एवं व्यधिकरणासिद्धिरपि न दोषः

अथ व्यधिकरणासिद्धेर्दोषत्वभङ्गः ।। २८ ।।

तर्कताण्डवम्

एवं व्यधिकरणासिद्धिरपि न दोषः । तथा हि– तस्या दोषत्वं किमतिप्रसङ्गात्, पक्षधर्मताविघटनाद्व्याप्तिविघटनाद्वा ।।

नाद्यः । नित्य आत्मा काकस्य कार्ष्ण्यादित्यादेर्व्याप्त्यभावेनैव दुष्टत्वात् । शब्दो अनित्यः घटस्य कृतकत्वादित्यत्र तु शब्दस्य कृतकत्वं स्वीकृतं चेद्घटस्येत्यस्य वैयर्थ्यात् । अस्वीकृत्य घटगतेनैव कृतकत्वेन शब्दानित्यत्वसाधने तु यत्र कृतकत्वं तत्रानित्यत्वमिति व्याप्तेस्तत्र सामानाधिकरण्यगर्भितत्वेनान्यगतस्य तस्यान्यगतेना-नित्यत्वेन व्याप्तेरेवाभावात् ।।

किञ्च सत्यां व्याप्तौ व्यधिकरणत्वस्य दोषत्व एवातिप्रसङ्गः । दृश्यते हि व्यधिकरणेनापि पद्मविकासेन सूर्योदयस्य, समुद्रवृद्ध्या चन्द्रोदयस्य, छायया मेघस्य, भूमिष्ठेनालोकेन उपरिसवितुः, चक्र-भ्रमेण कुलालासत्तेः, कृत्तिकोदयेन रोहिण्युदयासत्तेः, अधोदेशे नदी-पूरेण ऊर्ध्वदेशवृष्टेः, ऊर्ध्वभागस्थधूमेन अधोभागस्थवह्नेश्चानुमितिः ।।

नन्वत्राप्ययं कालः सूर्योदयवान् पद्मविकासवत्कालत्त्वा-त्सम्मतवत् । अयं प्रदेशः कुलालासत्तिमान् भ्रमच्चक्राधिकरणत्वात् सम्मतवत् । इयं नदी वृष्टिमदूर्ध्वदेशे सम्बद्धा पूरवदघोदेशेन सम्बद्धत्वात् सम्मतवत् । अयं धूमो मूलेऽग्निमान् धूमत्त्वात् सम्मत-वदिति कालं देशादिकं वा पक्षीकृत्य सामानाधिकरण्यं संपाद्यमिति चेत् ।।

किमियं लौकिकप्रतीतिः उत त्वदभिमतसामानाधिकरण्यनियम-निर्वाहायैवं प्रयोगविपरिणामः कल्प्यते ।।

नाद्यः । त्वदुक्तकुसृष्टिमजानतामपि लौकिकानां पद्मादौ विकासादिदर्शनेनैव सूर्योदयादौ स्वार्थानुमितेः तदनुसारिपरार्थानुमितेश्च दर्शनात् । परीक्षकैश्च लोकसिद्धरीत्यनुसारिण्येव प्रक्रिया कल्प्या । न तु स्वकल्पितप्रक्रियया सा बाध्या । अतिप्रसङ्गात् । उक्तं च न्यायटीकायाम्–

सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ।

न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ।।

दृश्यते ह्यद्यतनस्य सूर्योदयस्य श्वस्तनेन सूर्योदयेन गम्यगमकभाव इति ।।

न द्वितीयः । अन्योन्याश्रयत्वात् । अन्यथा मदभिमतवैयधि-करण्यादिनिर्वाहाय पर्वताधोदेशोऽग्निमान् ऊर्ध्वदेशस्य धूमवत्त्वात् विमतः कालो देशो वा अग्निमत्पर्वतसम्बद्धः धूमवत्पर्वतसम्बद्धत्वात् संमतवदित्यादिरपि विपरिणामः स्यात् ।।

किं चैवं सामानाधिकरण्यस्य सर्वत्र सुसंपादत्वेन व्यधिकरणा-सिद्धिर्निरवकाशा स्यात् । तदसंपादने सा सावकाशेति चेत्तर्ह्य-१सिद्धिरुक्तिदोषः स्यात् । नार्थदोषः । किं च नोक्तिदोषत्वमपि । रोहिण्युदय आसन्नः कृत्तिकाया उदितत्वात् इत्युक्तावपि श्रोतॄणा-मनुमित्युत्पत्तेः ।।

न द्वितीयः । व्यधिकरणेष्वप्यन्यथानुपपन्नेषु लिङ्गत्वस्य समानाधिकरणेष्वप्यन्यथोपपन्नेष्वलिङ्गत्वस्य च दर्शनेन पक्षधर्मताया अनावश्यकत्वात् । इहेदानीं सता कार्येणान्यत्रान्यदासतस्तदुचित-कारणस्यानुमानाच्च ।।

अत एव वैशेषिकैरपि अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकमित्येकार्थसमवायिनः कार्यकारणरूपलिङ्गे पृथगुक्ते त्वन्मते पतत्पतितयोरवयवापचयादिना भेदेऽपि पतन्निष्ठ-पतनेन पतिते गुरुत्वानुमानाच्च । त्वयापि पाको मत्कृतिसाध्यो मत्कृतिं विनाऽसत्त्वे सति मदिष्टसाधनत्वात् मद्भोजनवत् इत्यत्र सिद्धपाकनिष्ठतया ज्ञातेन हेतुनाऽसिद्धपाकरूपपक्षनिष्ठतया साध्यप्रमितेरुक्तवाच्च ।।

किं च त्वन्मते प्रमात्वमेव वा २निष्कर्षज्ञानत्वमेव वा प्रमेयत्वं एवं कृतित्वेच्छात्वद्वेषत्वादिकमेव कार्यत्वेष्टत्वद्विष्टत्वादिकं, तथा च शब्दोऽभिधेयः प्रमेयत्वादित्यादौ कथं पक्षधर्मता । प्रमात्वस्य शब्देन परम्परासम्बन्धोऽस्तीति चेन्न । शब्दे प्रमात्वमिति कदाप्य-प्रतीतेः । प्रत्युत प्रमात्वं नेत्येव प्रतीतेः । तस्य तद्धर्मत्वायोगात् । न च प्रमाजातीयविषयत्वं वा ईश्वरप्रमाविषयत्वं वा प्रमेयत्वं तच्च शब्देऽस्तीति वाच्यम् ।। विषयत्वरूपसम्बन्धस्यापि त्वन्मते प्रमास्वरूपत्वात् । प्रमायाश्च शब्दानिष्ठत्वात् ।।

किञ्च व्यतिरेकव्याप्तिः साक्षादङ्गमिति त्वन्मते व्याप्तिपक्षधर्मतयो-र्वैयधिकरण्येऽपि गमकत्ववत् साध्यसाधनयोरपि वैयधिकरण्येऽपि गम्यगमकताऽस्तु । तत्र प्रतियोग्यनुयोगिभावो नियामकश्चेदत्रापि वृष्टिपूराश्रययोर्देशयोरूर्ध्वाधरीभावो नियामकोऽस्तु ।

अपि च धूमजातीयस्य वह्निजातीयं प्रति व्याप्यत्वात्पर्वतीयो धूमो महानसीयवह्निं प्रत्यपि व्याप्य इति त्वन्मते कथं व्याप्य-व्यापकयोः सामानाधिकरण्यम् ।।

एतेन सामानाधिकरण्यव्यतिरेकनिश्चयादिनाऽनुमितिप्रतिबन्धा-त्तन्निश्रयोऽनुमितिहेतुरिति निरस्तम् । वृष्टिपूरयोः सामानाधिकरण्य-व्यतिरेकनिश्चयेऽप्यनुमितिदर्शनात् ।।

न तृतीयः । वैयधिकरण्येऽपि व्याप्तेरुपपादितत्वात् ।।

न्यायदीपः

‘‘व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।

 रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः ।

  इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका’’ ।

इति भक्तिपादीयानुव्याख्यानसुधोक्तरीत्या विकल्पान् दोषांश्च व्यनक्ति– किमित्यादिना । अतिप्रसङ्गादिति । काकस्य कार्ष्ण्यादित्यादेरपि सद्धेतुत्वापत्तिरूपातिप्रसङ्गादित्यर्थः । इत्यत्र त्विति । यत्र कृतकत्वं तत्रानित्यत्वमिति व्याप्तिसत्त्वेन व्याप्त्यभावेन तत्र दुष्टताया वक्तुमशक्यत्वेऽपि प्रकारान्तरेण दुष्टत्वं तत्रेति विशेषद्योतकस्तुशब्दः । वैयर्थ्यादिति । व्यर्थविशेषणत्वेनैव दुष्टत्वमिति भावः ।।

ननु प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगिता-वच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरिति मण्युक्तसामान्यलक्षणपक्षे महानसीयधूमस्य पर्वतादिनिष्ठवह्निनेव व्यधिकरण-योरपि व्याप्तिरस्तीति पक्षे दोषान्तरमाह– किञ्चेति । अतिप्रसङ्ग इति । सद्धेतूनामसद्धेतुत्वापत्तिरूपातिप्रसङ्ग इत्यर्थः । तत्कथमित्यत आह– दृश्यते हीति । अनुमितिरित्यन्वयः । अनुव्याख्यानोक्तोदाहरणमुपलक्षणं मत्वाऽऽह– पद्मेत्यादि ।

कालं देशं वाऽऽदाय सर्वत्र सामानाधिकरण्यमाशङ्कते– नन्विति । देशादिकं वेत्यादिपदेन नदीमिति गृह्यते । लोकरीतेरेवंरूपत्वेऽपि भवद्भिरिव मयाऽपि लोकरीत्यनुरोधेनैव परिभाषा कार्येति कुत इत्यत आह– परीक्षकै-श्चेति । अतिप्रसङ्गादिति । धूमादिना वह्न्याद्यनुमित्युत्पादनादिकमपि न स्यात् । ज्ञानस्यापीच्छाद्वारा प्रवृत्तिहेतुत्वकल्पनं दण्डादेर्घटहेतुताव्युत्पाद-नादिकमपि न स्यादित्येवमाद्यतिप्रसङ्गादित्यर्थः । यद्वा समानाधिकरणानामपि गम्यगमकभावो नेत्यपि व्युत्पादनप्रसङ्गादित्यर्थः ।। त्वदभिमतसामानाधि-करण्य नियमनिर्वाहायेत्युक्तकल्पं निराह– न द्वितीय इति । अन्योन्येति । सामानाधिकरण्यनियमे सिद्धे सति तन्निर्वाहाय प्रयोगविपरिणामकल्पना सिद्धे चोक्तदिशा प्रयोगविपरिणामे सामानाधिकरण्यनियमसिद्धिरित्यन्योन्याश्रया-दित्यर्थः । १निरवकाशेति । अयं काल आत्मनित्यत्ववान् काककार्ष्ण्य-वत्त्वादित्यादिरूपेण त्वदभिमतव्यधिकरणासिद्धहेत्वाभासस्थलेऽपि सामानाधि- करण्यस्य सुवचत्वेन व्यधिकरणासिद्धेरुदाहरणं न किमपि लभ्येतेति दोषत्वेन तस्य परिगणनमयुक्तमापद्येतेति भावः । तदसम्पादने देशकालादिना सामानाधिकरण्यासम्पादने इत्यर्थः । नार्थदोष इति । तथा च पुरुषस्य प्रयोक्तुः पराभवेऽपि तत्र जायमानानुमितिः प्रमारूपैव स्यादिति भावः । ननूक्तिदोषस्थले वचनद्वाराऽर्थस्यापि दुष्टत्वमेव । तादृशस्थलेऽनुमिते-श्चानुदयादित्यत आह– किं चेति ।।

पक्षधर्मताविघटनाद्वेति पक्षं निराह– न द्वितीय इति । अन्यथानु-पपन्नेष्विति । अविनाभावरूपव्याप्तिमत्स्वित्यर्थः । प्रागुक्तपद्मविकासादि-ष्विति भावः । अन्यथोपपन्नेष्विति । पर्वतो वह्निमान् पाषाणवत्त्वा-त्प्रमेयत्वादित्यादिष्वित्यर्थः । अलिङ्गत्वस्य प्रमित्यजनकत्वस्येत्यर्थः । व्यधिकरणेष्वन्यथानुपपन्नेषु लिङ्गत्वस्य दर्शनादित्युक्तं तत्कार्यकारण-भावापन्नेषु दर्शयति– इहेति । सत इति पदविभागः । इदानींतनाङ्कुरादि-दर्शनेन तत्पूर्वकाले बीजस्य पद्मस्थविकासरूपकार्येणोदयाचलोदित-सूर्यस्यानुमानदर्शनादित्यर्थः । अत एवासमानाधिकरणयोरसमानकालीनयोरपि कार्यकारणयोर्लिङ्गलिङ्गिभावसत्त्वादेवेत्यर्थः । अस्येति । अस्येदं कार्यमिति, अस्येदं कारणमिति, अस्येदं सम्बन्धीति अस्येदमेकार्थसमवायीति, अस्येदं विरोधीति पञ्चधा लैङ्गिकं व्यापकमित्यर्थः । विशिष्टमेघोन्नत्यादेर्वृष्ट्याद्याद्यं, धूमादेर्वह्न्यादि द्वितीयं, संयोगाद्द्रव्यं तृतीयं, रसादेरूपादि चतुर्थं, ध्वंसादेः प्रतियोग्यादि पञ्चममिति ध्येयम् ।।

परसम्मत्याऽपि व्यधिकरणयोर्लिङ्गलिङ्गिभावं दर्शयति– त्वन्मत इति । पतदिति । पततः पतितस्य चेत्यर्थः । वर्तमानपतनक्रियावतोऽतीतपतन-क्रियावतश्चेति यावत् । पतनदशायामवयवापचयाभावेऽपि पतिते सत्यभिघातवशेनावयवापचयावश्यंभावात् । अवयवापचयस्थले च पीलुपाक-प्रक्रियया आपरमाणु नाशेन पुनर्द्रव्योत्पत्तेरङ्गीकारात्पततः १फलस्येव पतितत्वदशायामन्यत्वात्तत्र च पतितं फलमिदं गुरुत्ववत् पतनक्रियावत्त्वा-त्सम्मतवदित्यनुमानदर्शनात् पतनगुरुत्वयोश्च लिङ्गलिङ्गिभावापन्नयोर्देशतः कालतश्च व्यधिकरणत्वात्कथं व्यधिकरणासिद्धेर्दोषत्वमित्यर्थः । सिद्ध-पाकेति । असिद्धपाके हेतोरभावेन तन्निष्ठत्वेन तवाज्ञानादिति भावः । उक्तत्वाच्चेति । विधिवादे । अतो न पक्षधर्मताविघटकत्वेन दोषत्वं व्यधिकरणासिद्धेरिति भावः । स्थलान्तरेऽपि व्यधिकरणस्य गमकत्वं परमते दर्शयति– किं च त्वन्मत इति । प्रमात्वस्याप्यर्थसत्त्वौपाधिक-त्वेनाजातिरूपत्वात्तद्वति तत्प्रकारकज्ञानत्वरूपप्रमात्वे ज्ञानत्वस्य प्रवेशादाह– २अनिष्कर्ष इति । प्रमात्वशरीरघटकोपाधिविवेकेनाखण्ड-जातिविमर्शे सतीत्यर्थः । अस्तु किं तत इत्यत आह– तथा चेति । इत्यादाविति । इदं सकर्तृकं कार्यत्वात्, इदं सङ्ग्राह्यमिष्टत्वात्, इदं हेयं द्विष्टत्वादित्यादिरादिपदार्थः । कथमिति । प्रमात्वदेः प्रमादिनिष्ठत्वेन शब्दाद्यनिष्ठत्वादिति भावः । परम्परेति । शब्दस्य प्रमायाः स्वरूपसम्बन्धः प्रमया प्रमात्वस्य समवाय इति परम्परेत्यर्थः । प्रतीतिबलाद्धि येन केनचित्सम्बन्धेन ‘कृष्णं वस्त्रं लोहितः स्फटिक’ इत्यादाविव परम्परा-सम्बन्धेनापि तद्धर्मत्वं कल्प्यं न हि तथा धीरित्याह– शब्द इति । प्रमा-स्वरूपत्वादिति । अन्यथाऽतीतादौ प्रमेयत्वाभावापातादिति भावः । प्रतिबन्द्याऽपि वैयधिकरण्यं न दोषायेत्याह– किञ्च व्यतिरेकेति । मण्युक्तव्याप्तिसामान्यलक्षणपक्षे व्यधिकरणयोरपि व्याप्तिस्वीकारात्तदनु-सृत्याऽऽह– अपि चेति ।।

व्याप्तिविघटनाद्वा दोषत्वमिति पक्षं निराह– न तृतीय इति ।।

।। इति व्यधिकरणासिद्धेर्दोषत्वभङ्गः ।। २८ ।।