अथापि स्यात् भ्रमसामान्येप्रत्यक्षादिभ्रमे..

स्थूलावयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः

तर्कताण्डवम्

अथापि स्यात् भ्रमसामान्येप्रत्यक्षादिभ्रमे वानुगतदोषस्याभावेपि तत्तद्भ्रमविशेषे पित्तादिरिव स्थूलावयविप्रत्यक्षप्रमायां भूयोवयवेन्द्रिय-सन्निकर्षः, संशयविपर्ययोत्तरप्रत्यक्षप्रमायां विशेषप्रमा, नियमेनप्रमयो-रनुमितिशाब्दप्रतीत्योः सत्यलिङ्गपरामर्शवाक्यार्थज्ञाने चान्वयव्यति-रेकाभ्यां हेतू । एवं चप्रमाया अप्रमाव्यावृत्ताननुगताधिकहेतु-जन्यत्वात्परतस्त्वम् । त एवाननुगता हेतवःप्रमांप्रत्यसाधारण-हेतुत्वेनोपाधिना गुणा इत्युच्यन्ते । तस्मादनित्यप्रमात्वमनित्य-ज्ञानत्वप्रयोजकाधिकप्रयोज्यं तदन्वयव्यतिरेकानुविधायित्वात् । अप्रमात्ववत् । अन्यथा अप्रमापिप्रमा स्यात् । न चाप्रमायामधिको दोषो हेतुरस्तीति वाच्यम् । तथात्वे भ्रमस्यप्रमात्वप्रयोजकजन्यत्वे सत्यधिकजन्यत्वेनप्रमाविशेषत्वापातादिति मम सिद्धान्तरहस्यमिति चेन्मैवम् ।

भूयोवयवेन्द्रियसन्निकर्षे शङ्खत्वादिविशेषदर्शने च सत्यपि पीतः शङ्ख इत्यादिभ्रमस्य वंशे उरगभ्रमस्य बाष्पावयवे धूमावयविभ्रमेऽ-वयव्यंशे एव भ्रमस्य दर्शनेनान्वयव्यभिचारात् ।

यदि च तत्र पित्तमण्डूकवसाञ्जनादिदोषप्रतिबन्धात्प्रमानुत्पत्ति-स्तर्ह्यावश्यकत्वाद्दोषाभाव एव हेतुः मम तु दोषाभावेनाप्रमारूप-विपरीतकार्यानुत्पत्तौ ज्ञानसामग््रयैवप्रमोत्पत्तिः ।

न्यायदीपः

यत्तूक्तं मणौ ‘‘तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्य-वाक्यार्थज्ञानानां यथायथंप्रत्येकमेव गुणत्वम् । अन्वयव्यतिरेकात् । तत्तदप्रमायां पित्तादिलिङ्गभ्रमादीनां दोषत्ववत्प्रत्यक्षे विशेषदर्शनमपि गुणः । तदनुविधानात्’’ इत्यादितत्तात्पर्यमाशङ्कते ।। अथापि स्यादित्यादिना ।। संशयेति ।। संशयोत्तरविपर्ययोत्तरेत्यर्थः ।। विशेषेति ।। व्याप्येत्यर्थः ।प्रमयोरितिप्रतीत्योर्विशेषणम् । तावता कथंप्रमात्वस्य परतस्त्वमित्यत आह ।। एवं चेति ।। उक्तसन्निकर्षादेः हेतुत्वे सतीत्यर्थः । गुणाजन्यत्वा-त्कथमेतदित्यत आह ।। त एवेति ।। असाधारणेति ।। भ्रमव्यावृत्तेन्यर्थः ।

मणिकृदभिमतमनुमानमाह ।। तस्मादिति ।। उक्तसन्निकर्षादेर्गुणत्वेन तज्जन्यत्वेनप्रमायाः परतस्त्वसम्भवात्प्रयोग उच्यत इत्यर्थः ।। तदन्वयेति उक्तरूपसन्निकर्षादिलक्षणाधिककारणपरामर्शः । हेतोरप्रयोजकत्वनिरासाय विपक्षे बाधकमाह ।। अन्यथेति ।। अनित्यज्ञानत्वप्रयोजकादधिका-प्रयोज्यत्वे तन्मात्रप्रयोज्यत्व इत्यर्थः । आपादकासिद्धिमाशङ्क्याह ।। न चेति ।।प्रमात्वप्रयोजकेति ।। अनित्येति योज्यम् । अनित्यज्ञानत्व-प्रयोजकस्यैवानित्यप्रमात्वप्रयोजकत्वेन त्वदभिमतेरिति भावः ।। इत्यादिभ्रमस्येति ।। तिक्तो गुड इत्यादिरादिपदार्थः ।। वंशेति ।। १अनुरगत्वस्य स्पर्शने दर्शने भूयोऽवयवेन्द्रियसन्निकर्षे सत्यपि मण्डूकवसाक्त-नेत्रस्य मण्डूकवसादोषेण जायमानस्य वंशे उरगभ्रमस्येत्यर्थः ।

तदिन्द्रियजप्रत्यक्षप्रमायां तदिन्द्रियजविशेषदर्शनं हेतुरिति विशेषदर्शनस्य हेतुत्वे भवेदेवं विशेषविवक्षा । तदेवायुक्तमिति ‘‘एवं भ्रमोत्तरप्रमायामपि’’ इत्यादिना वक्ष्याम इति भावेन स्थलान्तरेप्युक्तसन्निकर्षस्य व्यभिचारमाह ।। बाष्पेति ।। धूमेति ।। धूमरूपावयवीत्यर्थः ।

यत्र स्थूलावयविप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षो गुण इत्युक्तं तस्मि-न्नेवेति विरोधस्फोरणायावयव्यंश एवेत्युक्तम् । अञ्जनादीत्यादिपदेन सारूप्यादिग्रहः ।। दोषाभाव एवेति ।। यादृच्छिकसंवादिनि दोषाभावःप्रमाव्यभिचारीति तूत्तरभङ्गे निरसिष्यत इति भावः । यत्तु सन्निकर्षाद्युत्कर्षेणप्रमोत्कर्षात्सन्निकर्षादिरेव हेतुरिति । तन्न । उक्तस्थलेषु तदुत्कर्षे सत्यपिप्रमानुदयेन व्यभिचारात् ।

ननु सिद्धान्ते दोषाभावस्य प्रामाण्याहेतुत्वादुक्तस्थले प्रामाण्यप्रयोजक-ज्ञानसामग्रीसत्त्वात्प्रमोत्पत्तिः स्यादित्यत आह ।। मम त्विति ।। यद्वा तावतापि सिद्धान्ते स्वतस्त्वहानिरित्यत आह ।। मम त्विति ।।

Load More