथा अरुणया क्रीणातीत्यादौ तृतीयादिः ।
बहिर्देवसदनं दामीत्यादिमन्त्रस्य लवनप्रकाशनसामर्थ्यरूपाल्लिङ्गा-ल्लवनशेषता । न ह्यस्य विनियोजिका श्रुतिरस्ति । यजेत स्वर्गकाम इति पदद्वयसमभिव्याहाररूपाद्वाक्याद् यागस्य स्वर्गशेषता ।
न्यायदीपः
चतुर्थाद्यपादे ‘‘तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्’’ इति षष्ठाधिकरणे एकत्वमयज्ञाङ्गमुत यज्ञाङ्गमिति संशये यज्ञाङ्गमिति प्राप्ते करणदोषत्वेन यज्ञाङ्गमित्युक्तत्वात्तद्द्रीत्या व्यनक्ति ।। तया हीति ।। स्वोक्तेति ।। ‘‘कर्तृकरणयोस्तृतीय’’ इति करणार्थे तृतीयाविभक्ते‘‘द्वर्येकयोर्द्विवचनैक-वचन’’ इत्येकत्वे एकवचनस्य विधानान्नेत्यनेन तृतीयात्वेन करणत्वस्य, एकवचनत्वेनैकत्वस्य बोधनात् स्वोक्तेत्युक्तम् । उक्तं हि–
‘‘समानप्रत्ययस्थेन कारकेणात्मसात्कृता ।
क्रियायै नीयते सङ्ख्या न पश्वङ्गं पदाद्भवेत्’’ ।
इति । ‘‘द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्ध’’ इति षष्ठाद्य-स्वर्गकामाधिकरणोक्तरीत्या व्यनक्ति ।। तेन हीति ।। यागं कुर्यादित्येवार्थो यजेतेत्यस्येति प्राप्ते यागेन भावयेदित्यर्थस्य तत्र व्युत्पादितत्वादिति भावः ।
।। शेषतेति ।। करणतेत्यर्थः । विभक्ति रूपापि शेषित्वबोधिका शेषत्वबोधिका चेति द्विरूपेति श्लोकानुक्तमपि तदभिमतं विभागं हृदि कृत्वा व्यनक्ति ।। तृतीयापीति ।। इत्यादौ द्वितीयादिरिति ।। ‘‘क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति’’ इत्यत्र चतुर्थीत्यादिपदेन ग्राह्यम् । ‘‘तानि द्वैधङ्गुणप्रधानानि’’ इति द्वितीयाद्यपादीयचतुर्थेधिकरणे शेषित्वबोधिका द्वितीयेति व्यक्तम् । चतुर्थीतु ‘‘प्रासवन्मैत्रावरुणायदण्डप्रदानं कृतार्थत्वाद्’’ इति चतुर्थद्वितीयपादे षष्ठाधिकरणे व्यक्तम् । अधिकरणशरीराणि तु ग्रन्थ-गौरवभीत्या न विव्रीयन्ते ।
।। इत्यादौ तृतीयादिरिति ।। आदिपदाभ्यां ‘‘मूलतः शाखां परिवास्योपवेषं करोति’’ इत्यादौ पञ्चमी, ‘‘वेद्यां हवींष्यासादयति’’ इत्यत्र सप्तमीति ग्राह्यम् । ‘‘अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्याद्’’ इति तृतीयाद्यपादीयपञ्चमाधिकरणे तृतीयाश्रुत्या प्रतीतारुण्यकरणत्वस्य गोरूप-द्रव्यपरिच्छेदद्वारा क्रयशेषत्वस्य व्युत्पादनात् शाखायां तत्प्रधानत्वादिति चतुर्थद्वितीयपादीयतृतीयेधिकरणे शाखामूलस्य परिवासनशब्दितच्छेदना-पादनतया छेदनसाध्यमग्रं प्रतिशेषता व्यक्ता । तथा तृतीयस्य सप्तमे पादे ‘‘प्रकरणविशेषादसंयुक्तं प्रधानस्य’’ इत्याद्याधिकरणेऽङ्गप्रधानसर्वहविरधि-करणतया १वेद्यः शेषत्वस्य वेद्यां हवींष्यासादयतीति सप्तम्या व्युत्पादनं ध्येयम् ।
एवं षष्ठ्यपि शेषत्वबोधिका शेषित्वबोधिका चेति द्विरूपा । तत्राद्या– ‘‘राजन्यवसिष्टादीनां नाराशंसो द्वितीयः प्रयाजस्तनूनपादन्येषाम्’’ इत्यत्र वसिष्टादीन्स्वामित्वेनोद्दिश्य तादर्थ्येन नाराशंसादि विधीयत इति षष्ठे सन्निपात इति षष्ठपादीयाद्यनयेभिधानात् तत्र व्यक्ता । द्वितीया तु यजमानस्य याज्येत्यत्र याज्याविशेषे यजमानः कर्तृतया तदङ्गत्वेन विधीयते इति ‘‘याज्यापनयेनापनीतो भक्षः प्रवरवाद्’’ इति तृतीयाध्याय पञ्चम-पादीयत्रयोदशेधिकरणे व्युत्पादनात्तत्र व्यक्ता । प्रथमा तु प्रातिपदिकमात्रे विधानान्न शेषत्वस्य शेषित्वस्य वा बोधिकेति ध्येयम् ।
श्रुत्यादिषट्कस्याङ्गाङ्गिभावे प्रमाणत्वं मीमांसकैरङ्गीकृतमिति श्रुतेरङ्गाङ्गि-भावप्रमापकत्वमुदाहरणपूर्वं व्यक्तीकृत्य सर्वभावेत्यर्ध्योक्तलिङ्गस्य स्वरूपं विवृण्वन्नेव शेषत्वबोधकतां दर्शयति ।। बर्हिरिति ।। दाप् लवन इतिधातोः देवानां सदनमाश्रयभूतं बर्हिर्दामि लुनामीत्यर्थः ।
।। लवनशेषतेति ।। व्यक्तमेतत् ‘‘तदर्थशास्त्राद्’’ इति आद्यद्वितीय-पादीयमन्त्राधिकरणे । विनियोजका लवनाङ्गत्वबोधिका बर्हिरितिमन्त्रेण कुशान्लुनीयादिति श्रुतिर्न ह्यस्ति । येन लिङ्गं विनियोजकं न स्यादित्यर्थः ।
वाक्यं त्वित्युक्तस्य विनियोजकत्वं व्यनक्ति ।। यजेतेति ।। स्वर्गशेष-तेति ।। तथैव स्वर्गकामाधिकरणे व्युत्पादितत्वादिति भावः ।
तर्कताण्डवम्
न ह्यत्र यागेनेति तृतीया स्वर्गमिति द्वितीया वास्ति । किन्तु समभिव्याहारादेव साध्यसाधनताधीः । प्रकरणस्य द्वैविध्यं च महा-प्रकरणावान्तरप्रकरणभेदात् । तत्राद्येन प्रयाजादेर्दर्शपूर्णमासादिशेषता । द्वितीयेनाभिक्रमस्य प्रयाजादिशेषता ।
पाठसादेश्यमपि द्वेधा यथासङ्ख्यं सनि्नधिश्चेति । तत्राद्या ‘‘द्दब्धि-रस्यदब्धो भूयासम्’’ इति मन्त्र उपांशुयागशेषः । द्वितीया ‘‘च्छुन्धध्वं दैव्याय कर्मण’’ इति मन्त्रः सान्नाय्यपात्रप्रोक्षणं प्रति शेषः । अनुष्ठानसादेश्यात् पशुधर्मा अग्नीषोमीयं प्रति होतृचमस इति वैदिक-समाख्यया होतुश्चमसभक्षणशेषता । आध्वर्यवमिति लौकिक-समाख्याध्वर्योरवघातादिशेषतेत्याहुः ।
न्यायदीपः
इतिकर्तव्यतेत्यर्धोक्तप्रकरणस्य द्वैविध्यं दर्शयन्नेवोदाहरणनिष्ठतया दर्शयति ।। प्रकरणस्येति ।। प्रयाजादेरिति ।। ‘‘समिधो यजति तनूनपातं यजति इडोयजति बर्हिर्यजति स्वाहाकारं यजत’’ इत्युक्तप्रयाजादेर्दर्शपूर्ण-मासाख्याग्नेयादिप्रधानषड्यागप्रकरणेन तच्छेषत्वं ‘‘असंयुक्तं प्रकरणादिति-कर्तव्यतार्थत्वाद्’’ इति तृतीयाध्यायतृतीयपादीयप्रकरणाधिकरणे व्युत्पादितम् ।
।। द्वितीयेनेति ।। अङ्गानां जायमानेतिकर्तव्यताकाङ्क्षारूपावान्तर-प्रकरणेनाभिक्रामं जुहोतीत्युक्ताभिक्रमणस्य प्रयाजादिशेषता ‘‘कर्तृगुणे तु कर्मार्समवाया’’दिति तृतीयाद्यपादीयनवमाधिकरणे व्यक्ता । स्थानं त्वित्यादिना स्थानस्य यद्द्वैविध्यमुक्तं पाठानुष्ठानतोपीति तत्राद्यस्य विभागो-दाहरणे आह ।। पाठेति ।। सादेरयम् ।। समानदेशत्वं समानदेशे पाठ्य-मानत्वमित्यर्थः ।। यथासङ्ख्यम् ।। यथाक्रमम् । सन्निधिः समीपे पाठः ।
।। आद्यादिति ।। यथासङ्ख्याम्नानरूपात्स्थानादित्यर्थः । आग्नेयाग्नी-षोमीयपुरोडाशा१नुमन्त्रणामन्त्रयोः ‘‘अग्नेरहं देवयज्ययान्नादो भूयासं’’ ‘‘आग्नीषोमयोरहं देवयज्ययावृत्रहाभूयासम्’’ इत्यनयोर्मन्त्रयोः मध्ये पठितस्य‘‘दब्धिरस्यदब्धो भूयासम्’’ इति मन्त्रस्याग्नेयाग्नीषोमीय-यागयोर्मध्येऽनुष्ठेयोपांशुयागशेषत्वं ‘‘क्रमश्चदेशसामान्याद्’’ इति तृतीयस्य तृतीयपादे क्रमाधिकरणे चिन्तनादिति भावः ।
।। द्वितीयादिति ।। सन्निध्याम्नानरूपस्थानादित्यर्थः ।। शुन्धध्व-मिति ।। तत्रैव तृतीयपादे बलाबलोक्तिप्रस्तावे स्थानसमाख्याधिकरणे तथोक्तेरिति भावः । श्लोकोपात्तानुष्ठानसादेश्यरूपस्थानस्य शेषताबोधकत्व-स्थलं दर्शयति ।। अनुष्ठानेति ।। पशुधर्माः ।। यूपच्छेदनतक्षणादयो धर्माः । सवनीयादिपश्वनुष्ठानापेक्षयाग्नीषोमीयपशोर्यूपच्छेदनाद्यनुष्ठानादग्नीषोमीयपशुधर्मा एव यूपच्छेदनादयो न सवनीयादिपशुधर्मा इति तृतीयस्य षष्ठे पादे ‘‘तुल्यश्चसर्वेषां पशुविधिः प्रकरणाविशेषाद्’’ इति सप्तमेधिकरणेऽभिधानादिति भावः ।
समाख्येत्यर्धोक्तसमाख्याद्वैविध्यस्य विनियोजकत्वस्थमाह ।। होत्रिति ।। एतच्च तृतीयस्य पञ्चमे पादे ‘‘चमसेषुसमाख्यानाद्’’ इत्यधि-करणे व्यक्तम् ।। आध्वर्यवमिति ।। अवघातादेराध्वर्यवमिति लौकिकी सञ्ज्ञा । तयाध्वर्योरवघातादिशेषत्वम् ‘‘आख्याचैवं तदर्थत्वाद्’’ इति तृतीयाध्याय तृतीयपादीयषष्ठेधिकरणे दर्शितम् ।
तर्कताण्डवम्
तत्र विधात्र्या विधावभिधात्र्याश्चेन्द्रादौ विनियोक्त्त्र्या अपि विभक्तिरूपायाः कर्मत्वकरणत्वादौ रूढत्वात् तत्राप्यस्मदुक्तं नामत्वरूपं श्रुतिलक्षणमस्त्येव ।
पशुनेति तृतीयोक्तैकत्वस्य तु न स्वार्थकरणत्वेनान्वयः । किन्तु पशुरितिप्रथमोक्तैकत्ववत्स्वप्रकृत्यर्थपशुनैव । पशुरेकः पशुः करण-मित्येव प्रतीतेः । यजेतेत्यत्रापीष्टसाधनत्वरूपविधौ लिङो रूढत्वात् ।।
न्यायदीपः
प्रागुक्तश्रुतिप्रभेदेषु क्वचिदनुमतिमाह ।। तत्रेत्यादिना ।। श्रुतिप्रभेदे-ष्वित्यर्थः । विधावित्यस्य इन्द्रादावित्यस्य च रूढत्वादित्यन्वयः ।। अस्मादिति ।। श्रुतिर्नामेति स्मृत्युक्तदिशा चन्द्रिकायामस्मदुक्तमित्यर्थः । विनियोजकश्रुतिरेकप्रत्ययरूपा एकपदरूपा विभक्तिरूपा चेति यत्र्रैविध्यन्तत्र विभक्तिरूपाया विनियोजकश्रुतित्वं सम्मतमित्युक्तम् । ततोऽवशिष्टं यत्कल्पद्वयं तत्रैकप्रत्ययरूपेत्येतत् तावन्निराकरोति ।। पशुनेतीति ।। अधिकरणं त्वेदनुरोधेनैव व्याख्येयमिति भावः ।
एकपदरूपेत्येतन्निराह ।। यजेतेति ।। तृतीयेव तृतीयायथेत्यर्थः । यद्यपि लिङ् इष्टसाधनत्व एव मानम् । तथापि विशेषवाचिशब्दसमभिव्याहारे सति विशेषे पर्यवसानस्यान्विताभिधानवादेऽभिधानात् यागस्येष्टसाधनत्वे लिङ्श्रुतिरेव मानमित्युक्तम् ।
तर्कताण्डवम्
पशुना यजेतेत्यत्र पशोः करणत्वे तृतीयेव यागस्येष्टसाधनत्वे लिङ्श्रुतिरेव मानम् । स्वर्गशब्दस्त्विष्टविशेषोपस्थापकः । साधितं चेष्टसाधनत्वं लिङर्थ इति । न तु प्रकृतिप्रत्ययसमभिव्याहाररूप-पदश्रुतिर्यागस्य कृतिरूपभावनाशेषत्वे मानम् । कृतिसाध्यस्य यागस्य कृतिकारणत्वानुपपत्तेः । फलशिरस्कभावनाकरणत्वं तु फलकरणत्व-पर्यवसायि ।
किञ्च परोद्देशप्रवृत्तकृतिव्याप्यत्वं करणत्वम् । न च यागकृतेः स्वर्गकृतिरुद्देश्या ।
न्यायदीपः
नन्वेवमिष्टस्य लिङैव बोधितत्वात्स्वर्गादिशब्दो व्यर्थ इत्यत आह ।। स्वर्गशब्दस्त्विति ।। ननु कृतिपर्यायभावनैव लिङर्थो नेष्टसाधनत्व-मित्यत आह ।। साधितं चेति ।।
प्रागुक्तं निराह ।। १नन्विति ।। कुत इत्यतः किं यागभावनां प्रति यागस्य करणत्वमुच्यते, अथ स्वर्गभावनां प्रति आद्य आह ।। कृति-साध्यस्येति ।।
अन्त्य आह ।। फलेति ।। फलकृतिं प्रति यागस्य करणत्वमभ्युपेत्य फलकरणत्वपर्यवसानमुक्तम् । वस्तुतस्तदेवायुक्तमित्याह ।। किञ्चेति ।। इदं मे भूयादिति यः परोद्देशस्तेन प्रवृत्ता या कृतिस्तद्विषयत्वमित्यर्थः । छिदिक्रियोद्देशेन प्रवृत्तकृतिव्याप्ते कुठारादौ तथा दर्शनादिति भावः ।। न चेति ।। किं तु स्वर्ग एवोद्देश्य इति वाक्यशेषः ।
तर्कताण्डवम्
युक्तश्चाक्रियारूपस्यापि फलस्य साध्यस्याकाङ्क्षाया साधनान्वयः । प्रत्युत त्वदुक्तलक्षणमेव प्रकृतिसापेक्षप्रत्ययरूपपदश्रुत्यव्यापि । न हि विधिश्रुतेर्विधानमात्रे विनियोक्त्त्र्या एकप्रत्ययश्रुतेर्विभक्तिश्रुतेश्च विनियोगमात्रे शब्दान्तरापेक्षास्ति । किं तु प्रतियोगिविशेषोपस्थापन एव ।
न च यजेतेत्यत्र प्रकृत्या यागस्य गुणता वा प्रत्ययेन भावनायाः शेषिता वोच्यते । येन विनियोगमात्रे नैराकाङ्क्ष्यं स्यात् ।
न्यायदीपः
ननु फलकरणयोः स्वर्गयागयोः क्रियाद्वारैव सम्बन्धो वाच्यः । फलस्य छिदाया इव क्रियारूपत्वाभावात् । अतो भावनाद्वारैवान्वयो वक्तव्य इत्यत आह ।। युक्तश्चेति ।। किमस्यसाधनमिति वास्य किं साध्यमिति-वाकाङ्क्षयेत्यर्थः । यद्वा लिङेष्टसाधनंयाग इति बोधिते किन्तदिष्टमित्याकाङ्क्ष-येत्यर्थः । एवं यजेतेत्यत्र लिङेव यागसाधनत्वबोधे मानं न पदश्रुति-रित्युक्तम् । पदश्रुतेरेव मानत्वे परोक्तस्य ‘‘श्रुतिः शब्दोनपेक्षः श्च’’ इति श्रुतिलक्षणस्याव्याप्तिरेव बाधिकेत्याह ।। प्रत्युतेति ।। प्रकृतिसापेक्षेति ।। केवं प्रत्ययमात्रस्य पदत्वाभावात्प्रकृतिप्रत्ययसमभिव्याहारस्यैव पदत्वोक्तेरिति भावः । एकप्रत्ययादिरूपत्वदुक्तश्रुतिप्रभेदेस्ति निरपेक्षत्वं पदश्रुतावेव नास्तीत्यव्याप्तिमुपपादयति ।। न हीति ।।
यद्वा– ननु सापेक्षत्वे सर्वत्र समानेपि कथमेकप्रत्ययादौ श्रुतित्वानुमतिः पदे त्वसम्मतिरित्यत आह ।। न हीति ।। विनियोगमात्रे शेषशेषिभव-बोधमात्रे ।
ननु– पशुनेत्येकप्रत्ययश्रुतौ पशुप्रातिपदिकापेक्षास्ति, व्रीहिनप्रोक्षती-त्यादौ विभक्तिश्रुतिष्वपि प्रकृत्याद्यपेक्षास्तीतिभावेन पृच्छायामुत्तरमाह ।। किन्त्वित्यादिना ।। प्रतियोगिविशेषेति ।। करणकारकं किमिति, कुत्रेदङ्कारमित्यादिजिज्ञासायां पशुप्रभृतिविशेषोपस्थापन एव तदपेक्षेत्यर्थः । पदश्रुतौ तु स्वार्थोपस्थापन एव सापेक्षमित्यव्याप्तिभिया प्रागुक्तश्रुतिलक्षणं वा त्याज्यम् । अस्मदुक्तदिशा लिङ्श्रुतेरेव मानत्वमुपेत्य पदस्य श्रुति-प्रमाणत्वं वा त्याज्यमिति भावः ।
ननु– प्रकृतिः प्रत्ययो वा शेषित्वादिरूपस्वार्थे नान्यदपेक्षतेतो न लक्षणमव्याप्तमित्यत आह ।। न चेति ।।
तर्कताण्डवम्
यदि च समभिव्याहृतशब्दान्यानपेक्षत्वमात्रेण वा पदान्तरा-नपेक्षत्वमात्रेण वा श्रुतित्वं तर्हि स्वर्गकामो यजेतेति पदद्वय-समभिव्याहारस्याध्वर्यवमौद्गात्रं हौत्रमित्यादिप्रकृतिप्रत्ययसमभि-व्याहाररूपायाः समाख्यायाश्च श्रुतित्वं स्यात् । न च स्वेतरप्रमाणा-नपेक्षत्वमात्रेण श्रुतित्वम् । तत्प्रयोजकस्यान्यस्याभावे तस्यैवा-योगात् । लिङादेरपि श्रुत्याद्यनपेक्षत्वस्य वक्ष्यमाणत्वाच्च ।
यच्च श्रुतेस्त्रित्वमुक्तं तदपि न । सर्वापि श्रुतिरभिधात्र्येव । ज्ञापक एव हि शब्दो न तु कारकः । परन्त्विन्द्रादिश्रुतिरि१न्द्रादिकमभिधत्ते । लिङादिश्रुतिस्तु विधिम् । द्वितीयादिश्रुतिस्तु कर्मत्वादिकमित्यभिधेय-भेदमात्रम् । न तु श्रुतेः स्वतो भेदः ।
न्यायदीपः
पदश्रुतावनपेक्षत्वरूपश्रुतिलक्षणस्याव्याप्तिनिरासाय प्रकारान्तरेणा-नपेक्षत्वविवक्षायां वाक्यसमाख्ययोरतिव्याप्तिः प्राप्नोतीत्याह ।। यदिचेति ।। पदश्रुतौ समभिव्याहृतप्रकृतिसापेक्षत्वमेव । न तु तदन्यसापेक्षत्वं वा पदान्तरसापेक्षत्वं वेति भावः ।
अव्याप्त्यतिव्याप्त्योर्निरासाय प्रकारान्तरेणानपेक्षत्वमाशङ्क्या सम्भवित्व-रूपलक्षणदूषणेन निराह ।। न चेति ।। लिङ्गप्रकरणादेः स्वेतरश्रुत्यादि-रूपप्रमाणसापेक्षत्वं यथा तथा प्रमाणान्तरापेक्षाराहित्यं श्रुतित्वमिति नेत्यर्थः ।
।। तत्प्रयोजकस्येति ।। शक्तिग्रहव्याप्तिग्रहानपेक्षत्वे प्रत्यक्षत्वं यथा प्रयोजकं तथा स्वेतरप्रमाणानपेक्षतायां प्रयोजकीभूतं श्रुतित्वं किञ्चिदन्यदेव निर्वाच्यम् । तादृशधर्मस्य च पूर्वोक्तदिशा कस्याप्यभावे स्वेतरप्रमाणान-पेक्षत्वस्यैवायोगादसम्भवीदं लक्षणमिति भावः ।
अस्तु वैतल्लक्षणं सम्भवि तथाप्यतिव्याप्तिरित्याह ।। लिङादेरिति ।। सर्वश्रुतेरभिधायकत्वे लिङादिश्रुत्यार्थभेदप्रतीत्याप्रवृत्त्यादिकार्यभेदो न स्यादित्यत आह ।। परन्त्विति ।। विधिमिति ।। इष्टसाधनत्वमित्यर्थः ।
तर्कताण्डवम्
सामर्थ्यरूपलिङ्गमपि न स्वरूपेण शेषत्वे मानम् । किं तु वक्ष्यमाणरीत्याऽनुपपद्यमानतयेति तत्राप्यस्मदुक्तं व्याप्यत्वरूपं लिङ्गत्वमस्त्येव । प्रत्युत परोक्तलक्षणमेव अशक्तिरूपेषु धूमादिषु लौकिकलिङ्गेषु तथा जैमिनिनापि ‘‘लिङ्गदर्शनाच्चे’’ इत्यादिबहुसूत्रैः शबरस्वामिना च ‘‘लिङ्गं च दृश्यते चतुर्दशपौर्णमास्यामाहुतयो हूयन्त’’ इत्यादि बहुभाष्यैर्लिङ्गतया व्यवह्रतेषु तत्तदर्थज्ञापकेषु वैदिकलिङ्गेषु चाव्याप्तम् ।।
न्यायदीपः
एवं परोक्तश्रुतिप्रमाणं निरस्य लिङ्गरूपं प्रमाणमप्यनुमानप्रमाणत्वेन सङ्गृहीतमित्याह ।। सामर्थ्येति ।। वक्ष्यमाणेति ।। उत्तरभङ्गे ।। अस्मदुक्तमिति ।। लिङ्गं तल्लक्षणमिति स्मृतावुक्तमित्यर्थः । असाधारण-धर्मत्वरूपलिङ्गत्वभ्रान्तिनिरासायोक्तं ।। व्याप्यत्वरूपमिति ।।
अस्तु भवदुक्तेन परोक्तस्य सङ्ग्रहस्तावता सामर्थ्यरूपत्वं लिङ्गत्वमिति परोक्तं किं युक्तमित्यत आह ।। प्रत्युतेति ।। यद्वा भवदुक्तं यदि तत्रास्ति तर्हि तदेव लिङ्गत्वमुच्यताम् । किं व्याप्यत्वरूपत्वोक्त्येत्यत आह ।। प्रत्युतेति ।। अशक्तीति ।। सामर्थ्यरूपत्वरहितेष्वित्यर्थः ।
ननु– वैदिकलिङ्गस्यैवेदं लक्षणम् । न लौकिकलिङ्गस्य । अतस्तत्रा-व्याप्तिर्न दोषायेत्यत आह ।। तथेत्यादि ।। इत्यादिबहुसूत्रैरिति ।। ‘‘पौर्णमास्यां रूपावचनाद्’’ इति द्वितीयाध्यायद्वितीयपादीयतृतीयाधिकरणे ‘‘लिङ्गर्शनाच्चेत्येकं’’ गुणसूत्रम् । तथा तत्रैवाध्याये ‘‘अयनेषु चोदनान्तरं सञ्ज्ञोपबन्धाद्’’ इति तृतीयपादीयचतुर्थाधिकरणे च ‘‘लिङ्गदर्शनाच्च’’ इति पञ्चमं गुणसूत्रम्, तथा तत्रैव ‘‘संस्काराद्वा प्रकरणेकर्मशब्दत्वाद्’’ इति तदुत्तराधिकरणेपि ‘‘लिङ्गदर्शनाच्च’’ इति गुणसूत्रम्, ‘‘तत्सिद्धिजाति-सारूप्यप्रशंसाभूमलिङ्गसमवाया’’ इति सूत्रम्, एवं तत्रतत्र लिङ्गपदोपेत-सूत्रमस्तीत्यादिबहुसूत्रैरित्युक्तम् । पौर्णमास्यधिकरणस्थ ‘‘लिङ्गदर्शनाच्च’’ इति गुणसूत्रभाष्यवाक्यमनुवदति ।। लिङ्गं चेत्यादिना ।।
अयमर्थः । ‘‘य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजत’’ इति वाक्यद्वयं प्रकृताग्नेयादिषड्यागानां त्रिशस्त्रिश एकीकृत्त्यानु-वादकमुत कर्मान्तरविधायकमिति संशये कर्मान्तरविधायकमिति प्राप्ते द्रव्य-देवताख्ययागरूपाभावेनापूर्वकर्मविध्ययोगादाग्नेयादिषड्यागानुवादकमित्युक्तेर्थे हेत्वन्तरं लिङ्गदर्शनाच्चेति । यदीदं कर्मान्तरविधायकं तर्हि पञ्चदशत्वापत्त्या चतुर्दशपौर्णमास्यामाहुतयस्त्रयोदशामावास्यायामित्यस्यभङ्गः स्यात् । अतश्चतुर्दशत्वादिसङ्ख्यारूपज्ञापकदर्शनान्न कर्मान्तरविधिरिति । आदिपदेन लिङ्गमप्येतमर्थं दर्शयति । ‘‘त्रिंशद्वर्षाणि दर्शपौर्णमासाभ्यां यजेत’’ इत्यादि-दाक्षायण्यधिकरणस्थगुणसूत्रभाष्यं गृह्यते ।
तर्कताण्डवम्
किञ्च सामर्थ्यस्य लिङ्गत्वे ऐन्द्र्यादौ तस्य वाक्येन बाधो न स्यात् । स्पष्टयिष्यते चैतत् । परोक्तं वाक्यलक्षणमप्यस्मदुक्ते-नाकाङ्क्षादिमत्त्वेन विशेषणीयम् ।
नहि परस्परमाकाङ्क्षादिरहितः कुण्डमजाजिनमित्यादिपदसङ्घातोपि वाक्यम् । परोक्तं प्रकरणलक्षणमप्ययुक्तम् । साकाङ्क्षवाक्यसन्दर्भ इवाकाङ्क्षायां प्रकरणशब्दाप्रयोगात् । वैकृतभावनाया वा वैकृतापूर्वस्य वेतिकर्तव्यताकाङ्क्षावशाद्यः प्राकृताङ्गान्वयस्तस्यापि प्राकरणिकत्वा-पाताच्च ।
ननूभयाकाङ्क्षा १प्रकरणम् । तत्र च वैकृतभावनैव साकाङ्क्षा । न तु प्राकृताङ्गानि । तेषां प्राकृतभावनया निराकाङ्क्षत्वादिति चेन्न ।
वैकृतभावनायाः स्वप्रकरणस्थाङ्गान्वयस्याप्यप्रामाणिकत्वा-पातात् । तस्याः कप्तोपाकारैः प्रथमान्वितैः प्राकृतैरङ्गैर्निराकाङ्क्षत्वात् । उक्तं हि वार्तिके–
‘‘कप्तोपकारसापेक्षाः प्रथमं प्राकृतैः सह ।
सम्बध्यन्ते समीपस्थं विकाराः प्रोज्झ्यचोदितम्’’ इति ।
न्यायदीपः
ननु– तत्र सर्वत्र लिङ्गशब्दस्य ज्ञापकार्थत्वेपीह शेषशेषिभावे प्रमाणभूतं लिङ्गं सामर्थ्यरूपमेवास्तु दोषाभावादितिवादिनं प्रत्याह ।। किञ्चेति ।। ऐन्द्र्यादौ ।। इन्द्रादिप्रतिपादकमन्त्रे ।। स्पष्टयिष्यत इति ।। उत्तरभङ्ग इति भावः ।
एवं श्रुतिलिङ्गरूपप्रमाणद्वयं निरस्य वाक्यप्रमाणमपि किञ्चि-द्विशेषणवैशिष्ट्ये सति सम्मतमेवेत्याह ।। परोक्तमिति ।। अस्मदुक्तेनेति ।। एतत्परिच्छेदादावुक्तेत्यर्थः । कुतो विशेषणीयमित्यत आह ।। न हीति ।। कुण्डमजाजिनं दशदाडिमानि षडपूपा इत्यादिपदसङ्घात इत्यर्थः ।
‘‘इति कर्तव्यताकाङ्क्षा प्रक्रिया द्विविधा च स’’ इत्युक्तं निराह ।। परोक्तमिति ।। साकाङ्क्षेति ।। परस्पराकाङ्क्षायुक्तवाक्यसन्दर्भ इत्यर्थः । १तथास्मन्मत इव साकाङ्क्षवाक्यसन्दर्भ एव प्रकरणं वाच्यमिति भावः ।
प्रयोगे विप्रतिपन्नं प्रत्यतिव्याप्तिरूपदोषान्तरमाह ।। वैकृतेति ।। सौर्यं चरुं निर्वपेदित्यादिविकृतियागसम्बन्धिन्या भावनाया इति भट्टमतेनोक्तम् । तन्मते प्रयत्न पर्यायभावनाया एव लिङाद्याख्यातार्थत्वात् । प्राभाकरमते चापूर्वस्यैव लिङाद्यर्थत्वादाह ।। वैकृतापूर्वस्य वेति ।। आकाङ्क्षेति ।। कथं भावयेदिति वा कथमपूर्वं कार्यमिति वा जायमानाकाङ्क्षावशादित्यर्थः ।
।। प्राकृतेति ।। ‘‘यदाग्नेयोष्टाकपालोमावास्यायां पौर्णमास्यां वाच्युतो भवत’’ इत्यादिवाक्योक्ताग्नेयादिप्रकृतियागसम्बन्ध्यवघाताद्यङ्गान्वयः प्रकृतिवद्विकृतिः कार्येति चोदकवाक्यलब्धोन्वयः । सोपि प्राकरणिकः स्यात् । न चेष्टापत्तिः । सप्तमाष्टमयोस्तस्यातिदेशिकत्वाङ्गीकारादिति भावः । नष्टाश्व-दग्धरथवदेव परस्परनियमः सिद्ध इत्यादिप्रकरणाधिकरणवार्तिकाद्यनुरोधेन अतिव्याप्त्युद्धारमाशङ्क्याव्याप्तिदोषेण निराह ।। नन्वित्यादिना ।। अप्रामाणिकत्वापातादिति ।। विकृतियागभावनाप्रकरणप्रमाणकत्वं न स्यादित्यर्थः ।
कुत इत्यतो वैकृतभावनाया निराकाङ्क्षत्वात्तत्सन्निधावाम्नातकतिपयाङ्गस्य प्रकृतावभावेन २कप्तोपकारकतया भावनान्वयोपयुक्ता३काङ्क्षावत्त्वेनान्यतरा-काङ्क्षयैव वैकृताङ्गानां वैकृतभावनयान्वयेन त्वदुक्तोभयाकाङ्क्षाकृतान्वया-भावादिति भावेनाह ।। तस्या इति ।। कप्तेति ।। कप्तोपकाराणि प्राकृता-ङ्गानि वैकृतानि तु न क्वाप्यन्यत्रान्वितानीत्यकप्तोपकरणानि । तथा च विकाराः विकृतियागसम्बन्धि१भावनाकप्तोपकारैः प्राकृताङ्गैराकाङ्क्षासहिताः सत्यः समीपस्थं चोदितं विहितमप्यङ्गं प्रोज्झ्यत्यक्त्वा प्राकृतैरेवाङ्गैः सह प्रथमं सम्बध्यन्त इत्यर्थः ।
तर्कताण्डवम्
यदि च– वैकृतभावनायाः प्राकरणिकाङ्गरूपाकाङ्क्षणीयान्तरं दृष्ट्वेतिकर्तव्यताकाङ्क्षोत्थाप्यते तर्हि प्राकृताङ्गानामपि चोदनापादित-वैकृतभावनाकाङ्क्षणीयान्तरं दृष्ट्वा प्रयोजनाकाङ्क्षोत्थाप्यताम् । अस्मत्पक्षे तु प्राकृताङ्गवाक्यानां वैकृतप्रधानवाक्यस्य चैकसन्दर्भत्वा-भावान्न विकृतौ प्राकृताङ्गान्वयस्य प्राकरणिकत्वापातः ।।
न्यायदीपः
ननु– विकाराणां वैकृताङ्गे स्वारसिकाकाङ्क्षाभावेप्युत्थापिताकाङ्क्षा रक्तपटादिस्थ इव सेत्स्यति । तथाचैकस्य स्वरसाकाङ्क्षाऽपरस्य तूत्थापिते-त्यन्योन्याकाङ्क्षाद्वयोरप्यस्तीति न वैकृताङ्गानामप्राकरणिकत्वापत्तिरिति शङ्कामनूद्य प्रतिबन्द्या प्रागुक्तातिव्याप्तिदोषेणैव निराह ।। यदि चेत्यादिना ।।
प्राकृताङ्गानामपि प्रयोजनाकाङ्क्षोत्थाप्यतामित्यन्वयः । तत्र बीजं चोदनेति । प्रकृतिवद्विकृतिः कार्येत्यतिदेशरूपचोदकवाक्यापादितं विहितस्यैवाङ्गाकाङ्क्षोदयाद्वैकृतविध्यापादितमिति वा यद्वैकृतभावनाया आकाङ्क्षणीयान्तरमवघातादि तद्दृष्ट्येत्यर्थः ।
वैकृतभावना प्राकृताङ्गान्यपेक्षत इति प्राकृताङ्गानां प्राकृतभावनायां कप्तोपकारतया वैकृतभावनया स्वरसाकाङ्क्षाभावेप्युत्थापिताकाङ्क्षा कल्प्यताम् । तथा च तत्राप्युभयाकाङ्क्षावशादेवान्वय इत्यतिदेशकाङ्गानामपि प्राकरणि-कत्वापात इति प्रागुक्तदोष एव स्थिर इति भावः । साकाङ्क्षवाक्यसन्दर्भः प्रकरणमिति पक्षेप्येषदोषः सम इत्यत आह ।। अस्मदिति ।।
तर्कताण्डवम्
यथा च– पदार्थयोरन्योन्यान्वये आकाङ्ादिमत्पदसङ्घातरूपं वाक्यं प्रमाणम्, नाकाङ्क्षामात्रम् । तथा प्रकरणाधिकरणव्युत्पादिते वाक्यार्थ-योः १प्रकरणतदुपकारकयोरन्योन्यान्वयेप्याकाङ्क्षादिमद्वाक्यसङ्घात-रूपमस्मदुक्तं प्रकरणमेव प्रमाणम् । नत्वाकाङ्क्षामात्रम् । तस्य योग्यतादिवदन्वयबोधकशब्दविशेषणमात्रत्वेन स्वयमन्वया-बोधकत्वात् ।
न्यायदीपः
नन्वेवं कथं तर्हि ‘‘असंयुक्तं प्रकरणादितिकर्तव्यतार्थत्वाद्’’ इतितार्तीयप्रकरणाधिकरणे दर्शपूर्णमासयोः प्रयाजादेश्चाकाङ्क्षारूपप्रकरणे नाङ्गाङ्गिभावकथनमित्यतो नैवं तदधिकरणार्थः किन्त्वस्मदुक्तप्रकरणे-नैवाङ्गाङ्गीभावनिर्णय इति सदृष्टान्तमुपपादयति ।। यथा चेति ।। गामान-येत्यादौ गोरूपानयनरूपपदार्थयोरित्यर्थः ।
।। वाक्यार्थयोरिति ।। यदाग्नेयादिवाक्यार्थसमिधादिवाक्यार्थयोरित्यर्थः ।। करणेति ।। दर्शादिरूपकरणसमिद्यागादिरूपतदुपकारकयोरित्यर्थः । कुतो नेत्यत आह ।। तस्येति ।। आकाङ्क्षामात्रस्येत्यर्थः ।। योग्यतावत् ।। योग्यतासत्तिवत् ।
तर्कताण्डवम्
एवं प्रकरणान्तराधिकरणव्युत्पादिते भिन्नवाक्यसन्दर्भप्रतिपाद्ययो-र्नित्याग्निहोत्रमासाग्निहोत्रयोर्भेदेप्यस्मदुक्तप्रकरणस्य भेद एव प्रमाणम् । नतु परोक्तप्रकरणस्य । आकाङ्क्षितृप्रधानकर्मभेदात्पूर्वमितिकर्तव्य-ताकाङ्क्षाभेदस्य असिद्धेः ।
न्यायदीपः
नन्वेवमपि द्वितीये ‘‘प्रकरणान्तरे प्रयोजनान्यत्वम्’’ इति तृतीया-पादीयैकादशाधिकरणे ‘‘कुण्डपायिनामयने उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति’’ इति सत्रस्थमासाग्निहोत्रस्य ‘‘यावज्जीवमग्निहोत्रं जुहोति’’ इति वाक्योक्तनित्याग्निहोत्रादन्यत्वं मीमांसकाभिमतेतिकर्तव्यताकाङ्क्षाभेदरूप-प्रकरणभेदादेवोपपाद्यते तत्कथमुपपाद्यतामित्यतोस्मत्पक्ष एवोपपद्यते न परमत इत्याह ।। एवमिति ।।
।। परोक्तप्रकरणस्येति ।। भेद इत्यनुषङ्गः । तत्र हेतुराकाङ्क्षित्रिति । इतिकर्तव्यतामपेक्षमाणानि प्रधानकर्माणि । तथा च तादृशप्रधानकर्मणां भेदे सति कर्मभेदनिबन्धन इति कर्तव्यताकाङ्क्षाभेदः कर्मभेदात्प्रागसिद्धः स न कथं कर्मभेदहेतुः स्यात् । अन्यथा कर्मभेदे सिद्धे इतिकर्तव्यताकाङ्क्षाभेदसिद्धिः तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयापत्तेरिति भावः ।
तर्कताण्डवम्
एवं प्रकरणार्थयोरन्योन्यान्वयेप्याकाङ्क्षादिमत्प्रकरणसन्दर्भरूपं स्थानं प्रमाणम् । अत एवावान्तरप्रकरणगतस्यापि प्रयाजादे-र्महाप्रकरणिनादर्शादिना शेषतयान्वयः । अन्यथा स न सिध्येत् । स्थानस्य महाप्रकरणत्वे च प्रकरणमपि महावाक्यं स्यान्न तु वाक्या-त्पृथक् । १दर्शनस्थानस्थस्याप्यभिक्रमणादेर्दर्शानन्वयस्तु प्रयाज-प्रकरणेन दर्शस्थानबाधात् ।
उक्तं च मीमांसकैरपि– यथा वाक्यद्वयानुसन्धानसम्पन्नं पृथक् तथा प्रकरणद्वयानुसन्धानसम्पन्नं स्थानमिति ।।
न्यायदीपः
‘‘स्थानं तु तुल्यदेशत्वं पाठानुष्ठानतो द्विध’’ इति परोक्तस्थानप्रमाणं च निराह ।। एवमिति ।। आकाङ्क्षादिमदिति प्रकरणविशेषणम् । यागप्रकरणं यागस्याङ्गभूतमपेक्षते अङ्गप्रकरणमप्यङ्गस्य शेषिभूतमपेक्षते इत्याकाङ्क्षादि-मत्प्रकरणेत्युक्तम् । तथा च यागप्रकरणाङ्गप्रकरणादिसन्दर्भरूपं स्थानं तादृश-प्रकरणार्थयोरन्योन्यान्वये मानमित्यर्थः ।
तदेवाह ।। अत एवेति ।। उक्तसन्दर्भरूपस्थानस्य प्रकरणद्वयार्थान्वये मानत्वादेव प्रयाजप्रकरणं दर्शपूर्णमासप्रकरणं चान्योन्याकाङ्क्षावदिति तदुभय-सन्दर्भरूपस्थानप्रमाणेन तयोरङ्गाङ्गीभावेनान्वय इत्यर्थः ।
।। अन्यथेति ।। अस्मदुक्तस्थानस्य तत्रामानत्व इत्यर्थः । न च पूर्वोक्तदिशा दर्शादिप्रकरणप्रमाणात् सा सेत्स्यतीति युक्तम् । प्रकरणद्वय-सन्दर्भरूपस्थानस्यात्रार्थेऽमानत्वे द्वयोरपि प्रधानप्रकरणित्वापातेन दर्शादेः प्रयाजादेश्चान्योन्यान्वय एव २स्यात् । प्रकरणप्रमाणस्य तु अवघातादिशेषतो-दाहरणं अवान्तरेत्युक्तिरपि वास्तवाभिप्रायेणेति तात्पर्यात् । स्थानस्य पृथक्त्वाभावशङ्कामनूद्य प्रतिबन्द्या निराह ।। स्थानस्येति ।।
नन्वेवं भवदुक्तस्थानस्यापि प्रमाणत्वे दर्शप्रतिपादकप्रकरणजातरूपस्थाने अभिक्रामं जुहोतीति श्रूयमाणमभिक्रमणमवान्तरप्रकरणेन प्रयाजाङ्गं न स्यात् स्थानप्रमाणेन दर्शाङ्गस्यैव सम्भवादित्यत आह ।। दर्शस्थानस्थस्यापीति ।। बाधादिति ।। प्रकरणापेक्षया स्थानस्य दुर्बलत्वादिति भावः ।
ननु प्रकरणद्वयार्थयोरन्योन्यान्वये तदनुसन्धानरूपं स्थानं मानमित्येतन्न परसम्मतमित्यत आह ।। उक्तं चेति ।। स्थानं पृथक्प्रमाणमित्येतदुक्तं चेत्यर्थः ।। स्थानमितीति ।। पृथगित्यनुकर्षः ।
तर्कताण्डवम्
समानदेशत्वादिकमपि शेषशेषित्वे स्थानतया न प्रमाणम् । स्थानत्वेन त्वदभिप्रेते यथासङ्ख्याम्नानं सन्निध्याम्नानं चेति द्विविध-पाठसादेश्येऽनुष्ठानसादेश्ये चानुगतस्य एकस्य स्थानत्वस्याभावात् । ग्राहकसन्निध्याम्नानरूपप्रकरणस्य समभिव्याहाररूपवाक्यादेश्च सन्निध्याम्नानरूपत्वाच्च ।
किं तु नामधेयत्वे वाक्यभेदतत्प्रख्यतद्व्यपदेशादिवद् द्वैतीये कर्मभेदे अभ्यासादिवत्पाञ्चमिके क्रमे पाठादिवच्च प्रमाणान्तरतया । अस्थानरूपस्यापि तस्य प्रकरणाद्दुर्बलत्वनियमस्त्ववाक्यरूपस्यापि पाञ्चमिकस्य पाठस्य लिङ्गरूपादर्थाद् दौर्बल्यनियमवद्युक्तः ।
न्यायदीपः
नन्वस्त्वेकत्र पठितप्रकरणद्वयानुसन्धानस्य भवदुक्तस्थानत्वेन मानत्वम् । यथासङ्ख्याम्नानपाठसादेश्यानुष्ठानसोदश्यानां तु कथमित्यतो नैतेषां स्थान-प्रमाणत्वम्, किं तु मानान्तरत्वमेवेत्याह ।। समानदेशत्वादिकमिति ।। द्विविधसमानदेशत्वेत्यर्थः । अनुष्ठानसादेश्यमादिपदार्थः । न प्रमाणमित्यस्य किन्त्वित्यादिनान्वयः ।
।। एकस्येति ।। स्थानं तु तुल्यदेशत्वमिति प्रागुक्तं तु नानुगतम् । शब्दसाम्यमात्रस्यातिप्रसङ्गित्वादिति भावः । कथं चिदनुगमेप्यतिव्याप्ति-र्वाक्यप्रकरणयोः स्यादित्याह ।। ग्राहकेति ।। दर्शादिजन्यापूर्वं ग्राहकमुच्यते तत्प्रतिपादकलिङाद्युपेतवाक्यसन्निध्याम्नानरूपेत्यर्थः ।
।। समभिव्याहारेति ।। यजेत स्वर्गकाम इत्यादौ पदद्वयादि-समभिव्याहारस्थले पदानामन्योन्यसान्निध्याम्नानस्य सत्त्वादिति भावः । किन्त्वित्यस्य प्रमाणान्तरतयेत्यन्वयः । तत्र दृष्टान्तत्रयम् नामधेयत्व इत्यादि । आद्यस्य चतुर्थपादे ‘‘अपि वा नामधेयं स्यात्’’ इत्यधिकरणे उद्भिदा यजेतेत्यादौ उद्भिच्छब्दस्योर्ध्वं भिनत्तीति व्युत्पत्त्या खनित्रादिरूप-गुणविधित्वे उद्भिता यागं कुर्यात् यागेन च स्वर्गं भावयेदिति वाक्यभेदप्रसङ्गात् उद्भिच्छब्दो यागनामधेयमित्युक्तम् । तथा तत्रैवाग्निहोत्रं जुहोतीत्यत्र किमग्नये होत्रं हविरस्मिन्निति व्युत्पत्त्योपसर्जनीभूताग्निरूपदेवताख्यगुणविधिः किं वा कर्मनामधेयमग्निहोत्रपदमिति सन्देहे गुणविधिरिति प्राप्ते कर्मण्यग्निदेवता-सम्बन्धप्रख्यापकस्या‘‘ग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोती’’ति-शास्त्रस्य सत्त्वेन तत्प्रख्यापकशास्त्रप्राप्ताग्निसम्बन्धेन निमित्तेनाग्निहोत्रमिति-नामधेयमित्युक्तम् ‘‘तत्प्रख्यं चान्यशास्त्रम्’’ इत्यधिकरणे । तथा तत्रैव ‘‘श्येनेनाभिचरन्यजेत यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्त्यादत्त’’ इति वाक्ये श्येनररूपगुणविधिरुत कर्मनामेति विशये पक्षि-विशेषे रूढत्वाच्छयेनशब्देन गुण एव विधीयत इति प्राप्ते यथा वा इति वाक्यशेषे प्रसिद्धश्येनेन व्यपदेशः कर्मणोस्तीति तद्बलेन श्येन इव श्येन इति श्येनशब्दो यागनामधेयमित्युक्तमिति वाक्यभेदतत्प्रख्यतद्व्यपदेशादिव-दित्युक्तम् । आदिपदेन वा (जि) जपेयनयोक्तविरुद्धत्रिकद्वयापत्तिर्ग्राह्या ।
द्वैतीये द्वितीयाध्यायप्रतिपादिते कर्मभेदे शब्दान्तराभ्याससङ्ख्यागुण-प्रकरणनामधेयानि षट्प््रामाणान्युक्तानि । तत्र यजतिददातिजुहोति चोदना-सुयज्यादिधातुभेदरूपेण शब्दान्तरेण यागदानहोमानां भेदः ‘‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वाद्’’ इति द्वितीयपादीयाद्यनयेऽभिहितः ।
तत्रैव पादे समिधो यजति तनूनपातं यजतीत्यादिविधिषु यजतीति पञ्चकृत्वः श्रवणरूपाभ्यासेन समिधादिप्रयाजादीनां भेदः ‘‘एकस्यैव पुनः श्रुतिविशेषादनर्थकं हि स्याद्’’ इति नयेऽभिहितः ।
‘‘सप्तदशप्राजापत्यान् पशूनालभत’’ इत्यत्र द्रव्यदेवतासबन्धभेदिन्या सप्तदशसङ्ख्ययाद्रव्यदेवतासम्बन्धानुमेययागानां भेदः ‘‘पृथक्त्वनिवेशा-त्सङ्ख्ययाकर्मभेदः स्याद्’’ इतिनये कथितः ।
अथैष ज्योतिरित्यादिवाक्येषु ज्योतिरित्यादिनामधेयेन तन्नामकयागस्य प्रकृतज्योतिष्टोमयागाद्भेदः ‘‘सञ्ज्ञाचोत्पत्तिसंयोगाद्’’ इत्यत्रोक्तः ।
‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षावाजिभ्योवाजिनम्’’ इत्यत्राक्षारूपगुणान्तरावरुद्धे यागे निवेशमलभमानेन वाजिगुणेन वाजियागस्यामिक्षायागाद्भेदः ‘‘गुणश्चापूर्णसंयोग’’ इत्यत्रोक्तः ।
तत्रैव तृतीयपादे नित्याग्निहोत्रान्मासाग्निहोत्रस्य प्रकरणान्तररूपप्रमाणेन ‘‘प्रकरणान्तरे प्रयोजनान्यम्’’ इत्यत्रोक्त इत्यभ्यासादिवदित्युक्तम् । शब्दान्तरापेक्षाया अभ्यासादिर्यथा पृथक्प्रमाणं तथेत्यर्थः ।
पाञ्चमिके पञ्चमाध्यायप्रतिपादिते कर्मणां पौर्वापर्यरूपे क्रमे श्रुत्यर्थ-पाठप्रवृत्तिस्थानमुख्यक्रमभेदात् षट्प््रामाणान्युक्तानि ।
तत्र ‘‘अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति’’ इत्यादौ १श्रुत्यादावुक्त्वा श्रुत्या ग्रहपत्यादीनामुन्नेत्रन्तानां दीक्षाक्रमः ‘‘श्रुतिलक्षण-मानुपूर्व्यन्तत्प्रमाणत्वात्’’ इत्याद्याधिकरणे अभिहितः ।
अग्निहोत्रं जुहोति यवागुं पचतीत्यादौ होमद्रव्यनिष्पत्त्यर्थं २यवागुपाक-प्रयोजनरूपेणार्थेन पाकहोमयोः पौर्वापर्यरूपः क्रमः ‘‘अर्थाच्च’’ इति नये कथितः । समिधोयजतीत्यादिविधिविहितानां प्रयाजादीनां पाठक्रमात्क्रमः ‘‘क्रमेण वा नियम्येतक्रत्वेकत्वे तद्गुणत्वाद्’’ इति नयेऽभिहितः ।
वाजपेये प्राजापत्यानां पशूनां प्रतिपश्वावर्तनीयेषूपाकरणविनियोजनादि-षूपाकरणे यत्किञ्चित् पशुमारभ्य यत्र क्वच समापिते सति तेनैव प्रवृत्तक्रमेण नियोजनादयः कार्या इति ‘‘प्रवृत्या तुल्यकालानां तदुपक्रमाद्’’ इत्यत्रोक्तम् साद्यस्क्रनामके क्रतौ सह पशूनालभते इति श्रुत्या सवनीयस्थान एवाग्नी-षोमीयसवनीयानुबन्ध्याख्यपशुत्रयस्यापि सह कर्तव्यतया प्राप्तौ सवनीयस्थानेन प्रथमं सवनीयपशोरुपाकरणमनन्तरमग्नीषोमीयानुबन्ध्ययोरिति स्थानेन क्रमः ‘‘स्थानाच्चोत्पत्तिसंयोगाद्’’ इत्यत्रोक्तः ।
तथा दर्शे पुरोडाशसान्नाय्ययोर्मुख्यक्रमेण प्रयाजशेषाभिघारणक्रम इति ‘‘मुख्यक्रमे वाङ्गानां तदर्थत्वाद्’’ इत्यत्रोक्तः । अत्र यथा श्रुत्यर्थापेक्षया पाठादेः प्रमाणान्तरता तथेत्यर्थः । व्यक्तमेतत्सर्वं गुरुपादकृतन्यायाध्व-दीपिकायाम् ।
ननु– समानादेशत्वादेः स्थानरूपप्रमाणत्वाभावे ‘‘श्रुतिलिङ्गवाक्य-प्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षाद्’’ इति सूत्रोक्तं स्थानस्य प्रकरणाद्दुर्बलत्वं न स्यात् । तथाच अभिषेचनीयनामक सोमयागसन्निध्याम्नातविदेवनादीनां सन्निध्याम्नानरूपस्थानबाधेन प्रकरणबलेन राजसूयनामकसर्वकर्माङ्गताभङ्गप्रसङ्गादित्यत आह ।। अस्थानेति ।। तस्येति ।। समानदेशत्वादेः ।
।। लिङ्गरूपादर्थादिति ।। पञ्चमे ‘‘क्रमकोपोर्थशब्दाभ्यां श्रुति-विशेषादर्थपरत्वच्च’’ इति चतुर्थपादीयाद्यनये तथोक्तेः । अन्यथा पाठक्रस्यै-वानुरोधे होमानन्तरमेव यवागूपाकापत्तेरिति भावः ।
तर्कताण्डवम्
उक्तं हि– ‘‘श्रुत्यर्थपाठस्थानमुख्याप्रवृत्तीनां समवाये परदौर्बल्य’’मिति ।
अस्मदुक्ता समाख्यापि परेषामपि तावत्प्रमाणमेव । अन्यथा
‘‘मैत्रायणीयशाखायां दात्रुपक्रमतोप्यृते ।
कर्माङ्गत्ववशादेव दातुरिष्टिः प्रतीयते’’ ।
इत्यादौ मैत्रायणीयशाखास्थनिर्णीतवाक्यान्तरेण सन्दिग्ध-तैत्तिरीयशाखास्थाश्वप्रतिग्रहेष्ट्यादिवाक्यार्थनिर्णयोक्त्ययोगात् ।
नापीयं लिङ्गाद्यन्तर्गतेति पृथगेव । परोक्तयौगिकशब्दे तु समा चासावाख्येत्यवयवार्थोऽस्मदुक्तसमाख्यायामिव नानुगतः ।।
किञ्चेयं श्रुतिरेव । अन्यथा ‘‘यदाग्नेयोऽष्टाकपालः वैश्वदेव्यामिक्ष’’ इत्यादौ यौगिकानामाग्नेयादिशब्दानामग्न्यादेर्देवतात्वे श्रुतित्वं न स्यात् । समाख्यात्वमेव च स्यात् । समाख्या च सर्वजघन्येति चतुर्थीश्रुतितो मन्त्रवर्णाच्च दुर्बला स्यात् । तच्च–
‘‘तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः ।
देवतासङ्गतिस्तत्र दुर्बलं तु परम्परम्’’ ।
।। इति वार्तिकविरुद्धम् ।।
न्यायदीपः
।। उक्तं हीति ।। अर्थादिना पाठादेर्बाध इत्येतन्न्यायरत्नमालायामुक्त-मित्यर्थः । एवं परोक्तं स्थानप्रमाणं निरस्य ‘‘समाख्या यैगिकी सञ्ज्ञालौकिकी वैदिकी च स’’ इत्युक्तसमाख्यां च निरसितुं स्वोक्तसमाख्या परसम्मतेति तावदाह ।। अस्मदिति ।। अन्यत्र तत्समोक्तिस्तु समाख्येत्यस्मदुक्तेत्यर्थः
।। मैत्रायणीयेति ।। व्याख्यातमेतत्पूर्वभङ्गे ।। नापीयमिति ।। इयमस्मदुक्ता समाख्या लिङ्गवाक्याद्यन्तर्गतापि न भवतीति पृथगेव प्रमाणमित्यर्थः ।
समाख्याशब्दावयवार्थपर्यालोचनयाप्यस्मदुक्ता समाख्यैव समाख्या-शब्दार्थत्वेनायाति न तु परोक्ता समाख्येत्याह ।। परोक्तयौगिकशब्दे त्विति ।। होतृचमसं आध्वर्यवमित्यादिशब्देष्वित्यर्थः ।
सम्यगाख्येत्यस्तु व्युत्पत्तिरिति वदन्तं प्रत्याह ।। किञ्चेति ।। इयं परोक्तयौगिकसञ्ज्ञारूपसमाख्येत्यर्थः । अस्तु को दोष इत्यत आह ।। समाख्या चेति ।। सर्वेति ।। श्रुत्यादिसर्वप्रमाणापेक्षया दुर्बलेत्यर्थः ।
अस्तु दुर्बलेत्यत आह ।। तच्चेति ।। दौर्बल्यमित्यर्थः । तत्रेति श्रवणाद१त्रेति योज्यम् । आग्नेयोष्टाकपाल इत्यादौ तद्धितेनाग्नेर्ढगिति देवतायां ढक्स्मरणात् । ‘‘विष्णवे शिपिविष्टाय श्रिते चरुं निर्वपेद्’’ इत्यादौ चतुर्थ्या अग्निर्ज्योतिरग्निःस्वाहेत्यादिमन्त्रवर्णेनाग्निहोत्रादौ देवतासङ्गतिरित्यर्थः ।। परं परम् ।। पश्चात्तनम्पश्चात्तनमित्यर्थः ।
तर्कताण्डवम्
नन्वाध्वर्यवमित्यत्र प्रातिपदिकेनाध्वर्युस्वरूपमुक्तम् । प्रत्ययेन त्ववघातादिः । तयोः सम्बन्धस्तु न कस्यचिद्वाच्यः । स तु वाक्ये पदार्थानां सम्बन्ध इव समभिव्याहारगम्यः । यौगिकशब्दानां सम्बन्धानभिधायित्वात् । यथोक्तम्–
‘‘पाकं तु पचिरेवाह कर्तारं प्रत्ययोप्यकः ।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित्’’
इति । आग्नेय इत्यादौ तु देवतार्थ एव तद्धितविधिरिति चेन्न । तद्धितेन देवतामात्रोक्तावप्यग्निदेवतेत्यस्य समभिव्याहारगम्यत्वात् । आध्वर्यवमित्यत्राप्यध्वर्योरिदमिति सम्बन्धार्थ एव तद्धितविधेश्च ।
किञ्च यजेतेत्यत्र यागभावनयोः सम्बन्ध इव आध्वर्यवमित्यत्रापि सम्बन्धे प्रकृतिप्रत्ययसमभिव्याहाररूपपदश्रुतेः प्रमाणत्वान्न स्थाना-द्दुर्बलत्वम् ।।
न्यायदीपः
आग्नेयमित्यादौ श्रुतित्वमेव वाच्यम् न समाख्यात्वं तस्याः सम्बन्धा-बोधकत्वादिह च देवतासम्बन्धस्य शब्दतः प्रतीतेरिति शङ्कते ।। नन्विति ।। कुत एवमित्यत आह ।। यौगिकशब्दानामिति ।।
पाचकशब्दाभिप्रायेणाह ।। पाकं त्वित्यादि ।। अक इति ।। ण्वुल्तृ-चाविति सूत्रे कर्तरि विहितण्वुल्प््रात्ययस्य युवोरनाकावित्याकादेशे सति प्रत्ययस्थाने प्राप्तस्य प्रत्ययत्वात्प्रत्ययरूपोक इत्युक्तम् । यद्वा प्रत्ययः– प्रत्ययादेश इत्यर्थः ।। देवतार्थ इति ।। ‘‘सास्यदेवत’’ इत्यधिकृत्य ‘‘अग्नेर्ढक्’’ इत्यादि तद्धितनामकप्रत्ययविधानादिति भावः ।
आग्नेयमित्यादावपि समाख्यास्थतौल्यमाह ।। तद्धितेनेति ।। समाख्यायामपि श्रुतितौल्यमाह ।। आध्वर्यवमित्यत्रापीति ।। तद्धितेति ।। तस्येदमित्यण्यप्रत्ययरूपतद्धितविधानादिति भावः ।
समाख्यायाः समभिव्याहारत्वेन मानत्वे बाधकान्तरं चाह ।। किञ्च यजेतेत्यत्रेति ।। दुर्बलत्वमिति ।। समाख्याया इति योज्यम् । तथाच पौरोडाशिकसमाख्यायुक्ते दर्शपूर्णमासकण्डे सान्नाय्यपात्रशुन्धनक्रमे समाम्नातस्य शुन्धध्वमिति मन्त्रस्य समाख्याप्राप्तं पुरोडाशपात्राङ्गत्वं बाधित्वा स्थान-प्रमाणेन सान्नाय्यपात्राङ्गत्वं क्रमसमाख्याविरोधाधिकरणे यद्वर्णितं तद्विरुध्येतेति भावः ।
तर्कताण्डवम्
यदि चाध्वर्यवादिशब्दैः सम्बन्धसामान्यस्यैवोक्तेर्न शेष शेषितायां श्रुतित्वम्, तर्हि सम्बन्ध वाचिन्याः षष्ठ्या दध्नेन्द्रियकामस्येत्यत्र शेषत्वे यजमानस्ययाज्येत्यत्र शेषित्वे च श्रुतित्वं न स्यात् । तथा
‘‘सम्बन्धमात्रमुक्तं तु श्रुत्या धात्वर्थभावयोः ।
तदेकांशनिवेशे तु व्यापारोस्याविरोधतः’’ ।
इति वार्तिकोक्तेर्यजेतेतिपदश्रुतेर्यागभावनयोः शेषशेषित्वे च श्रुतित्वं न स्यात् । तच्चेष्यते । अथयोग्यतावशेन षष्ठ्यादिरेव शेषशेषित्वे पर्यवस्यातीति श्रुतित्वं तर्हीहापि तथास्तु । शुन्धत्वं दैव्याय कर्मण इति शोधनमन्त्रे पौरोडाशिकमिति यौगिकसञ्ज्ञा तु लौकिकत्वाद्वैदिकेन सान्नाय्यपात्रसन्निधानेन बाधिता । वैदिक्यास्तु न सन्निधानमात्रेण बाधः ।
अत एवोक्तं नयविवेके–
‘‘समाख्या पौरुषेयी सन्निध्यादिकं कल्पयन्ती विप्रकृष्ट’’
इति । वैदिकाविरोधिलौकिक्यपि प्रमाणमेवेति न समाख्या धिकरणविरोधः ।
तस्मान्न मीमांसकोक्तं श्रुत्यादिलक्षणं युक्तम् । किं तु टीकोक्तमेव ।
।। परोक्तश्रुत्यादिलक्षणभङ्ग ।। ८० ।।
न्यायदीपः
सम्बन्धमात्रे श्रुतित्वेपि न शेषत्वादिबोधरूपविनियोग इति शङ्कामनूद्य निराह ।। यदि चेति ।। षष्ठ्या इत्यादि ।। एतच्च श्रुतिप्रभेदोक्तिप्रस्ताव एवास्माभिर्विवृतम् । तथाच तद्व्युत्पादकसन्निपात इत्याद्यधिकरणविरोध इति भावः । तथेत्यस्य यजेतेति पदश्रुतेः श्रुतित्वं न स्यादित्यन्वयः ।। श्रुत्येति ।। प्रकृतिप्रत्ययसमभिव्याहाररूपदश्रुत्येत्यर्थः ।
।। भावयोः ।। भावनयोरित्यर्थः ।। तदेकांशेति ।। क्रियाकरणत्व-रूपैकांशनिवेशे तु अस्याः श्रुतेरित्यर्थः । श्रुतित्वं न स्यादित्यत्र तर्हीत्या-पादकानुकर्षः । परमुखेनैव समाधानं वाचयित्वा समं ममापीत्याह ।। अथेति ।। इहापीति ।। आध्वर्यवमित्यादिसमाख्यास्थेपीत्यर्थः ।
नन्विहापि तथास्त्वित्ययुक्तम् । तथात्वे समाख्यायाः श्रुतिरूपतापत्त्या समाख्याबाधेन स्थानप्रमाणबलात्सान्नाय्यपात्राङ्गत्वं शुन्धनमन्त्रस्य न स्यात् किन्तु पुरोडाशपात्राङ्गतैव स्यादित्यत आह ।। शुन्धध्वमिति ।। लौकिकत्वादिति ।। अध्यापकसङ्केतरूपत्वादिति भावः । तर्हि समाख्या-मात्रबाधः स्यादित्यत आह ।। वेदिक्यास्त्विति ।। वेदोक्तायास्त्वित्यर्थः ।
नन्वेवं ‘‘आख्या चैवं तदर्थत्वाद्’’ इत्यधिकरणविरोधः । तत्रा-ध्वर्यवादिलौकिकसञ्ज्ञाया मानत्वोक्तेरित्यत आह ।। वैदिकेति ।।
।। परोक्तश्रुत्यादिलक्षणभङ्गः ।। ८० ।।