किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम्

परतस्त्वे प्रथमप्रामाण्यानुमित्यसम्भवः

परतस्त्वे अप्रसिद्धविशेषणत्वोपपादनं

तर्कताण्डवम्

किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम् । अप्रसिद्ध-विशेषणत्वेनानुमानाप्रवृत्तेः ।प्रवृत्तिगतसंवादरूपवैचित्र्येण तद्धेतुज्ञाने वैचित्र्यानुमानेपि वह्न्यर्थिप्रवृत्तिहेतोः वह्नित्ववति वह्नित्वप्रकार-कत्वादिरूपप्रामाण्यस्य विशिष्यासिद्धेः ।

न च प्रामाण्यमात्रनिषेधे व्याघातदण्डभयेन विशेष्यवृत्तिप्रकार-कत्वरूपं प्रामाण्यं सामान्यत एवप्रसिद्धं वह्निज्ञाने साध्यमानं पक्षधर्मताबलाद्वह्नित्ववति वह्नित्वप्रकारकत्वादौ पर्यवस्यति । एवं च नाप्रसिद्धविशेषणत्वं नाप्यसाधारण्यमिति वाच्यम् ।प्रथमे स्वार्थानुमाने परकीयस्य प्रामाण्यनिषेधस्य अभावेन व्याघातानुप-स्थितेः । स्वयं निषेधस्य च तद्धीपूर्वकत्वात् ।

न च तत्र प्राग्भवीयसंस्कारजन्या स्मृतिरूपा तत्प्रसिद्धिः ।प्रथम-प्रामाण्यज्ञानस्य प्रामाण्यस्वतस्त्वेनैवोपपत्तौ तत्कल्पकाभावात् ।

युक्तिरत्नाकरः

।। अप्रसिद्धविशेषणत्वेनेति ।। यद्यपि प्रामाण्य१विशेषकानुमिति रेवमपि सम्भवत्येव । तथापि तस्याप्रसिद्धौ तन्नेत्यत्र तात्पर्यम् । ननु संवादिप्रवृत्तिहतेुविलक्षणहेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्धलक्षण्यं प्रामाण्यरूपमेव पर्यवस्यतीत्यत्राह ।। प्रवृत्तीति ।। आदिपदेन वह्न्यवृत्ति-प्रकारादावनवच्छिन्नत्वादेः परिग्रहः । न च तस्य नाम प्रवृत्तित्वमिति वाच्यम् । तन्मते प्रामाण्यनिश्चयस्य साक्षादप्रवर्तकत्वेनाप्रामाण्य-शङ्कानिरासार्थकतया तस्य च ततोऽपि लाभादिति भावः । प्रामाण्यमात्रनिषेधे विशेष्यवृत्तिप्रकारकं ज्ञानं नास्तीति प्रमात्वसामान्यनिषेधे व्याघातः । प्रमा नास्तीति निषेधबोधके वाक्ये स एव दण्डः भयशब्दश्च तस्य वाक्यशब्दस्य निषेधप्रतियोगिज्ञानं विनाऽसम्भवलक्षणविपक्षबाधकतर्कसूचनार्थः । तथा चेदं वाक्यं प्रतियोगिज्ञानपूर्वकं निषेधज्ञानपूर्वकवाक्यत्वात्सम्मतवदित्यनुमान-सिद्धस्य ज्ञानस्य विषयं विनानुपपत्त्या प्रमासामान्यप्रसिद्धावयं वह्नित्वेनानुभवो विशेष्यवृत्तिप्रकारकः समर्थप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवमिति व्यतिरेकिणा पक्षधर्मताबलाद् वह्नित्ववतीत्यादिविशेषसिद्धिरित्यर्थः ।

।। नाप्यसाधारणमिति ।। साध्यस्य सामान्यत एव सिध्या व्यक्ति-विशेषवृत्तित्वेनानिश्चयात् साध्यवद्व्यावृत्तत्वेन हेतो२रनिश्चयात् नासाधारण्य-मित्यर्थः । इदं चोपलक्षणम् । हेतोर्निश्चयसाध्यवद्वृत्तित्वेनानिश्चयात् नान्वयित्वमित्यपि द्रष्टव्यम् । यद्व्याधातो विरोध एव । तथा च प्रमामज्ञात्वा तन्निषेधे विरोधात् प्रमासामान्यप्रसिद्धिरित्यर्थः । यद्यपि परैर्विशेष्यावृत्य-प्रकारकत्व एव सामान्यप्रसिद्धिरुक्तेति तदनुवाद एवोचितः । तथापि स्वतस्त्वपरतस्त्वविचारपरविषयः प्रामाण्यप्रसिद्धेरेव वाच्यतया परोक्तायाश्च प्रकृतानुपयोगादनौचित्यज्ञापनायेदमनूदितम् । वक्ष्यते च तत् । यद्यपि परैर्व्याघातेन प्रमातद्विषयसिद्धौ वह्निर्विशेष्या१प्रवृत्तिप्रकारानवच्छिन्नज्ञानविषयो ज्ञेयत्वादित्यन्वयिना पक्षधर्मताबलादयं वह्न्यनुभवः प्रमेति ज्ञानविशेष-वृत्तित्वरूपप्रकारौदासीन्येन वह्निमात्रे सामान्यत वह्न्यवृत्ति२प्रकारका-नवच्छिन्नज्ञानत्वप्रसिद्धावयं वह्निरित्यनुभवविशेष उक्तः । साध्यसिध्यर्थमयं वह्नित्वेनानुभवः प्रमेत्यादिव्यतिरेकप्रवृत्तिरिति मध्येऽन्वयानुमानमप्याश्रितम् । तथापि तस्या३नुयोगमभिप्रेत्य वह्निरित्येवानूदितम् । न च व्यतिरेकिणि साध्यप्रसिध्यर्थत्वात्तदादरः । व्यघातदण्डभयेन विशेष्य४वृत्यप्रकारकत्व-मात्रस्य प्रसिद्धावपि वह्निवृत्यप्रकारानवच्छिन्नरूपविशेष्याप्रसिद्धेरिति वाच्यम् । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वेनास्य विशेषस्याधुनाप्यसिद्धेः पक्षधर्मताबलादपि साध्यस्य पक्षीयतामात्रमेव सिद्ध्येन्नत्वधिकमतिप्रसङ्गात् । न च वह्निं पक्षीकृत्य विशेष्यावृत्तीत्यादिना साध्यमानवह्नेरेव विशेष्यतया वह्न्यवृत्यप्रकारकत्वमादायेव पर्यवस्यति प्रकारान्तरासम्भवादिति वाच्यम् । वस्तुतो वह्नेरेव विशेष्यत्वेऽपि व्यापकतावच्छेदकविशेष्यत्वाकारेणैव तद्भानं न तु व्यवसायककोटावनुपात्तवह्नित्वाकारेणापि । तेन रूपेण तज्ज्ञान-सामग्य्रभावात् । न चानुमितावुपनीतभानपक्षे उपनीतं वह्नित्वं विशेष्यांशे प्रकारतया भासिष्यत इति वाच्यम् । तथा सति व्याघातसिद्धसाध्य-प्रसिद्धिमादायोपनीतविशेष्यस्य व्यतिरेकिण्येव भानसम्भवेन मध्येऽन्वयानुप-योगादिनिषेधस्य निषेधबोधकस्य वाक्यस्य व्याघातस्य निषेधवाक्यस्य विरोधस्येति वा ।

ननु स्वार्थानुमाने परकीयव्याघातस्यानवतारेऽपि स्वकीयप्रामाण्य-निषेधानुपपत्त्येव तत्प्रसिद्धिः स्यादित्यत्राह ।। स्वयमिति ।। प्रामाण्य-स्येत्यतः पूर्वमुपस्थितया स्वकीयनिषेधो कल्पित एवेति भावः । उपलक्षणं चैतत् । परार्थानुमानेऽपि तस्य सार्वत्रिकमेव । न हि प्रमा नास्तीति निषेधेन सर्वत्र भवितव्यमित्यस्ति निर्बन्धः । किं चेदं वाक्यं प्रतियोगिज्ञान-पूर्वकमित्यनुमाने प्रतियोगिभूता प्रमा प्रमात्वेन वा साध्यकूटकोटिनिष्ट-प्रतियोगित्वमात्रेण वा । नाद्यः तदप्रसिद्धेः । नान्त्यः प्रमात्वेन तदप्यनुपस्थित्या वक्ष्यमाणानुमितौ साध्यप्रसिध्य सम्पादनादित्यपि बोध्यम् ।। स्वतस्त्वेनैवेति ।। प्राग्भवीयसंस्कारोद्बोधस्य जीवनान्यथानुपपत्ति-मात्रकल्प्यत्वात् । तस्य च प्रकारान्तरेणोपपत्त्या तदकल्पकत्वादिति भावः । इदं चोपलक्षणम् । प्रत्ययोत्पन्नदेवदत्तादिज्ञानवृत्तेः देवदत्तत्व-वतीत्यादि प्रामाण्यस्य प्रागनुभवेन तत्संस्कारासम्भवेऽपि बोध्यः ।

न्यायदीपः

एवं परतस्त्वे अनवस्थाद्वयोक्त्या स्वतस्त्वहेतूनामप्रयोजकत्वं निरस्य विपक्षेऽनुमित्यसम्भवरूपबाधकान्तरादपि नाप्रयोजकाः स्वतस्त्वहेतव इति भावेनाह ।। किञ्चेति ।। ननूक्तमत्र मणौ ‘‘प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा’’ इति तत्राह ।। अप्रसिद्धेति ।। साध्याप्रसिद्धौ तन्निरूपित-व्याप्त्यज्ञानादिति भावः । ननु संवादिप्रवृत्तिर्विसंवादिप्रवृत्तिहेतुविलक्षण-हेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्ध्यद्वैलक्षण्यं प्रामाण्यरूपमेव सेत्स्यतीत्यत आह ।।प्रवृत्तीति ।। १दाहसमर्थविशेष्यवृत्तिप्रकारकत्वादि-रादिपदार्थः ।

प्रकारान्तरेणप्रसिद्धिमाशङ्क्य निराह ।। न चेति ।। विशेष्यवृत्ति-प्रकारकज्ञानं नास्ति,प्रमा नास्तीत्यादिनिषेधस्य क्वचित्प्रमाप्रसिद्धिं विनानु-पपत्तेस्तदर्थं तत्प्रसिद्ध्यभ्युपगमे व्याघातरूपदण्डप्रसङ्गात्तद्भयेन क्वचि-त्प्रसिद्धेरवश्यवाच्यत्वात् ।। सामान्यतः सिद्धमित्युक्तम् ।। साध्यमान-मिति ।। वह्निज्ञानं विशेष्यवृत्तिप्रकारकं समर्थप्रवृत्तिहेतुत्वादिति व्यतिरेकिणा साध्यमानमित्यर्थः ।। नाप्यसाधारण्यमिति ।। व्यक्तिविशेषे साध्यस्या-निश्चयेन सपक्षानिर्णयादिति भावः । ननु स्वर्थानुमाने परकीयव्याघाता-नवतारेपि स्वकीयप्रामाण्यनिषेधानुपपत्यैव तत्सिद्धिः स्यादित्यत आह ।। स्वयमिति ।। तथा च सा धीरेव कथं स्यादिति मृग्यत इति भावः ।

‘‘प्रागभवीयसंस्काराद्विशेष्यावृत्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा तत्प्रामाण्यं तन्मात्रं स्मृतं वह्निज्ञानादौ साध्यमानं’’ इत्यादिना मणिकृदुक्तं तत्सम्प्रदायविदां मतमनूद्य निराह ।। न च तत्रेति ।।प्रथमप्रामाण्यानुमिति-स्थल इत्यर्थः ।। उपपत्ताविति ।। तदुपपत्तिप्रकारश्च बाधोद्धारग्रन्थे संशयोपपादनग्रन्थादौ चोक्त इति भावः ।

Load More