ननु कथमेतत् अनित्यप्रमा ..

उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः

ननु कथमेतत् अनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वात् । अप्रमावत् । अन्यथाऽप्रमापिप्रमा स्यात् । यदि दोषप्रतिबन्धान्नप्रमा तर्हि ज्ञानमपि न स्यादित्यनुकूलतर्क-सनाथानुमानविरोधात् । स्वतस्त्वे च मानाभावादिति चेन्न ।प्रमाया ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुतया तदतिरिक्तजन्यत्वसाधने बाधात् । विरोधाच्च ।

नापि ज्ञानत्वप्रयोजकहेत्वतिरिक्तहेतुजन्येति साध्यम् ।प्रत्यक्ष-त्वादिप्रयोजकानामिन्द्रियादीनां चाक्षुषत्वादिप्रयोजकानां चक्षुरादीनां च ज्ञानत्वप्रयोजकातिरिक्तत्वेन यथायथं तैस्सिद्धसाधनात् ।

युक्तिरत्नाकरः

उक्तमुत्पत्तौ प्रामाण्यस्वतस्त्वमसहमानः प्रत्यवस्थितो ।। नन्विति ।। अनित्येति ।। ईश्वरप्रमामादायांशतो बाधवारणायेदम् । अनित्यज्ञानमित्युक्ते ज्ञाने ज्ञानत्वहेत्वन्यहेतुजन्यत्वाभावसाधने बाधात् प्रमापदम् । तद्विशेषत्वात् ज्ञानविशेषत्वात् । एतच्च ज्ञानसामान्ये व्यवसाये बाधवारणाय । ईश्वरज्ञाने तद्वारणाय कार्यत्वे सतीति । यद्यपि परैर्जन्यज्ञानत्वादित्येवहेतूकृतं तथापि जन्यज्ञानत्वज्ञानसामान्यसामग्रीजन्यत्वेनाप्युपपत्त्या तद्विशेषज्ञानसामग्री-जन्यत्वे अप्रयोजकतया ज्ञानविशेषत्वस्य च विशेषसामग्रीजन्यत्वप्रयोज-कत्वेनैवमुक्तम् । एवमप्रयोजकतावारणाय ।। तद्विशेषत्वादिति ।। यन्निष्टयन्निरूपितेत्यादिवत्परैरप्यप्रयोजकत्वाहितव्यभिचारवारकस्यापि सार्थक्यस्य वक्तव्यत्वादिति ज्ञापनाय तत्वनिर्णयटीकायामेवमनूदितमभिप्रेत्य तदेवेह लिखितं बोध्यम् । अन्यथा ज्ञानमात्रजन्यत्वे यथा ज्ञानसामान्य-सामग्य्रामधिकदोषानुप्रवेशाज्जायमानाप्रमाज्ञानविशेषतस्तथा प्रमाविशेषोऽपि स्यात् । ज्ञानसामग्य्रा एव प्रमासामग्रीत्वम् । नापि तस्यामधिकदोषानु-प्रवेशात्प्रमाविशेषस्याप्यवकाशत्वादिति भावः ।

ननु ज्ञानसामान्यज्ञानसामग्य्रा एव प्रमासामग्रीत्वेऽपि प्रतिबन्धकता दोषसत्वान्न तत्र प्रमात्वं प्रयोजयति किन्तु तद्विपरीतप्रमात्वमेव दोषाणां प्रकृतकार्यप्रतिबन्धेन विपरीतकार्यजनकत्वदर्शनादित्याङ्क्य तद्वदेव ज्ञानत्वमपि न स्यात् । तत्सामग्यामपि प्रतिबन्धकदोषप्रवेशादित्याह ।। यदीति ।। मानाभावाच्चेति चकारसम्बन्धः ।। प्रमाया इति ।।

अत्राहुः ज्ञानहेत्वतिरिक्तहेतुजन्येऽपि साध्ये सर्वं वाक्यं सावधारणमिति न्यायेन ज्ञानहेत्वन्येनैव हेतुना जन्या न तु ज्ञानहेतुनेति । ज्ञानहेत्वजन्यत्वं विवक्षितं उत यथाश्रुतमेव । नाद्य इत्याह ।। प्रमायामिति ।। नान्त्य इत्याह ।। विरोधाच्चेति ।। लोके सर्वस्यापि ज्ञानहेतुतया तदतिरिक्तस्यैवा-प्रसिद्ध्या तद्घटितभावरूपसाध्याप्रसिद्ध्यौ व्यतिरेकव्याप्तेरपि दुर्ग्रहतया पक्षे साध्यसिद्धिविरोधादित्यर्थः । विकल्पद्वये दूषणद्वयाभिधानेप्येकस्मिन्नेवोक्त-साध्ये दूषणद्वयाभिधानेन चकारोपपत्तिः । नचातीन्द्रियाणां साक्षात्कारा-विषयतयानुमित्यादौ विषयस्य हेतुतया ज्ञानजनकत्वस्य तत्रैव प्रसिद्धिरिति वाच्यम् । वेद्येपि वायावनुद्भूतरूपाभावस्य परमाणौ महत्वाभावस्य मनसि महत्वसमानाधिकरणोद्भूतरूपाभावस्य च प्रतियोगिसत्वप्रसंजितोप-लम्भप्रतियोगित्वरूपानुपलब्ध्ययोग्यत्वसत्वेन प्रत्यक्षतया तत्र च संयुक्तविशेषणतादिप्रत्यासत्तिघटकतया वाय्वादेरपि हेतुत्वात् । पारिमाण्डिल्यगुरुत्वपरमाणुकर्मविशेषादिष्वपि महत्वसमानाधिकरणोद्भूतरूपा-भावादेः योग्यानुपलब्ध्या प्रत्यक्षत्वनियमेन तत्र संयुक्तसमवेतविशेषणतादि-घटकप्रत्यासत्तिघटकत्वेन तेषामपि जनकत्वसामान्यप्रत्यासत्त्या भूयोऽपि सर्वस्य ज्ञानजनकत्वसम्भवाच्च । न चैवमपि गिरिदरीविवरादिवृत्युत्पन्न-विनष्टव्यक्तिविशेषे ज्ञानजनकत्वप्रसिद्धिः तद्धटितमानतादृशायां प्रमेयत्वादि-सामान्यप्रत्याकस्मिकस्यापि ज्ञानं न वृत्तमित्यत्र मानाभावेन ज्ञानजनकत्वस्य सन्दिग्धतया तद्घटितसाध्याप्रसिद्धेः वज्रलेपत्वादिति ।

तन्न । गिरिदरीविवरादिवर्त्युत्पन्नविनष्टव्यतिरिक्तविशेषादीनां परः सहस्राणां ज्ञानाजनकत्वात् । न हि तद्वर्तमानदृशायां प्रमेयत्वादिप्रत्यासत्या कस्यचित् ज्ञानं वृत्तमित्येतावता व्यवहितदेशे स्थितानां तेषामपि हेतुत्वम् । व्यवहितकालस्थितानामतीतानागतानामपि तथात्वापत्तेः । न हि देशतः कालतो वावधाने कश्चिद्विशेषः । प्रमेयत्वस्य तु प्रत्यासत्तित्वं लौकिकेन्द्रिय-सन्निकर्षवतः कस्यचित्प्रमेयस्य जनकत्वेऽप्युपपन्नम् । न चेन्द्रियसन्निकृष्टस्य प्रमेयस्य देशान्तरस्थप्रमेयवता सम्बन्धाभावेन कथं तदुपस्थापकत्वमिति वाच्यम् । वर्तमानप्रमेयस्यातीतानागतेः सहसम्बन्धाभावेन कथमतीता-नागतप्रमेयवदुपस्थितरिति साध्यात् तदीयातीतादिसम्बन्धिवर्तमानमेवाभि-धेयत्वादिप्रमेयं तदुपस्थापकम् । तदा देशान्तरवर्तिसम्बन्धेन्द्रियसन्निकृष्ट-प्रमेयत्वादिरूपप्रमेयमेव तदुपस्थापकं भविष्यतीति न देशान्तरस्थवर्तमान-प्रमेयस्य प्रमेयवत्वसामान्यप्रत्यासत्तिज्ञानहेतुत्वमिति ज्ञानजनकत्वप्रसिद्धेरिव कलापादपि संयुक्तविशेषणतादिप्रत्यासत्तिघटकमतीन्द्रियमात्रस्य ज्ञानहेतुत्वमिति ।

तन्न । प्रत्यासत्तिघटकत्वेप्रत्यासत्तिनिष्टहेतुतावच्छेदकतयैव सात्रहेतुता । अन्यथा असिद्धेः । नचैवं चक्षुःसम्बन्धविशेषणतादिघटकत्वेनान्यथासिद्धतया चक्षुषोप्यहेतुता । रूपाद्युपलब्धयः करणसाध्याः क्रियात्वादिति धर्मिग्राहकमानेन तत्सिद्धेः । चक्षुषापश्यामीत्याद्य१भवबलसिद्धं रूपाद्युप-लब्धिनिष्ठचाक्षुषत्वादिजातिप्रयोजकतया च तद्धेतावश्यम्भवात् । नचैवं घटपटत्वाभावा इत्यादिप्रत्यक्षेऽपि संयुक्तविशेषणतादिप्रत्यासत्तिघटकत्वेन अन्यथासिद्धतया संयोगघटादेरप्यहेतुत्वापत्तिः । तदभावप्रस्यक्षे घटादेरप्यधिकरणतया विषयत्वेन तदंशे संयोगादेः सन्निकर्षत्वेन घटादेश्च स्वविषयतया हेतुत्वात् परमाणुतत्परिमाणादौ महत्वाभावामहत्वाभावादि-प्रत्यक्षादौ च परमाण्वाद्यंशे तस्यालौकिकप्रत्यक्षतया विषयतत्संयोगादे-र्हेतुत्वमेवेत्यतीन्द्रियाणां ज्ञानहेतुप्रत्यासत्तिघटकत्वेनान्यथासिद्धतया ज्ञानहेतुत्वमेवेति ।

नापि योगिप्रत्यक्षं प्रति तेषां हेतुत्वं तस्यालौकिकप्रत्यक्षत्वेन विषययाजन्यत्वात् । नचानादेः पूर्ववृत्तित्वाभावेन तदहेतुत्वेपि वर्तमानस्यहेतुत्वमविरुद्धम् । विषयस्य प्रत्यक्षहेतुतादिलौकिकेन्द्रिय-सन्निकर्षसम्पादनेन हि १कारणत्वादिषु स्थितानां योगिनां रामेश्वरादि-स्थितविषयाणां लौकिकः सन्निकर्षोस्ति । न च यथा जन्यज्ञानादि-सहकारिवशादस्मदादिनयनरश्मिना कुड्यभूतलादिव्यवहितनिक्षेपादिभिः सम्बन्धः तथा योगजधर्मरूपसहकारिवशात्तैरपि लौकिकसन्निकर्ष एव सम्भवीतीति वाच्यम् । गिरिदरीविवरादिवर्त्युत्पन्नविनष्टादीनां च स्ववर्तमानतादृशायामेव योगिलौकिकप्रत्यक्षविषयत्वं सम्भवेपि महत्व-समानाधिकरणोद्भूतरूपत्वादिबहिर्द्रव्यादिलौकिकप्रत्यक्षे तन्त्रत्वेन क्लृप्त-स्यातीन्द्रियपरमाण्वादिष्वभावेन तद्गोचरयोगिप्रत्यक्षस्य लौकिकत्वानुप-पत्या तत्रलौकिकप्रत्यक्षसन्निकर्षस्याहेतुत्वात् । न चालौकिकसन्निकर्ष-जन्यप्रत्यक्षे साक्षात्करोमीत्यनुव्यवसायादर्शने योगिनां परमाण्वादिगोचर-प्रत्यक्षे साक्षात्करोमीत्यनुव्यवसायोनस्यादिति वाच्यम् । अतीतादि-गोचरतत्साक्षात्कारवदुपपत्तेः । न हि तत्रापि लौकिकसन्निकर्ष-जन्यत्वसम्भव इति सङ्क्षेपः ।

एवं चातीन्द्रियेष्वेवज्ञानहेत्वतिरिक्तत्वप्रसिध्या साध्याप्रसिध्यभावेन नोक्तदिशा विकल्पमुखेन ग्रन्थोवतरणनीयः । किन्तु यथास्थितसाध्य एव प्रमाया इत्यादिवाक्यमुक्त्वाहेतुर्विरुद्धोपीत्याह ।। विरोधाच्चेति ।। कार्यत्वे सति ज्ञानविषयत्वस्याज्ञानहेतुजन्यव्याप्यतयोक्तहेतोः साध्यसहचारस्यैव भावादित्यथार्थ इत्येवयोजनीय इति युक्तमुत्पश्यामः ।

ननु ज्ञानहेत्वित्यनेन ज्ञानत्वप्रयोजकत्वं विवक्षितम् । तत्त्वं च ज्ञानत्वम् । यज्जन्यत्वप्रयुक्तं यज्जन्यतावच्छेदकमिति यावत् । एवं च ज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयभिन्नजन्यत्वं साध्यमतो नोक्तः दोषः । न च ज्ञानत्वस्य नित्यवृत्तितया न कार्यतावच्छेदकत्वं यद्धर्माश्रयस्य सर्वोत्पत्तिवद्धेत्वधीनधर्मस्यैव तद्धेतुजन्यतावच्छेदकत्वात् अत्र सर्वपदोपादानात् प्रमेयत्वादेर्दण्डादिजन्यतावच्छेदकतानिवारिता प्रमेयपदा-द्युत्पत्तेर्दण्डाधीनत्वात् । नचैवं कम्बुत्वादेरपि दण्डत्वादिजन्यता-वच्छेदकापत्तिः । बाधकाभावे १सत्यपि विशेषणानि । तत्र गौरवत्वस्यैव बाधकत्वात् ।

नचैवं सत्तादिकमेवेश्वरादिजन्यतावच्छेदकत्वं स्यात् न कार्यत्वादिकमिति वाच्यम् । एतन्मत२दुष्टत्वादित्याह ।। नापीति ।। प्रत्यक्षत्वादीति जन्यप्रत्यक्षत्वादीत्यर्थः । अनुमितित्वादिरादिशब्दार्थः । इन्द्रियमित्यादिपदेन परामर्शग्रहः । चाक्षुषत्वादीत्यादिपदेन रासनत्वादेः रासनादेश्च परिग्रहः । इदमुपलक्षणम् । यद्धर्माश्रयः सर्वोयदधीनः तद्धर्मस्यैव तदवच्छेदकत्वम् । लाघवात् । न तु यद्धर्माश्रयस्य सर्वो३पपत्तिरिति । उत्पत्तिपदप्रवेशेन गौरवात् । एवं च ज्ञानसत्वाश्रयस्य सत्वस्य हेत्वधीनत्वेन ज्ञानत्वस्य कार्यतावच्छेदकतया तद्धर्मसाध्याप्रसिद्धिरित्यपि बोध्यम् ।

न्यायदीपः

।। एतदिति ।। उत्पत्तौ च प्रामाण्यं स्वत एवेत्येतदित्यर्थः । कुत इत्यतः कुसुमाञ्जल्युक्तेन तत्वनिर्णयटीकाद्याशङ्कितेनानुमानेन विरोधं मानाभावं च हेतुद्वयमाह ।। अनित्यप्रमेति ।।प्रमेत्येवोदयनोक्तावपीश्वरज्ञानांशे बाध-वारणाय तदभिप्रेतम् स्वयमुक्तमनित्येति ।। अत एव अनित्यप्रमात्वं कार्यतावच्छेदकं इति रुचिदत्तोक्तिः । हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्धसाधनमतो ।। ज्ञानहेत्वतिरिक्तहेतुजन्येति ।। तद्विशेषत्वात् ।। ज्ञानविशेषत्वादित्यर्थः । ईश्वरज्ञाने व्यभिचारनिरासाय ।। कार्यत्वे सतीति ।। ज्ञाने तद्दोषनिरासाय विशेष्यम् ।

एतेन मणौ जन्यत्वादिति हेत्वनुवादोऽनुचित इति सूचितम् । कुसुमाञ्जलौ मणौ चोक्तमनुकूलतर्कमाह ।। अन्यथेति ।।प्रमात्वस्य ज्ञानसामग्रीमात्रप्रयोज्यत्वेऽप्रमायामपिप्रमात्वं स्यात् । तत्रापि ज्ञानसामान्य-हेतोः सत्त्वादिति भावः ।। ज्ञानमपीति ।। ज्ञानत्वप्रमात्वयोरेकसामग्री-प्रयोज्यत्वादेकांशेप्रतिबन्धेऽपरांशेपि तथात्वादिति भावः । मानाभावाच्चेति चान्वयः । व्याघातं चाह ।। विरोधाच्चेति ।। ज्ञानजनकजन्यत्वार्थ-त्वेप्युक्तदोषावेवेति भावः ।

मणिकृतोत्प््रोक्ष्य दूषितानपि पक्षान् शिष्याणां सुबोधायानूद्यनिराकरोति ।। नापीति ।।प्रत्यक्षत्वादीत्यादिपदेनानुमितित्वोपमितित्वशाब्दत्वानां तथा चाक्षुषत्वादीत्यत्र रासनत्वादीनां द्वितीयचतुर्थादिपदाभ्यां च परामर्शोप-मानशब्दज्ञानानां रसनादीनां च ग्रहः । सिद्धसाधनादित्युपलक्षणम् । ज्ञान-त्वस्येश्वरज्ञानवृत्तित्वेन कारणाप्रयोज्यतया तत्प्रयोजकसामग्र्यप्रसिद्ध्या साध्याप्रसिद्धिरित्यपि बोध्यम् ।

Load More