अथोपाधिज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वादुपाधिर्निरूप्यते
अथोपाधिवादः ।। ३ ।।
उपाधिवादः
अथ स्वाभिमतोपाधिसामान्यलक्षणम् ।। ७ ।।
तर्कताण्डवम्
अथोपाधिज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वादुपाधिर्निरूप्यते । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः ।।
ननु वायुः स्पार्शनः अनुद्भूतरूपानधिकरणत्वे सति प्रत्यक्ष-स्पर्शाश्रयत्वात् घटवदित्यादौ पक्षधर्मेण द्रव्यत्वेनावच्छिन्नसाध्यव्यापके चाक्षुषत्वाद्युपाधौ, समवायः समवेतः सम्बन्धत्वात् संयोगवत् इत्यादौ साधनेन सम्बन्धत्वेनावच्छिन्नसाध्यव्यापके कृतकत्वाद्युपाधौ चाव्याप्तिः । तत्र स्पार्शनत्वादेरेव साध्यत्वात् । साध्यपदेन पक्षधर्मा-द्यवच्छिन्नसाध्यविवक्षायां तु विमतो धूमवान् वह्निमत्त्वादित्यादौ शुद्धसाध्यव्यापके आर्द्रेन्धनाद्युपाधौ, वैधीहिंसा अधर्मसाधनं हिंसात्वा-दित्यादौ निषिद्धत्वाद्युपाधौ चाव्याप्तिरिति चेन्न ।।
साध्यपदेन हि व्यापकतावच्छेदकधर्माधिकरणत्वमात्रं विवक्षितम् न तु तदतिरिक्तधर्मानवच्छिन्नत्वमपि । एवं च यथा शुद्धसाध्यं धूमादिकं व्यापकतावच्छेदकधूमत्वादिधर्माधिकरणं तथा द्रव्यत्व-समानाधिकरणं स्पार्शनत्वरूपमपि साध्यं व्यापकतावच्छेदक-स्पार्शनत्वत्वाधिकरणमेवेति न कुत्राप्यव्याप्तिः । न हि धवलत्व-समानाधिकरणं गोत्वमगोत्वं भवति ।।
एतदेवाभिप्रेत्योक्तं सुधायाम्– साध्यपदेनावच्छिन्नानवच्छिन्न-साध्याभिधानादिति ।।
यद्यप्यवच्छिन्नसाध्यव्यापकोऽवच्छिन्नसाध्य एवोपाधिः । तथापि स्वव्यावृत्त्यावच्छिन्नसाध्यं व्यावर्तयन्नवच्छेदकव्यावृत्तेरसम्भवाद-वच्छेद्यशुद्धसाध्यव्यावृत्तौ पर्यवस्यन्भिक्षुपादप्रसरणन्यायेन शुद्धसाध्य-साधकानुमानेऽपि दोषो भवति । यथा विशेषणासिद्धो विशिष्टहेत्वसिद्धौ पर्यवस्यन्हेतुदोषो भवति तथेति नार्थान्तरादिकम् । व्यञ्जनवत्त्वाद्यपि महानसत्वाद्यवच्छिन्नवह्निरूपसाध्यव्यापकत्वात्तत्रोपाधिरेव किंतु धूमानुमानस्यानुकूलतर्कसनाथत्वेनावच्छेद्यवह्निव्यावृत्तेरसम्भवा-दवच्छेदकमहानसत्वव्यावृत्तेरेव च सम्भवाद्वह्निमात्रसाधक-धूमानुमानदूषणे न शक्त इति न तत्र दोष इति भेदः ।।
न्यायदीपः
उपाधिनिरूपणे का पूर्वसङ्गतिरित्याह– अथोपाधीति । एवमनुमानोप-युक्तव्याप्त्यादिनिरूपणानन्तरमवसरप्राप्तं प्रतिबन्धकस्वरूपं निरूप्यत इत्यर्थः । एतेन यन्मणौ पक्षतोक्तेः प्रागेवोपाधिनिरूपणं तदनवसर-दुस्थमित्युक्तं भवति । उपाधिज्ञानं हि द्वेधा व्याप्तिग्रहणकालीनं व्याप्ति-ग्रहणानन्तरमनुमानप्रयोगकालीनं चेति । तत्राद्याभिप्रायेणोक्तं– व्याप्तिज्ञान-प्रतिबन्धकत्वादिति । द्वितीयस्य प्रतिपक्षतया दोषत्वेनानुमिति-प्रतिबन्धकत्वात् । व्याप्तिज्ञानप्रतिबन्धकत्वप्रकारश्च साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वादिनोपाधेर्दूषकताबीजोक्तिवादे व्यक्तः ।।
‘साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य तु’ ।
इति युक्तिपादीयानुव्याख्यानसुधाद्युक्तिं हृदि कृत्वोपाधिसामान्य-लक्षणमाह– साध्येति । अत्र साध्यपदेन पूर्वोक्तदिशा न लिङ्गजन्यधी-विषयत्वरूपं विवक्षितम् । येन व्याप्तिग्रहदशायां महानसीयधूमादे-स्तादृशत्वाभावेन तदुपाध्यार्द्रेन्धनादावव्याप्तिः स्यात् । किंतु व्यापकता-वच्छेदकधर्मवत्त्वमात्रमित्यग्रे व्यक्तम् । धूमाद्यनुमाने व्यञ्जनवत्त्वादेरुपाधिता-व्यावृत्त्यर्थं सत्यन्तम् । तत्रैव प्रमेयत्वादेरुपाधितानिरासाय साधनाव्यापक इत्युक्तिः । साधनेति साधनत्वाभिमतमुच्यते । एवं साध्यपदेनापि । अत्राविनाभावस्यैव व्याप्तित्वोपगमेनानौपाधिकत्वरूपव्याप्तेरनादरान्ना-न्योन्याश्रयः ।।
उक्तलक्षणस्याव्याप्तत्वशङ्कोत्तरे सुधोक्ते विवरितुमाक्षिपति– नन्विति । स्पार्शनं त्वगिन्द्रियवेद्यः । हेतौ परमाण्वादावव्यभिचाराय प्रत्यक्षेति स्पर्श-विशेषणम् । तप्तवारिस्थवह्नावव्यभिचाराय सत्यन्तम् । तन्मात्रस्य गगनादावव्यभिचाराय विशेष्यम् । चाक्षुषत्वाद्युपाधावव्याप्तिरित्यन्वयः । यत्र स्पार्शनत्वं तत्र चाक्षुषत्वमिति स्पर्शगुण एव व्यभिचारेण शुद्धसाध्य-व्यापकत्वस्याभावेऽपि द्रव्यत्वे सति स्पार्शनत्वं यत्र तत्र चाक्षुषत्वमिति घटादौ व्याप्तिदर्शनेन पक्षधर्मावच्छिन्नसाध्यव्यापकत्वस्य सत्त्वात्तत्राव्याप्तिः । तथा यत्र समवेतत्वं तत्र कृतकत्वमित्यस्य जात्यादौ व्यभिचारेण कृतकत्वस्य शुद्धसाध्याव्यापकत्वेऽपि सम्बन्धत्वे सति समवेतत्वं यत्र तत्र कृतकत्वमिति व्याप्तेः संयोगे दर्शनेन साधनावच्छिन्नसाध्यव्यापकोपाधौ चाव्याप्तिरित्यर्थः । अत्रावच्छिन्नत्वं समानाधिकरणत्वं ध्येयम् । अव्याप्तिं व्यनक्ति– तत्रेति । उक्तानुमानद्वये, न त्ववच्छिन्नं स्पार्शनत्वादिकम् । येनोक्तलक्षणसत्त्वादव्याप्तिर्न स्यादिति भावः ।। नन्वेतावुपाधित्वेनासङ्ग्राह्यौ । किं तु शुद्धसाध्यव्यापक एवेति चेन्न ।।
‘‘वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता’’ । इत्यादौ ‘अथातो ब्रह्म-जिज्ञासा’ इत्यादि शास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वादित्यनुमाने वाक्यत्वा-द्यवच्छिन्नसाध्यव्यापकस्याप्तवाक्यत्वादेरुपाधित्वस्वीकाराद्वक्ष्यमाणदूषकताबीज-स्यावच्छिन्नानवच्छिन्नसाध्यव्यापकोपाधिसाधारण्याच्चेति भावः ।।
यद्यपि समवायस्याप्रामाणिकत्वेन तत्र साध्यहेत्वोर्बाधादिनैव तदनु-मानस्य दुष्टतया तत्रोपाधेरनङ्गीकारेऽपि न क्षतिः तथापि नोदाहरण-मादरणीयमिति न्यायेन ध्वंसो विनाशी जन्यत्वादित्यादौ साधनावच्छिन्न-साध्यव्यापकस्य कृतकत्वादेरुपाधित्वेनोदाहरणान्तरसम्भवेन च साधना-वच्छिन्नसाध्यव्यापकोपाधिप्रदर्शन एव तात्पर्यात् । परमते प्रसिद्धत्वा-त्सुधायामस्यैवानुवादात् समवायपक्षक एव प्रयोगो दर्शित इत्यदोषः ।।
साध्येति । सामान्यलक्षणगतसाध्यपदेनेत्यर्थः । पक्षधर्मेति । पक्षधर्मा-वच्छिन्नेत्यर्थः । व्यापकतावच्छेदकेति । यस्मिन्प्रयोगे यद्व्यापकता-वच्छेदकम् तद्धर्मावच्छिन्नसाध्यव्यापक उपाधिरित्यर्थः । उक्तं सुधाया-मिति । साध्यव्यापकवैलोम्यमित्येतद्व्याख्यानसुधायामित्यर्थः । ननु शुद्धसाध्यप्रयोगेऽवच्छिन्नसाध्यव्यापकोपाध्युक्तौ प्रकृतानुपयुक्तान्वितोक्ति-रूपार्थान्तरतादोषः स्यादित्याशङ्कामनूद्य शुद्धसाध्यप्रयोगदूषकत्वस्यापि सत्त्वान्न दोष इति भावेन परिहरति । यद्यपीति ।।
नन्वेवं पर्वतोऽग्निमान् धूमवत्त्वादित्यादिसदनुमानभङ्गप्रसङ्गः । तत्राप्युक्तदिशाऽवच्छिन्नसाध्यव्यापकोपाधिसम्भवादित्यत आह– व्यञ्जनवत्त्वादिकमिति । न शक्त इति विभागः ।
तर्कताण्डवम्
अथवा यो यद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकः स तत्रोपाधिः । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरिति सुधायामपि साध्यव्यापकपदेनेदमेव विवक्षितम् । एवं चावच्छिन्न-साध्यव्यापके नाव्याप्तिशङ्कापि१ । नापि शुद्धसाध्यव्यापके आर्द्रेन्ध-नादौ । तस्यापि धूमत्वादिधर्मावच्छिन्नधूमरूपसाध्यव्यापकत्वात् । एवं च सर्वोऽप्युपाधिरवच्छिन्नसाध्यव्यापक एव । सुधायामन-वच्छिन्नपदं तु व्यापकतावच्छेदकधर्मान्यधर्मेणानवच्छिन्नत्वाभिप्रायम् ।
यद्वा साध्यादिपदस्थाने यत्पदप्रक्षेपेण यो यद्व्यापकत्वे सति यद-व्यापकः स स्वाव्याप्ये तस्मिन्हेतावुपाधिरित्यस्तु । एवं च द्रव्यत्वावच्छिन्नस्पार्शनत्वस्य दूष्यानुमानसाध्यत्वाभावेऽपि तत्र चाक्षुषत्वोपाधितासिद्धिः । सुधायां साध्यपदं तु प्रायिकाभिप्रायम् । अत एव सुधायां वस्तुतस्तु यो धर्मो यद्व्यापकाव्यापकस्तस्य तेनाव्याप्तिरिति साध्यपदस्थाने यत्पदमेव प्रयुक्तम् ।।
अत्र द्वितीयतृतीयपक्षयोरप्यवच्छिन्नसाध्यव्यापकेऽर्थान्तरनिरास आद्यपक्षवद्द्रष्टव्यः ।।
अत्र चाद्ये पक्षे अवच्छिन्नसाध्यमपि साध्यमेव । द्वितीये शुद्ध-साध्यमप्यवच्छिन्नसाध्यमेव । तृतीयेऽवच्छिन्नसाध्यस्यासाध्यत्वेऽपि चाक्षुषत्वस्य तत्रोपाधित्वमिति भेदो द्रष्टव्यः ।।
केचित्तु स्पार्शनत्वादिरूपशुद्धसाध्य एव द्रव्यत्वादिविशिष्ट-चाक्षुषत्वाभावस्याभाव उपाधिः । अयं च विशिष्टाभावरूप उपाधिः साध्यवति स्पर्शादौ द्रव्यत्वरूपविशेषणस्याभावेन घटादौ१ चाक्षुषत्वा-भावरूपविशेष्यस्याभावेनानुगत इति शुद्धसाध्यव्यापकः । तदुक्तम्–
‘‘य उपाधिर्लालगीति साध्ये वै यद्विशेषणे ।
तद्विशेषणयुक्तैतदभावाभूस्तु केवल’’ ।।
इति । शास्त्रे तु व्यतिरेकव्याप्त्यादिनाऽन्वयव्याप्त्यादि कमिवावच्छिन्नसाध्यव्यापकोपाधिनोक्तशुद्धसाध्यव्यापकोपाधिराक्षिप्यत इत्याहुः ।।
अयं तु प्रकारो वायुः स्पार्शनः स्पर्शत्वादित्यसिद्धिसङ्कीर्णे द्रव्यत्वावच्छिन्नसाध्यव्यापके चाक्षुषत्वोपाधौ न सम्भव-तीत्यसार्वत्रिकः । तत्र द्रव्यत्वावच्छिन्नचाक्षुषत्वाभावाभाव-रूपोपाधावुक्तरीत्या स्पार्शनत्वरूपसाध्यव्यापकत्वेऽपि स्पर्शत्व-रूपसाधनाव्यापकत्वस्याभावात्साधनवति स्पर्शे द्रव्यत्वाभावेन द्रव्यत्वविशिष्टस्य चाक्षुषत्वाभावस्याभावेनोपाधेः साधन-व्यापकत्वात् ।।
अत एव सुधायां ‘‘क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्य-भावस्य हेतुत्वाद्यथा वायुः स्पार्शनो न द्रव्यत्वे सत्यचाक्षुषत्वात्’’ इति क्वचित्पदं प्रयुक्तम् ।।
यत्तु साधनव्यापकोऽपि क्वचिदुपाधिर्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवी कठिनसंयोगवत्त्वादित्यादावनुष्णाशीतस्पर्शवत्त्वमिति । तन्न । अस्योपाधित्वे घटः पृथिवी कठिनसंयोगवत्त्वादित्यत्राप्युपाधित्वा-पातात् । न हि स एव धर्मस्तस्मिन्नेव साध्ये पक्षभेदमात्रेणोपाधि-रनुपाधिश्च भवति । अनुष्णाशीतस्पर्शाभावस्य साध्याभाव साधकत्वं तु नोपाध्यभावत्वात् साधनव्यापकस्याप्युपाधित्वेऽतिप्रसङ्गात् । किंतु प्रतिपक्षान्तरवत्स्वत एव साध्याभावव्याप्तत्वात् । न हि सर्वोऽपि प्रतिपक्ष उपाध्यभावरूपः ।।
न्यायदीपः
एवं यथाश्रुतं सुधोक्तं समर्थ्य प्रकारान्तरेण पक्षद्वयमाह– अथवेति । यद्वा इति च । आद्यपक्षवदिति । स्वव्यावृत्त्यावच्छिन्नं साध्यं व्यावर्त-यन्नित्यादिनोक्तदिशेति भावः ।।
पक्षाणां विवेकं स्वयमेवाह– अत्र चाद्य इति । साध्यमेवेति । व्यापकतावच्छेदकधर्माधिकरणत्वमात्रस्य साध्यपदेन विवक्षितत्वादिति भावः । उदयनादिमतमाह– केचित्त्विति । साध्यव्यापकत्वं व्यनक्ति– अयं चेति । य इति । य उपाधिश्चाक्षुषत्वाभावस्याभावरूप उपाधिः । साध्ये स्पार्शनत्वरूपसाध्ये । द्रव्यत्वरूपयद्विशेषणे सति लालगीति सम्यक्सम्बध्नाति तद्विशेषणयुक्तैतस्य द्रव्यत्वविशिष्टचाक्षुषत्वाभावस्याभावः केवले साध्ये व्यापक एव स उपाधिर्भवतीत्यर्थः । एवं तर्हि शास्त्रे शुद्धसाध्यव्यापकरूपैकरूपोपाधिमनुक्त्वाऽवच्छिन्नसाध्यव्यापकोक्तिः किमर्थेत्यत आह– शास्त्रे त्त्विति । तदाक्षेपार्था तदुक्तिरिति वाक्यशेषः ।।
अत्र पक्षे स्वयमेव दोषमाह– अयं त्विति । न सम्भवतीत्युक्तासम्भवं व्यनक्ति– तत्रेति । स्पर्शत्वरूपेति । कुत इत्यतो विशेषणाभावप्रयुक्त-विशिष्टाभावस्य सत्त्वादिति भावेनाह– साधनवतीति । स्पर्शत्वरूप-साधनवतीत्यर्थः । अत एव असार्वत्रिकत्वादेव । सुधायां साध्य-व्यापकवैलोम्यमित्यादेर्व्याख्यानसुधायामित्यर्थः । क्वचित्पदं प्रयुक्तमिति । द्रव्यत्वविशिष्टस्य चाक्षुषत्वस्याभाव उपाधिरिति हि प्रागुक्तम् । एतदभावश्च प्रतिपक्षप्रयोगे हेतूकृत्य क्वचित्पदं प्रयुक्तं चेत्प्रागुक्तविशिष्टाभावरूपोपाधि-प्रकारश्च क्वचिदेवेत्युक्तं भवतीति भावः । एतेन सुधावाक्यं केचि-त्त्वित्युपन्यस्तपक्षाभिप्रायेणेत्युक्तं भवति ।।
क्वचित्साधनव्यापकोऽप्युपाधिर्यत्र पक्षावृत्तिर्हेतुरित्यादिना मण्युक्तेः साधनव्यापकस्याप्युपाधित्वात्कथं ‘‘साध्यव्यापकवैलोम्यं साधनस्ये’’-त्यनुव्याख्यानादौ लक्षणोक्तिरित्यतस्तं पक्षमनूद्य निराह– यत्त्वित्यादिना । करकेति पक्षः पृथिवीति साध्यम् । कठिनसंयोगवत्त्वं पाषाणादावेव न तु करकायां अल्पकाल एव द्रवीभावदर्शनात् । पक्षावृत्तिश्चायं हेतुः । हेतोः पक्षवृत्तित्वे तद्व्यापकस्योपाधेरपि पक्षवृत्तितया तद्व्यतिरेकस्य स्वरूपा-सिद्धत्वेन स्वव्यावृत्तिबलेन पक्षात्साध्यव्यावृत्तिसंपादनस्याशक्यतया दूषकत्वमुपाधेर्न स्यात् इति यत्र पक्षावृत्तिर्हेतुरित्युक्तम् । अनुष्णेति । यत्र पृथिवीत्वं घटादौ तत्रानुष्णाशीतस्पर्शवत्त्वमिति साध्यव्यापकम् । यत्र कठिनसंयोगवत्त्वं घटादावेव तत्रानुष्णाशीतस्पर्शवत्त्वमित्यपि नियमात्साधन-व्यापकं च । पृथिवीवाय्वोरनुष्णाशीतस्पर्शवत्त्वोपगमादिति भावः ।।
नन्वेकत्रोपाधित्वेऽन्यत्रापि कुत इत्यत आह– न हीति । ननु भवत्वयं पक्षवृत्तिहेतावप्युपाधिः । अनुकूलतर्केण तन्निरासो भविष्यतीति चेत्तर्हि करका पृथिवीत्यादावपि तथाऽस्तु । न च तत्रानुकूलतर्को नास्तीति वाच्यम् । तर्हि तत एव तस्य दुष्टत्वे किमनेनालौकिकेन सदनुमानदुष्टता-पादकेन साधनव्यापकस्याप्युपाधित्वकल्पनेन । १नन्वस्य पक्षवृत्तिहेता-वप्युपाधित्वे घटो न पृथिवी अनुष्णाशीतस्पर्शवत्त्वाभावाज्जलवदिति स्वाभावेन साध्याभावसाधनं न स्यादित्यत आह– अनुष्णेति । अतिप्रसङ्गादिति । धूमाद्यनुमाने प्रमेयत्वादेरप्युपाधितापातादिति भावः ।।
।। इति स्वाभिमतोपाधिसामान्यलक्षणम् ।। ७ ।।