आश्रयासिद्धिस्तु न दोषः
अथाश्रयासिद्धेर्दोषत्वभङ्गः ।। २६ ।।
तर्कताण्डवम्
आश्रयासिद्धिस्तु न दोषः । तथा हि–
न तावदाश्रयासिद्धत्वं अनित्यो घटः कार्यत्वा१द्घटवदित्यादाविव सिद्धसाधकत्वं तत्र सन्देहगर्भितपक्षत्वाभावेन पक्षरूपाश्रयाभावादिति युक्तम् । सन्देहाभावेऽपि पक्षताया उक्तत्वात् । तस्य मन्मतेऽप्य-सङ्गतत्वान्तर्भावेण दोषत्वात् ।।
नापि स्वर्णमयोऽद्रिरग्निमानित्यादाविव पक्षविशेषणाभावेन पक्षीकृताकारेणासत्त्वं तस्य मन्मतेऽपि बाधान्तर्भावेण दोषत्वात् ।।
नाप्यत्यन्ताभावाश्रयकत्वम् । अभावस्य तुच्छत्वेन प्रतिबन्धका-भावे कारणत्वस्येवाभावे आश्रयत्वस्याप्यभावात् अत्यन्ताभावस्या-प्रामाणिकप्रतियोगिकत्वेनाप्रामाणिकत्वाच्चेति युक्तम् । अत्यन्ताभाव-प्रतियोगिन एव तुच्छत्वेनाभावस्यातुच्छत्वात् । प्रतिबन्धकाभाव-स्याप्यन्यथासिद्ध्यैवाकारणत्वात् । अप्रामाणिकत्वस्य प्रामाणिका-त्यन्ताभावप्रतियोगित्वरूपत्वेन हेतोर्विरुद्धत्वाच्च । तस्याप्यभावत्वा-प्रामाणिकप्रतियोगिकत्वादिधर्माश्रयत्वाच्च । तदुक्तम् । ‘न चात्यन्ता-भावोऽपि सर्वधर्मरहित’ इति ।।
किं तु वन्ध्यासुतो न वक्ता अचेतनत्वादित्यादाविवासाश्रयत्वम् । तस्य तु दोषत्वं किमसतो निर्धर्मकत्वेन, साध्यधर्मानाश्रयत्वेन बाधात्, साधनाभावेनासिद्धेर्वा प्रतीत्यविषयत्वेन विधिनिषेधरूप-सकलव्यवहाराभाजनत्वाद्वा अप्रामाणिकत्वेन प्रमाणानङ्गत्वाद्वा तस्यादोषत्वेऽतिप्रसङ्गाद्वा निरधिकरणयोर्धर्मयोर्नियतसामानाधिकरण्य-रूपव्याप्त्यभावाद्वा ।।
नाद्यौ । असति त्वदुक्तयोः साध्यसाधनधर्मानाश्रयत्वरूपयोः साध्ययोर्निर्धर्मकत्वरूपस्य साधनस्य चासम्भवेन तवापि बाधादि-प्रसङ्गात् । त्वदुक्तधर्माणामभावरूपत्वात्तत्र सम्भवे च तत एव मदुक्तावक्तृत्वाचेतनत्वादेरपि सम्भवात् । भावरूपाणां तु मयाप्यनङ्गी-कारात् ।
यदि च साध्यधर्माद्यभावाद्याश्रयत्वाभावेऽपि साध्यधर्माद्य-नाश्रयत्वस्य सत्त्वात्तव न बाधादिः तर्हि वक्तृत्वाभावाश्रयत्वाभावेऽपि वक्तृत्वानाश्रयत्वस्य सत्त्वान्ममापि न बाधादिः ।।
एतेनासत्त्वादेव वक्तृत्वादिवदवक्तृत्वादिकमपि नेति बाधादीति निरस्तम् । वन्ध्यासुतविशिष्टस्य वक्तृत्वस्याभावं प्रति वन्ध्यासुता-सत्त्वस्य साधकत्वेनाबाधकत्वात् । विशेषणविशेष्ययोरभावे विशिष्टा-भावदार्ढ्यात् । तत एव प्रामाणिकत्ववदप्रामाणिकत्वस्याप्य-भावापाताच्च ।।
नन्वप्रामाणिकत्वादिकमसत्त्वानुगुणं तदभावे प्रामाणिकत्वेन सत्त्वापातादिति चेत् समं प्रकृतेऽपि अवक्तृत्वाभावे वक्तृत्वेन सत्त्वापातात् ।।
किञ्च वक्तृत्ववदक्तृत्वस्याभावे बाधवदबाधोऽपि स्यात् । अपि च त्वदुक्तवक्तृत्वावक्तृत्वोभयाभावरूपं साध्यमसत्त्वरूपं साधनं च न स्यादिति तवापि बाधादि स्यात् । नन्वप्रामाणिकत्वादिकं प्रत्यसतोऽनाश्रयत्वेऽपि अप्रामाणिकत्वादिके तदाश्रितत्वं वा असत्येव तज्ज्ञानहेतुभूतज्ञानविषयत्वविशेषरूपं निरूपकत्वं वा युक्तम् । अतीतादौ विषयत्वरूपधर्माभावेऽपि तज्ज्ञाने तद्विषयकत्वदर्शनात् । शुक्तिरूप्यतादात्म्यादौ प्रतीतिमात्रेण निरूपकत्वदर्शनाच्चेति चेत् । समं प्रकृतेऽपि ।।
विचित्रा हि धर्माः । केचिदाश्रिताः । यथा रूपादयः । केचिदन्याश्रिता अन्योपरञ्जकाः । यथा ज्ञानादयो घटादीनाम् । केचिदनाश्रिताः । यथाऽसत्त्वादयः शशशृृङ्गमसदित्यबाधितप्रतीतेः । अन्यथा तस्यासत्त्वासिद्धेः ।।
किञ्च त्वन्मते भूतलघटाभावयोरपि सम्बन्धो न संयोगादिः नाप्यूर्ध्वाधरीभावादिः । किंतु निरूप्यस्याभावस्य स्वरूपमेव । न तु निरूपकस्याधिकरणस्योभयोर्वा स्वरूपम् । घटतज्ज्ञानयोः सम्बन्धस्य निरूप्यज्ञानमात्रस्वरूपत्वदर्शनात् । एवं वन्ध्यासुत-वक्तृत्वाभावयोरप्यभावस्वरूपमेव सम्बन्ध इति नायमधिकरण-सत्त्वापेक्षः ।।
मन्मतेऽपि भूतलघटाभावयोरिव वन्ध्यासुतवक्तृत्वाभावयोरपि संयोगाद्यन्योऽभावमात्राश्रितः संबन्धो नाधिकरणसत्त्वापेक्षः । अतीततज्ज्ञानयोरसत्तज्ज्ञानयोः शुक्तिरूप्यतादात्म्यतदभावयोरतीते वर्तमानं नास्तीत्यबाधितप्रतीत्या अतीतवर्तमानाभावयोः शशशृङ्गमस-दित्यबाधितप्रतीत्या शशशृृङ्गसत्त्वाभावयोः सम्बन्धे निरूप्यज्ञाना-भावादिस्वरूपमात्राश्रितत्वदर्शनात् । तद्वदचेतनत्वादेरसत्त्वादेर-सदाश्रितत्वस्य वा तन्निरूप्यस्वभावत्वरूपस्वरूपसम्बन्धस्य वा अभावमात्राश्रितस्य सम्बन्धान्तरस्य वा सिद्ध्यादिशब्दार्थत्वान्ना-सिद्ध्यादि ।।
न तृतीयः । प्रतीत्यविषय इति प्रतीतिविषयत्ववत् सकल-व्यवहाराभाजनमिति व्यवहारविषयत्ववच्च न वक्तेत्यादिप्रतीति-विषयत्वव्यवहारभाजनत्वयोरपि सम्भवात् । विस्तृतं चैतन्न्यायामृते ।।
किंच सकलव्यवहाराभाजनत्वे तव मौनं स्यात् । न चाप्रामाणि-केऽर्थे वावदूकत्वादपि मूकत्वमेव वरमिति वाच्यम् । वन्ध्यासुतस्या-प्रामाणिकत्वेऽपि तदप्रामाणिकत्वस्येव तदवक्तृत्वस्यापि प्रामाणि-कत्वात् । अप्रामाणिकेऽर्थे इत्युक्त्वा पुनर्मूकत्वोक्तौ, विधिनिषेधा-भाजनत्वमुक्त्वा पुनर्वावदूकत्वनिषेधे मूकत्वविधौ च व्याघाताच्च । १अप्रामाणिकमसदाश्रयकत्वं निषेद्धुं प्रक्रम्य व्याघातोद्भावनेऽप्रतिभया मध्ये मूकीभावादपि आदावेव मूकीभावस्य वरत्वेन मदुक्तासदाश्रयत्व निरासासिद्धेश्च ।।
न चतुर्थः । असन्न प्रमाणाङ्गं अप्रामाणिकत्वादिति २प्रमाणाङ्ग-त्वात् न वक्ता अचेतनत्वादिति प्रमाणाङ्गत्वस्यापि सम्भवात् ।।
न पञ्चमः । बाधादिहीनस्य वन्ध्यासुतो न वक्तेत्यादेः सद्धेतुत्वेन शशशृृङ्गमस्ति शृृङ्गत्वात् वन्ध्यासुतो वक्ता सुतत्वादित्यादेरसद्धेतोश्च बाधासिद्ध्यादिनैव दुष्टत्वेन चातिप्रसङ्गाभावात् । सुतत्वाभावेऽपि वन्ध्यासुतो न वक्तेत्यादौ पक्षीकरणं च वन्ध्यासुतशब्देन तथा प्रतीतिमात्रेण युक्तम् । नहि वन्ध्यासुतोऽसन्निति निषेधप्रयोजनक-प्रसक्त्यर्थं वन्ध्यासुत इत्युक्तिमात्रेण सुतत्वस्य सत्त्वं सिध्यति । अतिप्रसङ्गात् ।।
न षष्ठः । सदाश्रयत्वेऽपि प्रमेयत्वानित्यत्वादौ व्याप्त्यदृष्ट्या असदाश्रयत्वेऽप्यप्रामाणिकत्वासत्त्वयोर्व्याप्तिदृष्ट्या चावक्तृत्वा-चेतनत्वयोरपि व्यभिचारादर्शनेनाविनाभावरूपव्याप्तेः सम्भवात् । तयोर्घटादौ सामानाधिकरण्यदर्शनाच्च ।।
किञ्च असदाश्रयस्य साधकत्वं नेत्यपि केनचिल्लिङ्गेन साधनीयम् । तत्र चासन्नाश्रयः एवंवत्वादित्यसन्वा पक्षीकर्तव्यः, असदाश्रयो हेतुर्न साध्यसाधकः एवं त्वादित्यसदाश्रयो हेतुर्वा उभयथाऽपि स हेतुर-सदाश्रय एव । असति सद्धर्मानङ्गीकारात् । तच्च लिङ्गं व्याप्त्यभावेऽ-साधकत्वसाधकं न स्यादिति कथमसदाश्रयधर्मयोर्व्याप्त्यभावः ।।
तदुक्तं भगवत्पादैः । ‘‘असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विना कथं निवार्यते’’ इति ।।
तस्माद्दोषान्तरासङ्कीर्णोदाहरणाभावान्निषेधं प्रति पक्षत्वस्य च प्रतीतिमात्रेणोपपत्तेः नाश्रयासिद्धिर्दोष इति ।।
तदुक्तं भगवत्पादैः । ‘‘असत्यपि व्याप्तिरस्त्येवे’’ति । पक्षे असत्यपि अविनाभावरूपा व्याप्तिरस्त्येवेत्यर्थः ।।
न्यायदीपः
ननु यदुक्तमसिद्धिरव्याप्तिरिति द्वावेव हेतुदोषाविति तदयुक्तम् । आश्रया-सिद्धत्वाप्रसिद्धसाध्यकत्वव्यधिकरणासिद्धत्वरूपहेतुदोषाणां भावादित्यतः ‘आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्’ इत्यादिप्रमाणलक्षणतट्टीकाद्युक्त-रीत्याऽऽश्रयासिद्धत्वादेरदोषत्वं व्युत्पादयितुकाम आश्रयासिद्धत्वांशे तावदुत्तरमाह– आश्रयासिद्धिस्त्विति । तत्किमाश्रयासिद्धत्वं सिद्धसाधकत्वं वा पक्षीकृताकारेणासत्त्वं वा अभावाश्रयत्वं वा असदाश्रयत्वं वा असदाश्रयकत्वं वा । आद्यत्रयं तावन्न युक्तमिति निराकरोति– न तावदिति, नापि स्वर्णमय इति, नाप्यत्यन्ताभावेति च ग्रन्थेन । न तावदित्यस्य युक्तमित्यन्वयः । सिद्धसाधकस्य कथमाश्रयासिद्धत्वमित्यतो दूषणसौकर्यायाह– तत्रेति । उक्तत्वादिति । पक्षलक्षणोक्तिप्रस्तावे साध्यधर्म विशिष्टः पक्ष इत्युक्तत्वादित्यर्थः । दोषत्वादिति । परार्थानुमानेऽसङ्गति-रूपनिग्रहस्थानान्तर्भूतत्वेन दोषत्वस्य स्वाभिमतानुमानदोषोक्तिप्रस्तावे कथितत्वादिति भावः । पक्षविशेषणाभावेनेति । आश्रयविशेषणासिद्ध्या चाश्रयासिद्धिरसंकीर्णेति मण्युक्तेरिति भावः । बाधान्तर्भावेनेति । पक्ष-तद्विशेषणसाध्यतद्विशेषणादिबाधभेदेन बाधस्यानेकविधत्वात्पक्षविशेषण-बाधेऽन्तर्भाव इति भावः । नापीति । युक्तमित्यन्वयः ।।
अभावपक्षकत्वे आश्रयासिद्धत्वं हेतोः कुत इत्यत आह– अभाव-स्येति । अप्रामाणिकत्वाच्चेति । तथा च तस्य कथं पक्षत्वेनानुमान-प्रमाणविषयतेत्यर्थः । कथं तर्हि प्रतिबन्धकाभावस्य कारणत्वं नेत्युक्तं द्वितीयपरिच्छेदे इत्यतस्तस्यासत्त्वादकारणत्वं न भवतीत्याह– प्रतिबन्धकेति । द्वितीयो हेतुरयुक्त इत्याह– अप्रामाणिकत्वस्येति । अत्यन्ताभावोऽप्रामाणिकः अप्रामाणिकप्रतियोगिकत्वादित्युक्तिरयुक्ता अप्रामाणिकप्रतियोगिकत्वादित्यस्य तु प्रामाणिकात्यन्ताभावप्रतियोगी यः तत्प्रतियोगिकत्वादित्यर्थः । तथा चात्यन्ताभावोऽप्रामाणिक इति यत्साध्यं तदभावेन प्रामाणिकत्वेनाप्रामाणिकप्रतियोगिकत्वादिति हेतुर्व्याप्त इति कथं न विरुद्धहेत्वाभास इत्यर्थः । तस्यापीति । तथा चाश्रयत्वस्यैवाभावादिति व्याहतमिति भावः । तदुक्तमिति । प्रमाणलक्षणे ।।
एवं पक्षत्रये निरस्ते प्रश्नपूर्वं चतुर्थमवशेषयति– किंत्विति ।
‘‘दोषो व्याहतिरेवास्ति नृशृृङ्गास्तित्वसाधने’’
इत्यादिभक्तिपादीयानुव्याख्यानावतरणप्रस्तावे सुधायां विकल्पितरीत्या षोढा विकल्पयति– किमित्यादिना । बाधादित्यादिपञ्चम्यन्तानां दोषत्वमित्यनेनान्वयः । धर्मयोरिति । साध्यसाधनरूपधर्मयोरित्यर्थः । नाद्याविति । साध्यं नास्ति साधनं नास्तीति कल्पावित्यर्थः । बाधा-दीत्यादिपदेनासिद्धिग्रहः । त्वदुक्तधर्माणामिति । साध्यधर्मानाश्रयत्व-साधनधर्मानाश्रयत्वनिर्धर्मकत्वरूपधर्माणामित्यर्थः । तत्रेति । वन्ध्यासुता-दावसतीत्यर्थः । एतेनेत्युक्तं व्यनक्ति– वन्ध्येति । कथं साधकत्वमित्यत आह– विशेषणेति । वन्ध्यासुतरूपविशेषणस्य वक्तृत्वरूपविशेष्यस्य चाभाव इत्यर्थः । तत एवेति । असत्त्वादेवेत्यर्थः । सममित्युक्तं व्यनक्ति– वक्तृत्वेति । वक्तृत्ववदिति । वक्तृत्वस्येवेत्यर्थः । वन्ध्यासुतो न वक्ताऽचेतनत्वादित्यत्रावक्तृत्वरूपसाध्यधर्माभावाद्बाध इत्युक्तं त्वया, मया अवक्तृत्वाभावे वक्तृत्वं स्यादित्युक्तम् । वक्तृत्वमपि न चेत्तर्हि अवक्तृत्वं नेति कृत्वा बाध इति त्वयोच्यते तथा तदभावरूपवक्तृत्वमपि नेत्यबाधोऽपि स्यादित्यर्थः । असदाश्रयस्थले बाधासिद्ध्योरुद्भावनं स्वव्याहतं चेत्याह– अपि च त्वदुक्तमिति । वन्ध्यासुते वक्तृत्ववदवक्तृत्वमपि नास्ति असत्त्वादेवेति त्वदुक्तमित्यर्थः । न स्यादिति । असत्त्वादिति त्वदुक्तहेतो-रेवेति भावः । बाधादीति । बाधासिद्धी स्यातामित्यर्थः ।।
परमुखेन समाधिं वाचयित्वा साम्येनोत्तरमाह– नन्वित्यादिना । १एतज्ज्ञानेति । अप्रामाणिकत्वादिकं प्रति असत् आश्रय इति निरूपकत्वमस्ति । निरूपकत्वं च निरूप्यज्ञानहेतुभूतज्ञानविषयत्व-मित्यर्थः । घटादिव्यवहारं प्रति निरूपकघटादिनिष्ठनिरूपकत्वव्यावृत्त्यर्थं विशेषरूपमित्युक्तम् । केषाञ्चिदाश्रयाभावे असत्त्वमेव दृष्टमिति कथमाश्रयाभावे धर्माणां सत्त्वमित्यतः स्वभाव एवायं धर्माणामिति भावेन सुधोक्तमेवाह– विचित्रा हीत्यादिना ।।
ननु वन्ध्यासुते वक्तृत्वाभावरूपसाध्यसम्बन्धो न वन्ध्यासुतसत्त्वं विनोपपद्यत इति कथं तत्राचेतनत्वहेतुना साध्यसम्बन्धः सिध्येदित्यतोऽ-भावस्वरूपमेव तत्र सम्बन्ध इति दृष्टान्तपूर्वमाह– किं च त्वन्मत इति । संयोगादिः, समवाय आदिपदार्थः । द्रव्यत्वादिरूपत्वाभावादिति भावः । नापीति । घटादिवन्मूर्तत्वाभावादिति भावः । न तु निरूपकस्येति । तथात्वे भूतलोल्लेख्यपि ज्ञानमभावोल्लेखि स्यादिति भावः । उभयोर्वेति । अनेकत्वापत्तेः भूतलधियोभावानुल्लेखित्वाच्चेति भावः । अभावस्य स्वरूप-मेवेत्यत्र हेतुमाह– घटस्येति । यद्वा अभावस्वरूपमेवेत्यत्र नत्वित्यादि-नोक्तसाध्यद्वये च हेतुमाह– घटस्येति । नायमिति । वक्तृत्वाभावसम्बन्ध इत्यर्थः ।।
नन्वेवमपि भवन्मते सत्त्वापेक्षः स्यादित्यत आह– मन्मतेऽपीति । अभावमात्राश्रित इत्यत्र हेतुमाह– अतीतेति । षष्ठीद्विवचनान्तानां १षण्णां सम्बन्ध इत्यनेनान्वयः । एवं वन्ध्यासुतो न वक्ता अचेतनत्वादित्यत्र बाधदोषं निरस्यासिद्ध्यादि निराह– तद्वदिति । अप्रामाणिकत्वादेरिव । तस्य यथा असदाश्रितत्वादिकमुच्यते तथेत्यर्थः । अभावमात्रेति । चेतनत्वाभावमात्रेत्यर्थः । सिद्ध्यादिपदार्थत्वादिति पदच्छेदः । आदिपदेन बाधग्रहः । प्रतीत्यविषयत्वेन विधिनिषेधरूपसकलव्यवहाराभाजनत्वाद्वेति पक्षं निराह– न तृतीय इति । न्यायामृत इति । असतोऽपि साध्यसाधन-धर्माश्रयत्वादिकमस्तीत्येतत् मिथ्यात्वनिरुक्तिभङ्गे असतः प्रतियोगित्व-समर्थनवादे चेति भावः । तव मौनमिति । वन्ध्यासुतो न वक्ता अचेतन-त्वादित्यादावस्माभिरुक्ते सति तत्र प्रत्युत्तरं न २शक्यं स्यादिति भावः ।।
सत्यमेवमवक्तृत्वस्याप्रामाणिकत्वे मूकत्वमेव वरमिति भाषणं, न चैतदप्रामाणिकमित्याह– वन्ध्यासुतस्येति । अप्रामाणिकसम्बन्धिनः कथं प्रामाणिकत्वमित्यतो दृष्टान्तोक्तिः । स्वक्रियाविरोधं चाह– अप्रामाणिकेऽर्थ इति । पुनर्मूकत्वोक्तौ व्याघातादित्यन्वयः । प्रकारान्तरेणापि व्याहतिमाह– विधिनिषेधेति । असदाश्रयत्वमिति । असतः साधनाश्रयत्वमिति वा साध्यसाधनयोरसदाश्रयत्वं वा अप्रामाणिकमिति निषेद्धुमुपक्रम्य वर्तमानस्य तव प्रतीत्यविषय इति प्रतीतिविषयत्ववदित्यादिनाऽस्माभिर्व्याघातोद्भावने कृते सति प्रत्युत्तरापरिस्फूर्तिरूपाप्रतिभया कथामध्ये मूकीभावादपि कथोपक्रम एव मूकीभावस्य वरत्वेनेत्यर्थः ।।
असतोऽप्रामाणिकत्वेन प्रमाणानङ्गत्वाद्वाऽसदाश्रयत्वं दोष इति पक्षं निराह– न चतुर्थ इति । असदाश्रयत्वस्यादोषत्वेऽतिप्रसङ्गादिति पक्षं निराह– न पञ्चम इति । अतिप्रसङ्गो हि नृशृृङ्गास्तित्वादिरपि सिध्येदिति वक्तव्यः । स तु न युक्तः । दोषान्तरेणैव तत्सिद्धिप्रतिबन्धादिति भावेन–
‘‘दोषोऽव्याहतिरेवास्ति नृशृृङ्गास्तित्वसाधने’’
इत्याद्यनुव्याख्यानसुधोक्तमाह– बाधादीति । ननु सुतत्वा-भावाद्वन्ध्यासुत इति पक्षीकरणायोगात्सोऽप्यसद्धेतुरेवेत्यत आह– सुतत्वा-भावेऽपीति । अतिप्रसङ्गादिति । शुक्तिरूप्यतादात्म्यं नास्ति इह घटो नास्ति, शशे विषाणं नास्तीत्यादावपि निषेध्यस्य तत्र सत्त्वापातादिति भावः । सामानाधिकरण्यरूपव्याप्त्यभावादसदाश्रयत्वं दोष इति पक्षं प्रत्याह– न षष्ठ इति । साध्यसाधनयोर्व्याप्त्यभावे आश्रयस्यासत्त्वं न प्रयोजकं व्यतिरेकतोऽन्वयतश्च व्यभिचारात् । किन्तु व्यभिचारदर्शनादिकमेव । तदभावेऽसदाश्रययोरपि व्याप्तिरवधारयितुं शक्यत एवेति व्याप्त्यभावोऽसिद्ध इत्याह– असदाश्रयत्वेऽपीत्यादिना ।।
ननु कथमसदाश्रयत्वे सामानाधिकरण्यघटितव्याप्तिरित्यत उक्तं– अविनाभावेति । तादृशव्याप्तेः प्रागेव निरासादिति भावः । तादृशव्याप्ति-मङ्गीकृत्याप्याह– तयोरिति । अवक्तृत्वाचेतनत्वयोरित्यर्थः । यत्तु सुधाया-मत्रोक्तरीत्याऽसदाश्रयत्वस्य दोषत्वं षोढा विकल्प्यातिप्रसङ्गकल्पमेकं निरस्यान्ते ‘‘एतेन कल्पिताः पक्षाः समस्ता अपि निरस्ता’’ इति भक्ति-पादीयसुधावाक्यमत्र प्रतिपक्षदूषणाभिधानेन विवृतं ध्येयम् । असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विना कथं निवार्यत’’ इति प्रमाणलक्षण-तट्टीकयोरुक्तं विवृण्वानः असदाश्रयसाध्यसाधनयोर्व्याप्त्यभावे बाधकं चाह– किञ्चेति ।।
ननु हेतुपक्षकप्रयोगे प्रागुक्तहेतोः कथमसदाश्रयत्वं येनोभयथापि हेतुरसदाश्रय एवेति स्यादित्यत आह– असतीति । तथा चासन्निष्ठत्वेन प्रयुक्ताचेतनत्वादिरूपधर्मोऽप्यसति नास्त्येवेति तत्पक्षकोऽप्यसदाश्रय एवेति भावः । धर्मयोरिति । साध्यसाधनरूपयोरित्यर्थः । तदुक्तमिति । प्रमाण-लक्षणे । तस्मादित्युक्तहेतुं द्वेधा व्यनक्ति– दोषान्तरेति । निषेधं प्रत्यवक्तृत्वादिरूपवक्तृत्वादिनिषेधं प्रतीत्यर्थः । अविनाभावरूपव्याप्तेः सम्भवादित्युक्तेऽर्थे प्रमाणलक्षणवाक्यं संवादयति– तदुक्तमिति ।।
।। आश्रयासिद्धेर्दोषत्वभङ्गः ।। २६ ।।