प्राभाकरास्तु– श्रुत्यादीनां भाट्टोक्तान्येव लक्षणान्युदाहरणानि ..
८३. अथ प्राभाकरोक्तश्रुत्यादिबलाबलबीजभङ्गः
तर्कताण्डवम्
प्राभाकरास्तु–
श्रुत्यादीनां भाट्टोक्तान्येव लक्षणान्युदाहरणानि च वदन्तो बलाबलबीजमेवमाहुः व्रीहीनित्यादौ द्वितीया श्रुतिः शब्दरूपतयाऽ-न्यानपेक्षैव व्रीहीणां शेषित्वं बोधयितुं प्रवृत्ता शेषिणः कार्यतालक्षणां विना बोधयितुमशक्ता सती लक्षणार्थं ग्राहकान्वयमात्रमपेक्षत इति ग्राहकान्वयमात्रपूर्विका द्वारैदमर्थ्ये प्रमाणम् । लिङ्गं त्वशब्दात्म-कत्वान्न स्वयमेव शेषत्वमाह । किं तु ग्राहकगृहीतस्य मन्त्रस्य ग्राहकैदमर्थ्यनिर्वाहाय करणैदमर्थ्ये कल्पिते तत्रापि देवतोद्देशेन वस्तुत्यागात्मकयागरूपं करणं प्रतिमन्त्रस्य साक्षादनिर्वर्तकतया करणीयं द्रव्यं किञ्चिदनेनोपकर्तव्यमिति निश्चिते किं तदिति विशेषा-काङ्क्षायां यच्छक्यं तदित्येवं द्वारशेषता मन्त्रस्य ।।
तस्माद्द्वारैदमर्थ्ये श्रुतितो विलम्बितत्वाल्लिङ्गं दुर्बलम् ।।
न्यायदीपः
।। एवमिति ।। वक्ष्यमाणप्रकारेणेत्यर्थः । श्रुतिलिङ्गाद्यधिकरण नय-विवेकवरदराजीयोक्तं निष्कृष्यानुवदिति ।। व्रीहीनित्यादावित्यदिना ।। व्रीहीनवहन्तीत्यादावित्यर्थः ।
।। शेषित्वम् ।। अवघातं प्रति प्राधान्यमित्यर्थः । कार्यतालक्षणां कृतिसाध्यत्वबोधकलक्षणावृत्तिं बोधयितुमिति शेषित्वमित्यनुकर्षः । लक्षणार्थं ग्राहकान्वयमात्रमिति । ग्राहकं फलापूर्वमुच्यते तस्यैव मुख्यं कार्यत्वं अन्यस्य तु मत्प्रकरणे पठितं सर्वं मदर्थमिति ग्राहकान्वये सत्येव कार्यमिदमिति कार्यताधीर्भवतीति कार्यतालक्षणार्थं ग्राहकान्वयं व्रीहीणामपेक्षत इत्यर्थः ।
मात्रपदेन करणान्वयो व्यावर्त्यते । द्वारैदमर्थ्ये, द्वारशेषत्वे । आघाता-देरिति योज्यम् । अवघातो हि द्वितीयावगतशेषिभूतव्रीहिद्वारा ग्राहकैदमर्थ्यं भजत इति द्वितीयाश्रुतिः ग्राहकान्वयमात्रमपेक्ष्य कार्यतां व्रीहीणां लक्षणाया बोधयित्वावघातस्य द्वारैदमर्थ्ये प्रमाणं भवतीत्यर्थः ।
।। ग्राहकगृहीतस्येति ।। मत्प्रकरणे पठितं मदर्थमिति फलापूर्व-परिगृहीतस्य साक्षाद्ग्राहकस्वरूपानिष्पादकतया साक्षाच्छेषत्वायोगा-त्तन्निर्वाहाय१ साक्षाद्ग्राहकशेषभूतकरणशेषत्वेनेतिकरणैदमर्थ्यं कल्पनीयं तास्मिन्कल्पितेऽपि करणभूतयागस्वरूपं न साक्षान्निवर्तयतीति यागस्वरूपघटकद्रव्यप्रकाशनादिरूपद्रव्योपकारद्वादैव द्वारशेषतेत्यर्थः ।
।। श्रुतितो विलम्बितत्वादिति ।। श्रुतिर्ग्राहकान्वयमात्रमपेक्ष्याव-घातादेर्द्वारैदमर्थ्यं बोधयति । लिङ्गं तु ग्राहकान्वयं करणैदमर्थ्यं चापेक्ष्य मन्त्रस्य द्वारैदमर्थ्यं बोधयतीति विलम्बितत्वाच्छुतितो दुर्बलमित्यर्थः ।
तर्कताण्डवम्
तथा मन्त्राणां न पाठमात्रात्सम्भूयबोधकतयैकवाक्यता । विनियोगाधीनत्वान्मन्त्रभेदाभेदयोः । स्योनं ते मन्त्रस्य विनियोगश्च लैङ्गिक इति लिङ्गपूर्वकं वाक्यं स्वापेक्षणीयाल्लिङ्गाद्विलम्बितमिति दुर्बलम् । अयमेव हि वाक्यस्य लिङ्गेन बाधो नाम यल्लिङ्गानुसारेण भेदकल्पनम् ।।
न्यायदीपः
लिङ्गाद्वाक्यस्य दौर्बल्यबीजविप्रकर्षमाह ।। तथा मन्त्राणामिति ।। स्योनं ते सदनं कृणोमीत्यादीनां तस्मिन्सीदेतिभागेन सहाध्ययनमात्रेण सम्भूय मिलित्वाबोधकतयैकवाक्यता नेत्यर्थः ।
।। मन्त्रभेदाभेदयोरिति ।। स्योनं त इत्यारभ्य कल्पयाम्यन्त एको मन्त्रस्तस्मिन्नित्यादिरन्य इति वा, स्योनं त इत्यादि सुमनस्यमान इत्यन्तं सर्वोप्येकं एवेति मन्त्रभेदाभेदयोर्विभागेनैकैकदेशस्य विनियोगेन वा, अविभागेन सर्वस्य मन्त्रस्य विनियोगेन वा, ज्ञातव्यत्वादित्यर्थः । अस्तु विनियोगा-धीनत्वं तथोः ततः किमित्यत आह ।। स्योनन्ते मन्त्रस्येति ।। स्योनं त इतिमन्त्रस्येत्यर्थः ।
तर्कताण्डवम्
तथा इतिकर्तव्यताकाङ्क्षालक्षणप्रकरणस्य सर्वापेक्षणीयत्वेन प्राधान्येपि तेन करणान्वयस्यैव सिद्धेः करणीयद्वारान्वयस्य कल्प्यत्वात्कप्ते च वाक्यीये आभिधानिके द्वारविशेषान्वये सति सर्वद्वारान्वयकल्पनायोगेन द्वारान्वये कप्ताद्वाक्यात्कल्प्य द्वारान्वयं प्रकरणं दुर्बलमिति । इन्द्राग्नी इदमित्यत्रेदमित्यादिकं समभि-व्याहृतेन्द्राग्न्यादिपदेनैवान्वेति नान्येन ।
न्यायदीपः
वाक्यप्रकरणयोर्बलाबलबीजमनुवदति ।। तथेतिकर्तव्यतेति ।। सर्वापेक्षणीयत्वेनेति ।। प्रधानापूर्वशब्दितविनियोगस्येतिकर्तव्यताकाङ्क्षा-वशादेव हि श्रुतिलिङ्गादिभिः पदार्थानामन्वयो बोध्य इति श्रुत्यादिसर्वा-पेक्षणीयत्वेनेत्यर्थः । तेन प्रकरणेन दर्शपूर्णमासयागप्रकरणान्वयस्येव सिद्धेः प्रकरणस्य सर्वकरणान्वयमूलत्वादिति भावः ।
।। करणीयेति ।। करणसम्बन्धि यद्द्वारं द्रव्यदेवताप्रकाशनादिरूपं तदन्वयस्य कल्प्यत्वादित्यर्थः । प्रकरणस्य तत्रासमर्थ्यादिति भावः ।। कप्ते चेति ।। इन्द्राग्नी इदं हविरजुषेतामित्यत्रेदं हविरित्यादेरिन्द्राग्नीपदसमभि-व्याहाररूपवाक्येनेन्द्राग्निदेवताप्रकाशनरूपद्वारविशेषान्वयः कप्तः प्रमित इत्यर्थः । अन्विते शक्तेरुपेतत्वेनाभिधानवृत्तिलब्धत्वादाभिधानिकश्च भवति । तस्मिन्विद्यमाने सर्वकरणीयाग्नीषोमादिदेवतादिप्रकाशनरूपद्वारान्वयकल्पनायाः प्रकरणप्राप्ताया अयोगेन द्वारान्वयविषये कप्ताद्वाक्यात्कल्प्यद्वारान्वयं प्रकरणं दुर्बलमित्यर्थः । दुर्बलमितीति शब्दो हेत्वर्थः । इति हेतोरिदमित्यादिकं इन्द्राग्न्यादिपदेनैवान्वेतीत्यर्थः ।। नान्येनेति ।। अग्नीषोमादिपदेनेत्यर्थः ।
तर्कताण्डवम्
तथा राजसूयप्रकरणे अभिषेचनीयेष्टिसन्निहितानां विदेवनादीनां वाक्यार्थत्वादरुणया क्रीणातीत्यादौ पदार्थानां क्रियाकारकाद्यन्वये आम्नासन्निधानस्य तन्त्रत्वेपि वाक्यार्थान्वये तस्यातन्त्रत्वान्नियोगा-काङ्क्षामुखसन्निधानस्यैव तन्त्रत्वात् तस्य च नियोगीयसर्वकरण-साधारण्यात्तदीयसर्वकरणान्वयो न तु सन्निधानादभिषेचनीयमात्रा-न्वयः । तत्सन्निधानं त्वाम्नानार्थम् ।
तथा पौरुषेययौगिकसञ्ज्ञारूपसमाख्या न वैदकीत्यन्वय-हेतुवैदिकसन्निधानकल्पनयैवान्वयहेतुर्न साक्षादिति शुन्धनमन्त्रस्य पुरोडाशपात्रान्वयबाधेन सान्नाय्यपात्रान्वय इति ।।
तन्न । अतिदेशप्रमाणयोश्चोदनालिङ्गवचनयोः क्रमप्रमाणयोः श्रुत्यर्थयोर्देवताप्रमाणयोर्लिङ्गतद्धितयोश्च बलाबले तस्य बीजस्या-ननुगमात् । न हि श्रुतिलिङ्गादिकं शेषशेषित्व एव प्रमाणम् ।।
न्यायदीपः
प्रकरणस्थानयोर्बलाबलबीजमाह ।। तथा राजसूयेति ।। वाक्यार्थ-त्वादिति ।। अक्षैर्दीव्यतीत्यादिवाक्यार्थत्वादित्यर्थः । अस्य वाक्यार्थान्वय इत्यनेन सम्बन्धः । पदार्थानामारुण्यादीनाम् ।। आम्नानसन्निधानस्य ।। पाठसान्निध्यस्येत्यर्थः । नियोगः राजसूयशब्दितेष्टिपशुसोमकरणकपरमापूर्वस्य या इतिकर्तव्यताकाङ्क्षा तद्द्वारकसन्निधानस्येत्यर्थः ।
।। तस्य चेति ।। नियोगाकाङ्क्षामुखसन्निधानस्येत्यर्थः ।। नियोगीयेति ।। नियोगजनकेष्टिपशुसोमरूपसर्वकरणसाधारण्यान्नियोगसम्बन्धिसर्वकरणशेषतेत्यर्थः ।। आम्नानार्थमिति ।। यत्र क्वच पठनीयत्वात्तत्र पाठः कृत इत्यर्थः ।
स्थानसमाख्ययोर्बलाबलबीजमाह ।। तथा पौरुषेयेति ।। अन्वय इतीति ।। शब्दस्य इत्येवमाहुरिति पूर्वेणान्वयः । अतिदेशप्रमाणयोरित्यादि भट्टमतबलाबलबीजभङ्गे विवृतमेतत् ।
ननु श्रुत्यादिकं शेषशेषिभाव एव मानं, तत्र चोक्तं बलाबलबीजं नाव्याप्तमित्यत आह ।। न हीति ।। चोदनालिङ्गस्य वचनशब्दित-श्रुतेश्चा१तिदेशमन्त्रलिङ्गस्य देवतायां श्रुत्यर्थशब्दितश्रुतिलिङ्गयोः क्रमे प्रमाणत्वादिति भावः ।
तर्कताण्डवम्
किञ्च मन्त्राधिकरणे तदर्थशास्त्ररूपश्रुतेरनुवादकत्वाय लिङ्गस्याग्रे-सरत्वोक्त्या तद्विरोधः ।।
अत्रोक्तं नयविवेके– अनुगुणतदर्थशास्त्राल्लिङ्गस्य अग्रेसरत्वं तत्रोक्तम् । शेषशेषिकिञ्चित्कारो हि विनियोगसामग्री । तत्रोरु-प्रथस्वेति पुरोडाशं प्रथयतीत्यादितदर्थशास्त्रैः शेषशेषिमात्रमर्पितम् । न तु शेषसाध्यः शेषिगतः प्रथनप्रकाशरूपः किञ्चित्कारः । स तु लिङ्गगम्यः ।
एवं च किञ्चित्कारार्थं श्रुत्यपेक्षितं लिङ्गं विनियोगसामग्रीभूत-शेषशेषिकिञ्चित्कारपूर्तेः स्वयमेव विनियोजकम् । तस्यां दशायां तदर्थशास्त्रमनुवादः । ऐन्द्र्यां तूपान्मन्त्रकरण इति सूत्रादुपपूर्वस्य तिष्ठतेरभिधानार्थत्वेनोपतिष्ठत इत्यनेन गार्हपत्याभिधानस्य किञ्चि-त्कारस्यापि श्रुत्यैवोक्तत्वाल्लिङ्गानपेक्षा श्रुतिरिति भेदः ।
न्यायदीपः
श्रुुतितो लिङ्गस्य विलम्बितगतित्वेन विप्रकर्षोक्तिर्मन्त्राधिकरण-विरुद्धेत्याह ।। किञ्चेति ।। नयविवेक इति ।। शाबरव्याख्यानरूपे प्राभाकरग्रन्थे मन्त्राधिकरणीयश्रुतिलिङ्गवैषम्यमुक्तं मन्त्राधिकरण इत्यर्थः ।
मन्त्रोक्तार्थप्रकाशकं तदर्थशास्त्रम् । तद् द्विविधं मन्त्रानुगुणं तदननुगुणं चेति । तत्राद्यंप उरु प्रथस्वेति पुरोडाशं प्रथयतीति । द्वितीयं तु धान्य-मसीति दृषदि तण्डुलानधिवपतीति । तत्रानुगुणशास्त्रादेव मन्त्रलिङ्गस्याग्रे-सरत्वमुक्तम् । न तु तदननुगुणशास्त्रस्य । तथाप्यैन्द्र्यादिस्थले न तत्साम्यमिति भावेन मन्त्रधिकरणोक्तं तद्व्यनक्ति ।। अनुगुणेत्यादिना ।।
कथमुक्तमित्यतो व्यनक्ति ।। शेषेत्यादिना ।। शेषकृतशेषिगतोपकार-शब्दित१किञ्चित्कारवतीत्यर्थः । किञ्चित्कारे लब्धे विनियोजकं प्रमाणं विनियुङ्क्ते नचेन्नास्तीत्यर्थः ।। शेषशेषिमात्रमिति ।। मन्त्रः शेषः प्रथनं शेषीतीति विज्ञापितमित्यर्थः ।
।। लिङ्गगम्य इति ।। ‘‘उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम्’’ इति मन्त्रस्यार्थप्रकाशनसामर्थ्यरूपलिङ्गगम्यः । तावता कथं लिङ्गस्यागे्रसरत्व-मित्यत आह ।। एवं चेति ।। किञ्चित्कारे लिङ्गगम्ये सतीत्यर्थः ।। श्रुत्येति ।। विनियोजकतदर्थशास्त्रादिरूपश्रुत्येत्यर्थः ।
।। शेषेति ।। शेषकृतशेषिगतप्रकाशनरूपकिञ्चित्कारस्य पूर्तेः पूर्णत्वादित्यर्थः । अस्त्वेवं प्रकृते किमित्यत आह ।। ऐन्द्र्यां त्विति ।। उपादिति ।। उपशब्दपूर्वकात्स्थाधातोरात्मनेपदं भवति, मन्त्रकरण-काभिधाने विवक्षिते सतीति पाणिनिसूत्रादित्यर्थः । अभिधानार्थत्वेनेत्येक-देशानुवादः । तावत एव प्रकृतोपयोगात् ।। किञ्चित्कारस्यापीति ।। न केवलं शेषादिस्वरूपस्येत्यपेरर्थः ।
तर्कताण्डवम्
धान्यमसीति दृषदि तण्डुलानधिवपतीति विगुणतदर्थशास्त्रे किञ्चित्कारस्य श्रुत्यानुक्तत्वेपि तत्र विनियोज्यस्य मन्त्रस्य वाक्य-रूपत्वेनाभिधानसामान्यरूपकिञ्चित्कारसामान्यमाश्रित्य श्रुतिरेव विनियोजिका । लिङ्गलभ्यस्य धान्यप्रकाशरूपकिञ्चित्कारस्य शेषीभूत- तण्डुलगतत्वाभावेन विध्यनपेक्षिततया तिरस्कृतत्वात् । अनुगुण-तदर्थशास्त्रे तु प्रथनप्रकाशनरूपकिञ्चित्कारविशेषो न तिरस्कारार्हः । विध्यपेक्षितत्वादिति ।
न्यायदीपः
नन्वेवं– विगुणतदर्थशास्त्रेऽपि किञ्चित्कारस्य श्रुत्यलभ्यत्वात्तत्रापि लिङ्ग-सापेक्षता स्यादित्यत आह ।। धान्यमसीति ।। विगुणेति ।। मन्त्रब्राह्मणयो- र्भिन्नार्थत्वादिति भावः ।। श्रुत्येति ।। विनियोजकब्राह्मणस्थश्रुत्येत्यर्थः ।
।। अभिधानसामान्येति ।। धान्याभिधानतण्डुलाभिधानत्वरूपविशेष-विनाकृतसामान्यरूपेत्यर्थः ।। विधीति ।। अधिवपतीति विध्यनपेक्षितत्वे-नेत्यर्थः । विगुणतदर्थशास्त्रप्रक्रियोपन्यासो वक्ष्यमाणदोषोक्तिसौकर्याय । अनुगुणेप्येवं कुतो नेत्यत आह ।। अनुगुणेति ।।
तर्कताण्डवम्
उच्यते–
यथा ग्राहैकदमर्थ्यस्य प्रथमावगतस्य पाश्चात्येनद्वारैदमर्थ्येन निर्वाहः, यथा वारुण्यस्य क्रयसाधनताया पूर्वावगतायाः पार्ष्टिकेन द्रव्यान्वयेन निर्वाहः, यथा वा रथघोषेण माहेन्द्रस्तुतिमुपाकरो-तीत्यत्रादृष्टद्वारिकाया माहेन्द्रस्तुतिं प्रति रथघोषशेषतायाः व्रीहीन्प्रोक्ष-तीत्यत्र व्रीहीन्प्रतिप्रोक्षणशेषतायाश्च पश्चात्कल्पितेनादृष्टेन निर्वाहः; तथा हि पुरोडाशं प्रथयतीति तदर्थशास्त्रस्थेनेति शब्देन मन्त्रस्य करणत्वप्रतीतेरनेनेदङ्कर्तव्यमित्येवंरूपेण तदर्थशास्त्रेण स्पष्टं पूर्वा-वगतस्य विनियोगस्य पाश्चात्येन लैङ्गकेन किञ्चित्कारेण निर्वाहोस्तु । न हि किञ्चित्काररूपोपकारहेतुत्वमेव शेषत्वम् । उपकारकस्याप्या-धानस्य अनङ्गत्वात् । त्वन्मतेऽनुपकारकस्याप्यवघातस्य कृष्णलान् प्रतिशेषत्वाच्च ।
न्यायदीपः
यन्मन्त्राधिकरणेतिश्रुतितो लिङ्गस्य प्रथमप्रवृत्तत्वमुक्तम् । तदयुक्तम् । ऐन्द्र्येत्यादाविव तत्रापि श्रुतेरेव प्राथम्योपपत्तेरित्येतद्दृष्टान्तचतुष्टयोक्ति-पूर्वकमाह ।। यथेत्यादिना ।। ग्राहकेति ।। अवघातादेः परमापूर्वका-काङ्क्षया तच्छेषत्वेनावगतस्य व्रीह्यादिद्वारशेषत्वेन निर्वाहः साक्षादसम्भवा-दित्यर्थः ।। आरुण्यस्येति ।। अरुणया क्रीणातीत्यादिवाक्योक्तस्येत्यर्थः ।
।। द्रव्येति ।। गवा क्रिणातीत्युक्तगोरूपद्रव्येन्वयेनेत्यर्थः ।। रथघोषे-णेति ।। सोमयागे क्रीतसोमलताधारभूतरथाकर्षोत्पन्नचक्रघोषेणेत्यर्थः । रथघोषं श्रुत्वा महेन्द्रस्तोत्रं कुर्यादित्यर्थः । दृष्टासम्भवादाह ।। अदृष्टेति ।। शेषताया निर्वाह इत्यन्वयः ।। व्रीहीनिति ।। यथा वेत्यनुकर्षः ।। अदृष्टे-नेति ।। व्रीहिगतातिशयरूपादृष्टेनेत्यर्थः ।
ननु– शेषत्वप्रतीतावेव किञ्चित्कारप्रतीत्या भाव्यं तद्धेतुत्वस्यैव शेषत्वरूपत्वादिति वदन्तं प्रत्याह ।। न हीति ।। आधानस्यानङ्ग-त्वादिति ।। ‘‘तत्प्रकृत्यर्थं यथान्येनारभ्य वादा’’ इति तृतीयषष्ठपादीय-पञ्चमाधिकरणे तथोक्तेरिति भावः । अव्याप्तिं चाह ।। त्वन्मत इति ।। कृष्णलः स्वर्णमाषः । ‘‘प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्काम’’ इति विकृतौ श्रुतकृष्णलान्प्रति तुषविमोकलक्षणोपकारमकुर्वतोपीत्यर्थः ।
तर्कताण्डवम्
यदि तु अनुगुणतदर्थशास्त्रस्यानुवादकत्वाय लैङ्गिककिञ्चित्कार-प्रतीतिर्विनियोगसामग्रीति मतं, तदा विगुणतदर्थशास्त्रस्थलेपि सैव विनियोगसामग्री स्यात् । तदर्थशास्त्रस्थं तु तण्डुलपदं लिङ्गानुसारा-द्धान्यलक्षकं स्यात् ।
कथं हि सन्निकृष्टत्वेन प्रबलं लिङ्गं विप्रकृष्टस्यानुगुणतदर्थ-शास्त्रस्यानुवादकतामापादयद्विगुणतदर्थशास्त्रस्य गौणतां नापादयेदिति लिङ्गमेव बलीयः स्यादिति दिक् ।
न्यायदीपः
विपक्षबाधकेनापि लिङ्गस्याग्रेसरत्वं निराह ।। यदि त्विति ।। विगुणस्थले लिङ्गगम्यकिञ्चित्कारो नास्तीत्यत आह ।। तदर्थशास्त्रस्थं त्विति ।। लिङ्गेति ।। मन्त्रलिङ्गानुसारादित्यर्थः ।
लिङ्गाच्छ्रुतेर्गौणत्वमन्याय्यमित्यत आह ।। कथं हीति ।। सन्निकृष्ट-त्वेनेति ।। किञ्चित्कारपूर्त्या विनियोजकं लिङ्गमित्युक्तत्वादिति भावः ।
तर्कताण्डवम्
प्रकाशस्त्वग्रेसरत्वेपि श्रुतेर्भाविन्या लैङ्गिक्याप्राप्त्यानुवादता, त्रिकालायां ह्यप्राप्तौ विधिः, एवं च श्रुतिलिङ्गनयोक्तं श्रुतेरग्रेसरत्वेन प्राबल्यं मन्त्राधिकरणोक्तमनुगुणतदर्थशास्त्रस्यानुवादकत्वं चाविरुद्धम्, विगुणतदर्थशास्त्रे तु भाविन्यपि लैङ्गिकप्राप्तिर्नेति नानुवदकतेत्याह ।
तन्न । अवश्यम्भाविनी हि प्राप्तिर्विधित्वं विहन्ति । इह तु ज्ञाते श्रौते विनियोगे ग्राहकमन्त्राम्नानयोश्चरितार्थत्वाद् भाव्यपि लैङ्गिंको विनियोगो नास्त्येव ।
किञ्च लैङ्गिकप्राप्तेर्भावित्वेपि न पूर्वस्याः श्रुतेरनुवादता उक्तस्य वादो ह्यनुवादः ।।
न्यायदीपः
लिङ्गस्य सर्वत्र विप्रकृष्टत्वेन दौर्बल्यमेवोपेत्य केनचिदुक्तं समाधिमनूद्य निराह ।। प्रकाशस्त्विति ।। कस्यचिन्नामैतत् आहेत्यन्वयः । अनुवाद-तानुगुणतदर्थशास्त्रस्य दुर्लभेति भावेन दूषयति ।। तन्नेत्यादिना ।। इह त्विति ।। उरुप्रथस्वेति विनियोगस्थले त्वित्यर्थः ।। ग्राहकेति ।। ग्राहकस्य मन्त्राम्नानस्य चेत्यर्थः ।
ननु– श्रौतविनियोगे जातेपि किन्द्वारास्य शेषत्वमिति विचारे दृष्ट-सम्भवेऽदृष्टकल्पनायोगाल्लैङ्गिकोपि विनियोगः आवश्यक इति वादिं प्रत्याह ।। किञ्चेति ।।
तर्कताण्डवम्
चन्द्रस्तु– यद्यपि श्रुत्या शीघ्रं विनियोगः । स तु क्रियाकार-कान्वयरूपो द्वैतीय एव । न तु शेषशेषित्वरूपस्तार्तीयः । किञ्चि-त्कारस्य श्रुत्यानुक्तेः । किन्त्वयं लैङ्गिक एव । ऐन्द्र्यान्त्वभिधानरूपः किञ्चित्कारः श्रुत्योक्तः इति तत्र तार्तीयोपि श्रौत इत्याह ।
तन्न । धान्यमन्त्रे किञ्चित्कारस्य श्रुत्यानुक्तत्वेन तत्र विनियोगस्याश्रौतत्वापत्तेः । श्रुतिलिङ्गाधिकरणे तार्तीयशेषत्व एव श्रुतिलिङ्गयोर्बलाबलस्योक्तत्वेन तत्रैव श्रुतेः शीघ्रताया वक्तव्यत्वाच्च । प्रतीयते चेप्सिततमत्वाद्यभिधायकद्वितीयादिना लिङ्गादपि शीघ्रं शेषत्वम् ।
न्यायदीपः
प्रकारान्तरेण मन्त्राधिकरणविरोधं१ केनचिदुक्तमनूद्य निराह ।। चन्द्रस्त्विति ।। इत्याहेत्यन्वयः । द्वैतीयो द्वितीयाध्यायसम्बन्धी । एवं तार्तीय इत्यपि ।। किञ्चित्कारस्य ।। शेषकृतस्य शेषिगतस्येत्यर्थः । अयं, किञ्चित्कार इत्यर्थः ।। अभिधानरूप इति ।। उपान्मन्त्रकरण इत्यादिप्रागुक्तरीत्येति भावः ।। श्रौत इति ।। लैङ्गिकश्चेत्तदा श्रुतेरग्रेसरत्वविरोधः स्यादिति भावः । श्रुत्यनुक्तत्वमात्रेणाश्रौतत्वेतिप्रसङ्गमाह ।। धान्येति ।। ‘‘धान्यमसीति दृषदि तण्डुलानधिवपत’’ इत्यत्रेत्यर्थः ।
यत्तु– श्रुतेः शीघ्रं विनियोजकत्वं द्वितीयाध्यायोक्तक्रियाकारकान्वय-बोधकत्वरूपमेव । लिङ्गविनियोजकत्वं तु तृतीयोक्तशेषत्वादिबोधकत्वादिरूपं क्वचित्तृतीयेपि श्रौतमपि नियोजकत्वमस्तीति । तत्र द्वितीये श्रौतविनियोग इत्ययुक्तमित्याह ।। श्रुतिलिङ्गेति ।।
।। अंशत इति ।। ‘‘आग्नेय्याग्नीध््रामुपतिष्ठत’’ इत्यादिस्थले श्रुतेरग्रे-सरत्वोपगमेऽनुवादकता । ‘‘उरुप्रथस्वेति पुरोडाशं प्रथयत’’ इत्यादि-तदनगुणतदर्थशास्त्रस्थले लिङ्गस्य विधिरूपत्वं तस्यैव तत्राग्रेसरत्वोक्तेरिति भावः ।। श्रुतेरिति ।। तदर्थशास्त्ररूपश्रुतेः शीघ्रत्वादित्यर्थः । इतिशब्दो मन्त्राधिकरणविरोधपरिहारप्रकारभेदखण्डनरूपावान्तरप्रकरणसमाप्तौ ।
तर्कताण्डवम्
यत्तु केनचिदुक्तं– न प्रतिमन्त्रं लैङ्गिको विनियोगः । किं तु यो मन्त्रो यत्प्रकाशकः तत्तेन कुर्यादिति ग्राहकगृहीतसर्वमन्त्रसाधारण एक एव विनियोगः । तेन बहुविषयस्य लिङ्गस्यांशतोनुवादकत्व-म१न्ततश्च विधित्वमिति स्वीकारे वैरूप्यापत्तेः सर्वत्रापि विधितैव । तदर्थशास्त्रं त्वल्पविषयत्वाद्वैरूप्याप्रसङ्गादनुवाद इति । तन्न । प्राबल्याय श्रुतेः शीघ्रत्वादनुवादकत्वायोगात् । अनुवादकत्वाय लिङ्गस्यैव शीघ्रत्वे तु श्रुतेर्विप्रकर्षेण दौर्बल्यापातादिति ।
यच्च लिङ्गवाक्ययोर्बलाबलबीजमुक्तम् । तन्न । लौकिक वाक्यवत् ब्राह्मणवाक्यवत् छन्दो निबद्ध ऋगात्मकमन्त्रवत् इषेत्वेत्यादि-श्रुतिविनियुक्तयजुर्वच्च स्योनं त इत्यादिलिङ्गविनियोज्ययजुःस्वपि-विनियोगनिरपेक्षमेवार्थैकत्वनयोक्तरीत्या अर्थवशेनैव भेदाभेदप्रतीतेः ।
उक्तं हि–
‘‘रूपादुत्तरकाले हि विनियोगप्रयोजने ।
तस्मात्प्रागेव तत्कप्तेर्भेदाभेदप्रतीक्षणम्’’ ।।
इति । न हि विनियोगादुत्तरकालं रूपनिरूपणं युक्तम् । अज्ञात-स्वरूपस्य विनियोगाशक्तेः ।
यदा च मन्त्ररूपनिरपेक्षश्रुतिविनियुक्ते इेष त्वेत्यादौ स्वत एव वाक्यभेदधीः तदा किं वक्तव्यं मन्त्ररूपसापेक्षलिङ्गविनियोज्य इति । एवं वाक्यप्रकरणादेरपि परोक्तबलाबलबीजदूषणमूह्यम् ।
तस्माट्टीकोक्तमेव श्रुत्यादिलक्षणं बलाबलबीजं च युक्तम् । नान्यदिति ।
।। प्राभाकरोक्तश्रुत्यादिबलाबलबीजभङ्गः ।। ८३ ।।
।। इति श्रीब्रह्मण्यतीर्थुपूज्यपादानां शिष्येण व्यासयतिना विरचिते तर्कताण्डवे द्वितीयःपरिच्छेदः समाप्तः ।।
न्यायदीपः
लौकिकवाक्यवदित्यादिवतिप्रत्ययाः सप्तम्यान्ताद्ध्येयाः । लौकिक-वाक्यादावर्थवशेनैव भेदाभेदधीस्तथेत्यर्थः ।। श्रुतिविनियुक्तेति ।। इषेत्वेति छिनत्ति ऊर्जेत्वेत्यनुमार्ष्टीत्येवं रूपेण विनियुक्तेत्यर्थः ।। अर्थैकत्वेति ।। अर्थैकत्वादेकं वाक्यमिति नयोक्तेत्यर्थः ।
।। रूपादिति ।। स्वरूपनिर्णयादुत्तरकाल इत्यर्थः । तत्कप्तेः विनियोगप्रयोजननिर्णयात् प्रागेवेत्यर्थः । श्रुतिविनियुक्ते यजुषि भेदधीर्युक्ता । न तु लिङ्गविनियोज्ये प्रागेव भेदधीरित्यत आह ।। यदा चेति ।। एवमिति ।। यथा ग्राहकैदमर्थ्यस्येत्याद्युक्तदिशा प्रकरणस्य विनियोजक-सर्वप्रमाणसहायत्वेन तेन प्रथमावगत१करणीयान्वयस्येन्द्राग्न्यादिवाक्यशेषतया यथाश्रुताम्नानाबाधेनाप्युपपत्त्या तत्र प्रकरणबाधाभावात् प्रकरणस्थान-बलाबलबीजस्थलेप्यभिषेचनीयाङ्गत्वाबाधेनैवाधिकेष्टिपश्वाद्यङ्गत्वस्योक्तत्वेन तत्र प्रकरणप्राबल्येन सन्निधिबाधाभावात् । यथासङ्ख्याम्नानादिस्थले त्वदुक्तबीजाभावाच्च समाख्यादौर्बल्यबीजं चायुक्तम् । वैदिकसमाख्याया-मव्याप्तेः । तस्यापौरुषेयत्वेन साक्षाच्छ्रुतेरिव विनियोजकत्वसम्भवा-दित्यादिरूपेणोह्यमित्यर्थः ।
परोक्तखण्डनस्योपयोगं वदन्नुपसंहरति ।। तस्मादिति ।। उक्तदिशा परोक्तस्य दोषग्रस्तत्वात् टीकोक्तस्य चानवद्यत्वादित्यर्थः ।
।। प्राभाकरोक्तश्रुत्यादिबलाबलबीजभङ्गः ।। ८३ ।।
।। इति श्रीमत्सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते
तर्कताण्डवविवरणे न्यायदीपे द्वितीयः परिच्छेदः समाप्तः ।।
शिष्यराघवेन्द्रयतिकृते
तर्कताण्डवविवरणे न्यायदीपे द्वितीयः परिच्छेदः समाप्तः