पुनरप्यनुमानं द्विविधम् । स्वार्थं परार्थं च

अथ पञ्चावयवादिनियमभङ्गः ।। २१ ।।

तर्कताण्डवम्

पुनरप्यनुमानं द्विविधम् । स्वार्थं परार्थं च । तत्र परोपदेशानपेक्षं स्वार्थम् । तत्सापेक्षं परार्थम् । ससामर्थ्यलिङ्गप्रतिपादकवाक्यात्मकः परोपदेशोऽपि परार्थानुमानमित्युपचर्यत इति स्थिते तस्य परोपदेशस्य जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयनिरासप्रतिज्ञाहेतूदाहरणोप-नय(निगम)नानीति दशावयवा इति जरन्नैयायिकाः । प्रतिज्ञादयः पञ्चेति नवीनाः । प्रतिज्ञादयो वोदाहरणादयो वा त्रय एवेति मीमांसकाः । उदाहरणोपनयौ द्वावेवेति सौगताः ।।

तन्न । आद्यपञ्चकस्याशब्दात्मकतया वाक्यावयवत्वस्यैवा-भावात् । उक्तनियमेषु हेत्वभावाच्च ।।

ननु– यावता व्याप्तिपक्षधर्मतादिविशिष्टलिङ्गधीस्तावदाकाङ्क्षा-क्रमेणाभिधेयं अन्यथा न्यूनत्वापत्तेः । तत्र साध्यानुपस्थितौ हेत्वा-काङ्क्षैव नोदेतीति तदुपस्थित्यर्थं प्रतिज्ञा । ततः कस्मात्प्रमाणादिदं ज्ञेयं इत्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमादिति हेतुवचनम् । ततोऽस्य सामर्थ्यजिज्ञासायां प्रथमं व्याप्तिप्रदर्शनार्थ-मुदाहरणम् । पश्चात्पक्षधर्मताप्रतिपादनार्थमुपनयः । ततः सर्वस्यैक-बुद्ध्यारोहायैकवाक्यतामापादयितुं निगमनम् ।।

यद्वा पक्षे१ प्रतिज्ञया प्रमेये उपस्थापिते हेतुना च तदवधारणार्थं लिङ्गरूपे प्रमाण उक्ते तस्य निरस्तसमस्तदोषशङ्कस्यैव प्रमेयावधार-कत्वाच्छङ्कानिरासार्थं उदाहरणादयोऽपेक्षिताः । तत्र व्याप्तिदर्शकेनोदा-हरणेन विरुद्धानैकान्तिकानध्यवसितानां निरासः । उपनयेनासिद्धेः । निगमनेनापि सिद्धे सत्यारम्भस्य नियमार्थत्वात् तस्मादेव नान्य-स्मादिति हेत्वनुवादेन सिद्धसाधनताया अग्निमानेव न त्वनग्निक इति साध्यानुवादेन बाधसत्प्रतिपक्षयोर्निरास इति कथं पञ्चावयवनियमे हेत्वभाव इति ।।

उच्यते–

आद्यः पक्षस्तावन्न युक्तः । न हि वादिवाक्यमाप्तवाक्यतया व्याप्त्यादिविशिष्टलिङ्गप्रमापकम् । येनाकाङ्क्षाक्रमेणावयवनियमः स्यात् । वादिनोः परस्परमनाश्वासात् । अन्यथा प्रतिज्ञयैवालम् । किं तु गृहीतव्याप्त्यादिकं पुरुषं प्रति तत्साधकत्वेनागृहीतव्याप्त्यादिकं प्रति तु तज्जिज्ञासाजनकत्वेनोपयुज्यते ।।

तथा च व्याप्तिपक्षधर्मताभ्यां वा व्याप्तिसमुचितदेशसिद्धिभ्यां वा विशिष्टलिङ्गस्मृतिर्यावता भवति तावदेव वक्तव्यम् । अन्यथाऽऽधिक्या- पातात् ।।

सा च पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदिति प्रतिज्ञाहेतू-दाहरणैकदेशदृष्टान्तवचनमात्रेण वा, अग्निव्याप्तधूमवत्पर्वतोऽग्निमानिति हेतुगर्भप्रतिज्ञामात्रेण वा, विवादेनैव प्रतिज्ञासिद्धौ कुतः पर्वतोऽग्नि-मानिति प्रश्नेऽग्निव्याप्तधूमवत्त्वादिति हेतुमात्रेण वा पर्वतस्याग्निमत्त्वे किं प्रमाणमिति प्रश्नेऽग्निव्याप्तधूमवत्त्वमिति लिङ्गोक्तिमात्रेण वा, धूमवन्महानसवत्पर्वतोग्निमानिति सप्रसिज्ञेन हेतुगर्भेण दृष्टान्तवचन-मात्रेण वा, अग्निना व्याप्तो धूमः पर्वतेऽस्तीत्युपनयमात्रेण वा, व्याप्तिमद्धूमवत्त्वात्पर्वतोऽग्निमानिति निगमनमात्रेण वा, जायमानानु-भूयत इति किं पञ्चावयवादिनियमेन ।।

आद्ये ह्यनुमानमुद्राभिज्ञस्य व्याप्तिग्रहणस्थले उक्ते व्याप्तिस्मृति-र्भवत्येवेति न न्यूनता । व्याप्तिवाचकशब्दस्तु यो यो धूमवानसाव-सावग्निमानित्युदाहरणभागान्तरेऽपि नास्ति ।।

द्वितीयेऽपि लोके शास्त्रे च हेतुगर्भविशेषणप्रयोगान्दृष्टवतो व्युत्पन्नस्य धूमवत्त्वं हेतुरिति धीर्भवत्येवेति न न्यूनता ।।

तृतीयेऽपि धूमवत्त्वादित्यस्य प्रश्नस्थेनाग्निमानित्यनेनान्वयान्ना-पार्थकता । नापि प्रतिज्ञाभावेन साध्यानुपस्थितेर्न्यूनता । विवादेनैव तदुपस्थितेः । न च समयबन्धादिना विप्रतिपत्तिर्व्यवहितेति वाच्यम् । समयबन्धानन्तरभाविना कुतोऽग्निमानिति प्रश्नेन पुनरपि साध्योप-स्थितेः । आद्यपक्षस्तु स्वपक्षं साधयेत्याद्यनुयोग एव प्रवृत्त इति स्वपक्षभूतसाध्योपस्थित्यर्थं तत्र प्रतिज्ञाऽपेक्षितैव ।।

ननु तथापि हेतुमात्राकाङ्क्षाशामकेन हेतुवचनेन धूमादित्येवंरूपेणैव भाव्यम् । न तु धूमवत्त्वादित्येवंरूपेण । तथा च पक्षधर्मताया अलाभात् पुनरपि तृतीये न्यूनतैव । मन्मते तूपनयेन तल्लाभ इति चेन्न । पक्षस्य साध्यवत्त्वे को हेतुरित्याकाङ्क्षाशामकेन हेतुवचनेन हेतौ पक्षसम्बन्धस्यापि बोधनीयत्वात् । अत एवोपनयोऽधिकः ।।

पञ्चमेऽपि महानसवदित्यनेन व्याप्तेर्धूमवदिति दृष्टान्तविशेषणेन पक्षधर्मतायाश्चोपस्थितिरिति न न्यूनता ।।

न चैवं वादिवाक्यस्याप्तवाक्यवदनुसरणीयत्वेन निग्रहोद्भावनं न स्यादिति वाच्यम् । प्रमापकत्वांशत्यागेन ज्ञापकत्वांशे लोकशास्त्र-प्रहतरीत्यनुसारिणो वादिवाक्यस्याप्यनुसरणीयत्वात् । अन्यथाऽग्नि-मानित्युक्तेऽग्निशब्दस्य चित्रमूलाद्यर्थत्वमादायार्थान्तराद्युद्भावनं स्यात् ।।

किं च त्वत्पक्ष एव न्यूनादिनिग्रहोद्भावनं न स्यात् । न्यूनादिकं प्रति लोकसिद्धमर्यादाया एवावधित्वात् । मत्पक्षे निग्रहोद्भावनं तु लोकसिद्धरीत्यतिक्रमे सावकाशम् ।।

या तु सुधायां संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किम-प्येष्टव्यमित्यादिना व्याप्तिपक्षधर्मतयोरन्यतरस्मिन्नुक्तेऽन्यस्य स्मृति-र्भविष्यतीत्युक्तिः सा दृश्यते खलु लोके पदैकदेशेन पदार्थस्मृति-रित्युक्तिवत्कथाबाह्यप्रयोगाभिप्राया वा, वादकथाभिप्राया वा, एकोक्तिमात्रेण द्व्यंशस्मृतिमत्पुरुषविशेषाभिप्राया वा, कैमुत्याभिप्राया वा, न तु द्वयोरन्यतरदेवाभिधेयमित्यभिप्राया ।।

अत एव विष्णुतत्त्वनिर्णयटीकायां ‘‘स्मरणं तु पदैकदेशादिनापि दृष्टं किमुत प्रतिज्ञादिभिः’’ इत्युक्तम् । अत एव च ब्रह्मतर्के–

युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका ।

तथोपनयरूपा च परा निगमनात्मिका ।।

इत्यवयवपञ्चकस्य प्रत्येकं परार्थानुमानत्वं प्रतिज्ञायान्ते व्याप्तिमाश्रित्य केवलं’’ इत्युक्त्या सर्वत्रापि व्याप्त्यभिधानं सूचितम् ।।

विष्णुतत्त्वनिर्णयटीकायामपि ‘व्याप्तिमाश्रित्येत्यपि पक्षान्तर-दर्शनं’’ इत्युक्त्या प्रतिज्ञादावपि व्याप्त्यभिधानं सूचितम् ।।

प्रमाणपद्धतावपि उपनयेऽग्निना व्याप्तो धूमः पर्वतेऽस्तीति, निगमनेऽपि व्याप्त्यादिमद्धूमवत्त्वादिति व्याप्तिरुक्ता । प्रमाणलक्षणेऽपि ‘हेतुगर्भा प्रतिज्ञा केवलाऽपि, सिद्धौ प्रतिज्ञायां हेतुमात्रं च, दृष्टान्तः सप्रतिज्ञो हेतुगर्भ इति व्याप्यरूपलिङ्गवचनार्थकेन हेतुशब्देन सर्वत्रापि व्याप्त्यभिधानं सूचितम् । सुधायामपि ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यमुपदेश इत्युक्तम् ।।

यद्वा धूमवत्त्वादित्येव हेतुः । न तु व्याप्तधूमवत्त्वादिति । एवमवयवान्तरेऽपि द्रष्टव्यम् । तथापि न न्यूनता । प्रतिवादिन आकाङ्क्षाक्रमेण व्याप्त्यादेस्तृतीयादिकक्ष्यासूक्तिसम्भवात् । स्वीकृता च त्वयाऽप्याकाङ्क्षाक्रमेणोक्तिः । किं तु तव मते प्रतिवादिना द्वितीयादिकक्ष्यास्वाकाङ्क्षिष्यमाणमपि व्याप्त्यादिकं वादिना पञ्चा-वयवेन महावाक्येनाद्यकक्ष्यायामेव वक्तव्यमिति नियमः । मम तु न । उत्तरत्राकाङ्क्षिष्यमाणस्याप्यादावेवोक्तावाकथापरिसमाप्ति याव-द्वक्तव्यं तावत आदावेवोक्तिप्रसङ्गात् ।।

किञ्च युगपदुक्तिनियमेऽपि तदभिमतस्योपनयस्य निगमनस्य च प्रत्येकं व्याप्त्याद्युक्तौ शक्तत्वात्किमवयवान्तरेण । तस्मादाद्यः पक्षो न युक्तः ।।

नापि सकलशङ्कानिरासार्थं पञ्चावयवनियम इति द्वितीयः । आदावेव सकलशङ्कानिरासकस्यैव परार्थानुमानत्वे पञ्चावयवप्रयोगेणैव तन्निवृत्तौ तावतैव कथामुद्रणापातेन तन्निवर्तिकाया कृत्स्नकथाया एव परार्थानुमानत्वप्रसङ्गात् । अवान्तरशङ्कानिवर्तकत्वं तु प्रत्येकं प्रतिज्ञा-देरप्यस्ति ।।

किञ्चोक्तरीत्यैकैकावयवेनापि व्याप्तिपक्षधर्मतयोरभिधानात्सकल-शङ्कानिवर्तकत्वं तस्याप्यस्ति । अपि चास्मिन् पक्षे कण्टकोद्धारोऽपि पृथङ्न कर्तव्यः स्यात् । तस्मात्पक्षद्वयमप्ययुक्तम् ।।

अपि च पञ्चावयवादिनियमोऽपि विप्रतिपन्नं प्रत्यनुमानेनैव साध्यः । तस्य प्रत्यक्षाद्यविषयत्वात् । पञ्चावयवप्रयोगेणैव तत्साधने मीमांसकादिं प्रत्याधिक्यप्रसङ्गात् । तत्परिहारार्थं पञ्चावयवनियमस्य तात्त्विकत्वसाधने चानवस्थानात् । तद्रीत्या त्र्यवयवादिप्रयोगे च तव न्यूनत्वापातात् ।।

तत्तन्मतरीत्या प्रयोक्तव्यमिति वा, यावता व्याप्त्यादिविशिष्ट-लिङ्गधीस्तावत्प्रयोक्तव्यमिति वा, समयबन्धेन च मीमांसकादिना स्वाभिमतावयवनियमसिद्ध्यर्थं कृतेन त्र्यवयवादिप्रयोगेन तव व्याप्ति-स्मृत्यादिरावश्यक इति स्वीकृतत्वेन त्वयैव पञ्चावयवनियमस्त्य-क्तव्यः । एवं मीमांसकादिभिरपि स्वाभिमतो नियमस्त्यक्तव्य इति कथं तन्नियमः ।।

किञ्च नेदं स्वसाध्यसाधकं, असिद्धत्वादित्याद्य१साधकानुमानेषु नायमसिद्धः तल्लक्षणरहितत्वात् इत्यादिकण्टकोद्धारानुमानेषु प्रथम-प्रयुक्तहेतोर्व्याप्तिपक्षधर्मतादौ विप्रतिपत्तौ तत्साधकेषु द्वितीयादि-कक्ष्यानिपातिषु शाखानुमानेषु वादिभ्यां कथामध्ये स्वाभिमततत्त-त्प्रमेयसिद्ध्यर्थं पञ्चावयवतां विनाऽप्युच्यमानेषु परिशेषार्थापत्त्यादि-रूपेषूपशाखानुमानेषु च त्वयैव नियमस्त्यक्त इति कथमन्यत्र तन्नियमः ।।

नन्वसिद्धत्वादेरसाधकत्वादिना व्याप्त्यस्वीकारे कथानधिकारेण तत्र व्याप्तेरुभयसंमतत्वात्पक्षधर्मतामात्रं प्रदर्शनीयमिति चेत् तर्हि कृतकत्वानित्यत्वयोरपि व्याप्तेर्मीमांसकसम्मतत्वात्तत्र केवलान्वयि-साध्यके हेतौ च व्यभिचारशङ्कानुदयात्तत्रापि पक्षधर्मतामात्रं प्रदर्शनीयं स्यात् ।।

किञ्च केवलान्वयिहेतौ पक्षधर्मतायाः सर्वसंमतत्त्वात्तत्र व्याप्तिमात्रं प्रदर्शनीयं स्यात् ।।

यदि च व्याप्त्यादौ प्रतिवादिनः संमतेऽपि वादिना स्वकर्तव्यं२ तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तिप्रदर्शनमपि कर्तव्यमेव । किञ्चैवम-सिद्धस्यापि साधकत्वस्वीकारे कथानधिकार इत्यपि सुवचत्वेना-साधकतानुमानं विफलम् ।।

यदि च तत्स्वीकारिणोऽपि कथानधिकारे विप्रतिपन्नं प्रति असाधकतानुमानं सफलम् । तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तौ विप्रतिपन्नं प्रति तत्प्रदर्शनमपि सफलमेव ।।

किञ्चैवं शाखोपशाखानुमानेषु का गतिः तत्र व्याप्तेरुभय-सम्मत्यभावात् मदुक्तरीतिरेव वक्तव्येति मूलानुमानेषु तथैऽवास्तु ।।

अपि चाग्निना व्याप्तो धूमः पर्वतेऽस्तीति वाक्यं आप्तोक्तं व्याप्त्यादिविशिष्टलिङ्गप्रमापकं दृष्टमिति तदेव वाद्युक्तं कथं तज्ज्ञापकं न स्यात् । किञ्च त्वयाऽपि त्वत्कल्पितपञ्चावयवनियमविस्मृति-दशायामवयवानियमोऽयुक्तः अतिप्रसङ्गादित्येतावतैवावयवानियमा-युक्तत्वस्य साध्यमानत्वात्स्वक्रियाविरोधः ।।

नन्वेवमनियमवादिमते कथं न्यूनाद्युद्भावनमिति चेन्न । उदाहरणान्तमुदाहरणादि वावयवत्रयमेवेति परमते कथमप्राप्तकाला-द्युद्भावनम् । कथं चोदाहरणे दृष्टान्तोक्तिः यच्छब्दतच्छब्दयोर्वीप्सा विशिष्य कण्टकोद्धारः असाधकताऽनुमानम् उपाधेः स्वशब्दोऽद्भावनं चानियतमिति नैयायिकमते न्यूनाद्युद्भावनम् ।। समयबन्धानुसारेणेति चेत् । समं प्रकृतेऽपि । उक्तपक्षेष्वेतं१ पक्षमाश्रित्य वक्तव्यमिति वा लोकशास्त्रसर्वावगतमार्गेण व्याप्तिपक्षधर्मताविशिष्टलिङ्गोपस्थिति-र्यावता तावद्वक्तव्यमिति वा समयस्य बन्धनीयत्वात् । अत एव ब्रह्मतर्के ।।

‘‘पृथक्पृथक्प्रमाणत्वं याति युक्तितयैव तु’’ ।

इत्यत्र परार्थानुमानत्वे युक्तिशब्दवाच्यव्याप्तिपक्षधर्मताविशिष्ट-लिङ्गोपस्थापकत्वमेव तन्त्रमित्युक्तम् ।

यच्चोक्तं साध्योपस्थापकत्वात्प्रतिज्ञैव प्रथमेति । तन्न । क्वचि-द्विधितोऽप्यर्थवादस्य प्राथम्यवत्, भट्टादिमते उदाहरणस्य प्राथम्यवत्, ‘‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते’’ ‘‘अत एव प्राणः’’ ‘‘प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं’’ इत्यादौ निगमने च हेतोः प्राथम्यवच्च लोकशास्त्रव्यवहृतेनोपाद्धातन्यायेन हेतोरपि प्राथम्यसम्भवात् । विवादेनैव साध्योपस्थितेरुक्तत्वाच्च । पर्वतस्याग्नि-मत्त्वं कुत इति प्रश्ने प्रतिज्ञाया अनन्वयाच्च । त्वयाऽपि त्वत्कल्पित-प्रतिज्ञाप्राथम्यनियमविस्मृतिदशायां कदाचिद्धेतोरपि पूर्वमुक्त्या स्वक्रियाविरोधाच्च ।।

अत एव हेतुवचनस्य द्वितीयत्वनियमोऽपि निरस्तः । उपनयस्य सार्थक्यार्थं हेतुवचनस्य मतुबादिराहित्यं तु प्रागेव निरस्तम् । पृथिवीत्वादिसम्बन्धात्पृथिवीत्यादिस्वभाष्यविरुद्धं च ।।

यच्चोक्तं प्रतिज्ञायामग्निशब्दे हेतौ धूमशब्दे च तज्ज्ञाने लक्षणा । अन्यथा धूमस्याग्निं प्रत्यकारणत्वेन पञ्चम्या अयोगादिति । तन्न । धूमे वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकहेतुत्वस्य सत्त्वात् ।।

ननु तद्विषयकज्ञानजनकत्वमेव ज्ञापकहेतुत्वं तच्च धूमज्ञानस्यैव न तु धूमस्येति चेन्न । धूमज्ञानगतं हि ज्ञापकत्वं न तावद्वह्निं प्रति । धूमज्ञानाद्वह्निरिति कदाऽप्यप्रयोगात् । नापि वह्निज्ञानं प्रति । तत्र कारकहेतुत्वस्यैव सम्भवात् । व्यावृत्तिधीहेतुधीविषये दण्डादौ व्यावर्तकशब्दस्येव वह्निधीहेतुधीविषये धूम एव वह्निज्ञापकशब्दस्य प्रयोगाच्च ।।

ज्ञापकहेतौ चानुपपत्तिप्रतिसन्धाननिरपेक्षप्रचुरप्रयोगादिना पञ्चमी मुख्यैव । अन्यथा सा कारकहेतावेवामुख्या स्यात् । कारकहेतावेव मुख्यत्वेऽपि पञ्चम्यामेव लक्षणाऽस्तु । न तु प्रधाने धूमप्रातिपदिके । न च सुब्विभक्तौ न लक्षणेति कुलधर्मः। वेदे ‘प्रयाजशेषेण हवीं-ष्यभिघारयति’ इत्यादौ, त्वन्मते चतुर्विंशतिगुणाः, एकः समवाय इत्यादौ च तद्दर्शनात् । न हि गुणा इत्यादिविभक्त्युक्ता बहुत्वादि-सङ्ख्या त्वन्मते गुणादावस्ति । प्रत्युत हेतुवचने ज्ञानलक्षणायामुदाहरणे उपनये च ज्ञानस्य गमकत्वार्थं तस्यैव व्याप्त्यादिविषयकत्वं वक्तव्यम् । न तु लिङ्गस्य व्याप्त्यादिमत्त्वम् ।।

किंचावयवेनानुमित्यङ्गमेव ज्ञानमुत्पादयितव्यम् । लिङ्गज्ञानमेव च तदङ्गम् । न तु लिङ्गज्ञानज्ञानम् । नापि वह्निशब्दे लक्षणा । पञ्चम्युक्तज्ञापकत्वान्तर्गतज्ञानं प्रति विषयतया वा ज्ञापकत्वं प्रत्येव ज्ञाप्यतया वाऽन्वयेनैव वह्नेर्ज्ञाप्यत्वसिद्धेः । दृश्यते च चैत्रमातेत्यादौ स्त्रीत्वविशिष्टजनकत्वरूपमातृत्वान्तर्गतजनकत्वेन सह चैत्रस्य जन्य-तयाऽन्वयः । उदाहरणेपि योयो धूमवानसाव‘ग्निमानिति पूर्वभागेनैव वा, यथा महानस इत्युत्तरभागेनैव वा व्याप्त्युपस्थितेरन्यतरद्व्यर्थम् ।।

अत एव दृष्टान्ताभिधानं सामयिकमिति चेन्न । अनुपयुक्त-मप्यभिधेयमिति समयबन्धस्यैवायोगात् । यस्य पुंसः पूर्वभागेन न व्याप्तिस्मृतिस्तं प्रति दृष्टान्तस्याप्युक्तिरिति चेन्न । तथात्वेऽवयवा-नियमसिद्धेः ।।

यच्च सकलस्यापि साधनवतः साध्यवत्त्वरूपव्याप्त्यन्तर्गत-साकल्यार्थं यच्छब्दे वीप्सेत्युक्तम् । तन्न । ‘गौर्न पदा स्पृष्टव्या’ ‘यस्योभयं हविरार्तिमार्छेत्’ यो ब्राह्मणायावगुरेत्तं शतेन यातया’-दित्यादाविव वीप्सां विनाऽपि यो धूमवानिति सामान्योक्त्यैव तत्सिद्धेः । इदमेतदभिन्नम्, एतदसाधारणधर्माधिकरणत्वात् एत-द्वदित्यभेदानुमाने सपक्षव्यक्तिभेदाभावेन वीप्सार्थाभावाच्च । क्वचि-द्वीप्सा तु स्पष्टतार्था । अत एव विमतो भिन्नो मुक्तत्वाद्यदित्थं तत्तथेत्यादावाचार्योक्तौ न वीप्सा ।।

उपनयोऽपि हेतुवचनेन गतार्थः । अग्निव्याप्तधूमवांश्चायमिति त्वदभिमते उपनये उदाहरणसिद्धव्याप्त्यनुवादांशवैयर्थ्यं च । निगमन-मपि प्रतिज्ञया गतार्थम् । न चोपसंहारार्थं तत् । विजातीयबहुप्रमेया-व्यवधानेन तदनपेक्षणात् । अन्यथा प्रत्येकं कण्टकोद्धारानन्तरं तस्मात्सर्वदोषराहित्यादिदं साधकमित्याद्यपि निगमनं नियतं स्यात् । न च बाधादिशङ्कानिरासार्थं तत् । उदाहरणोपनयोक्तव्याप्तिपक्षधर्मता-भ्यामेव स्वविरोधिसर्वदोषप्रतिक्षेपात् ।।

तस्मात्पञ्चावयवादिनियमो न युक्त इति ।।

न्यायदीपः

पुनरनुमानं द्विविधम् स्वार्थं परार्थं चेत्यादिना पद्धत्युक्तं विवृण्वान आह– पुनरिति । प्रागुक्तविभागापेक्षया पुनःशब्दः । व्याप्तिविशिष्टलिङ्गज्ञानरूप-मनुमानमित्यर्थः । तत्र तयोर्मध्ये । परोपदेशं वह्निव्याप्यधूमवानयमित्यादि-रूपपरकृतोपदेशं नापेक्षत इति परोपदेशानपेक्षम् । व्याप्तिविशिष्टलिङ्ग-ज्ञानमिति विशेष्यं अत्रोत्तरत्र च योज्यम् । परोपदेशस्वरूपस्य पद्धतावनुक्तेः ‘अनुमा युक्तिरेवोक्तेति’ युक्तिपादीयानुव्याख्यानसुधोक्तमाह– ससामर्थ्येति । व्याप्तिसमुचितदेशवृत्तित्वरूपसामर्थ्यसहितम् । यद्वा व्याप्तिरेव सामर्थ्यम् । तत्सहितं यल्लिङ्गं धूमादि तत्प्रतिपत्तिजनकं वाक्यं परोपदेश इत्यर्थः । स च वह्निव्याप्यधूमवानयमित्यादिरूपः । वाक्यमात्रस्य परोपदेशतानिवृत्तये प्रतिपादकेत्यन्तोक्तिः । ससामर्थ्यलिङ्गप्रतिपत्तिसामान्यकारणादृष्टमनः-संयोगादिष्वतिव्याप्तिवारणाय वाक्यात्मक इत्युक्तिः । धूमोऽस्तीति वाक्येऽति-व्याप्तिनिरासाय सामर्थ्येति । पद्धतौ ‘तज्जनकत्वात्परोपदेशोऽपि परार्थानुमानमिति क्वचिदुपचर्यते’ इत्युक्तेराह– परार्थेति । इत्युपचर्यत इत्यर्थः ।।

यत्तु– ससामर्थ्यलिङ्गप्रतिपादकवाक्यं न परोपदेशः तस्मिन्नेव वाक्येऽति-व्याप्तेरिति तन्न । ससामर्थ्यलिङ्गप्रतिपादकं वाक्यमिति वाक्यस्य तादृशवर्ण-मालारूपवाक्यप्रतिपादकत्वेन तादृश लिङ्गाप्रतिपादकत्वात् । अन्यथा घटाभावज्ञानमपि घटज्ञानं घटाभावव्यवहारोपि घटव्यवहार इत्यापातात् । अन्यानवच्छेदेन घटावगाहि घटज्ञानमिति चेत् अन्यानवच्छेदेन तादृशलिङ्ग-प्रतिपादकं परोपदेशः । न चैवमतिप्रसङ्गोऽस्ति । अन्यथा छलोत्तरत्वं स्यादिति भावः । आद्येति । जिज्ञासा ज्ञातुमिच्छा, वह्निमान्न वेत्यादि-संशयः, प्राप्तुं योग्यता शक्यप्राप्तिः प्रयोजनं प्रसिद्धं, वह्निमान्न वेत्यादिसन्देह-निरास इत्येवंरूपाद्यपञ्चकस्येत्यर्थः ।।

तत्र प्रतिज्ञादिस्वरूपं पक्षवचनं प्रतिज्ञा, लिङ्गं हेतुरित्यादिना मिथ्यात्वानुमानखण्डनतट्टीकातद्भावप्रकाशिकासु प्रमाणपद्धत्यादौ च व्यक्तत्वात्तत्स्वरूपमनुक्त्वा पञ्चैवावयवाः क्रमेणैव प्रयोज्याः न न्यूनाः, त्रय एव प्रयोज्याः न न्यूनाः नाधिकाः, द्वावेव प्रयोज्यौ न त्वधिक इति वादिनां यो नियमपक्षस्तन्निरासे युक्तिपादीयानुव्याख्यानसुधाद्युक्तिं हृदि कृत्वा हेतुमाह– उक्तनियमेष्विति । आकाङ्क्षैव हेतुरिति भावेन सुधाशङ्कितरीत्या मण्याद्युक्तरीत्या च शङ्कते– नन्विति । पर आहेत्यादिना सुधोक्तं पक्षान्तरमनुवदति– यद्वेति । अनध्यवसितपदेनासाधारणानैकान्तिकग्रहः । सुधोक्तरीत्या निराह– आद्य इत्यादिना । पररीत्या– व्याप्तिपक्षधर्म-ताभ्यामिति । स्वमतेनाह– व्याप्तिसमुचितदेशसिद्धिभ्यामिति ।।

ननूक्तरूपलिङ्गस्मृतिः कियता भवतीत्यतः पद्धत्याद्युक्तसप्तप्रकारैर्भव-तीत्याह– सा चेति । जायमानेत्यन्वयः । व्याप्त्यभिधानपूर्वं दृष्टान्तवचनं ह्युदाहरणम् । तत्र यो यो धूमवानसावसावग्निमानिति व्याप्त्युक्त्यंशत्यागेन महानसवदिति दृष्टान्तवचनमात्रेणेत्यर्थः । उक्तसर्वपक्षेषु व्याप्तिस्मृत्युत्पाद-प्रकारमुपपादयन्न्यूनतादिदोषं निराह– आद्ये हीत्यादिना ।।

ननु व्याप्तिबोधकशब्दाभावे कथं व्याप्तिस्मृतिरित्यत आह– व्याप्तिवाचकेति । यो य इति साध्ये सकलसाधनाधिकरणसत्त्वबोधकस्यैव सत्त्वाद्व्याप्तीतिपदाभावादिति भावः । नन्वेवमाद्यपक्षे प्रतिज्ञा व्यर्थैवेत्यतो दशाविशेष एव स पक्ष इत्याह– आद्यपक्षस्त्विति । अनुयोग एव– प्रश्ने सत्येवेत्यर्थः । अधिकः कृतकार्य इत्यर्थः । व्यर्थ इति यावत् । प्रमाप-कत्वांशेति । आप्तवाक्य इव वादिवाक्ये प्रमापकत्वाभावेऽपि ज्ञापकत्व-मात्रस्य सत्त्वाद्बाधितार्थकवाक्यस्यापि बोधकताया योग्यतावादे साधनादिति भावः ।।

चित्रमूलादीति । ननु तथोक्तौ छलेन निगृह्येतेति चेत् तदेव कुतः । प्रकरणाद्यननुसन्धानादिति चेत् समं प्रकृतेऽपीति भावः । लोकसिद्धेति । अस्मदुक्तप्रकारा एव लोकसिद्धमर्यादानुसारिण इति भावः । ननु युक्ति-पादीयसुधायां व्याप्तिपक्षधर्मत्वयोरन्यतरदेवाभिधेयम् । व्याप्त्यभिधानं नावश्यकमिति प्रतीतेः प्रागुक्तपक्षेषु च द्वयोरप्यभिधानप्रतीतेर्विरोध इत्यतः सुधोक्तमनूद्य तस्य चतुर्धाऽभिप्रायोक्त्या विरोधं निराह– या तु सुधायामित्यादिना । स इत्यस्यार्धवाक्यप्रयोगाभिप्राया वेत्यादिनान्वयः । वादेति । तत्र निर्णीताप्तभावत्वेन निग्रहस्थानाभावेन चैकदेशकीर्तनेऽप्युभय-स्मृतिसम्भवादिति भावः । कैमुत्येति । एवमेकदेशकीर्तनेनापि ससामर्थ्यलिङ्गस्मृतिर्भवति किमु प्रागुक्तसप्तप्रकारैः तत्रापेक्षितशब्दानां सत्त्वादिति कैमुत्याभिप्राया वेत्यर्थः । अत एव चेति । व्याप्त्याद्यभिधान-स्यावश्यकत्वादेवेत्यर्थः । १सूचितमित्यन्वयः । ब्रह्मतर्क इति । तत्त्व-निर्णयोदाहृते, युक्तिर्व्याप्त्यादिमल्लिङ्गम् । प्रतिज्ञा रूपं निरूपकं स्मृत्यादि-जननी यस्याः सा तथोक्ता । एवं हेतुरूपिका दृष्टान्तरूपिकेत्याद्यपि व्याख्येयम् ।।

दृष्टान्तशब्देन तद्वचनमुपलक्ष्यते । उदाहरणैकदेशग्रहणार्थं दृष्टान्ते-त्युक्तम् । युक्ति२र्निगमजन्यस्मृतिमतीत्यर्थे निगमनात्मिकेत्यौपचारिकप्रयोगः । युक्तेरेकत्वेऽपि तत्स्मृतिजनकभेदाभिप्रायेणो३पचारेत्युक्तम् । अत्र सर्वत्र हेतुगर्भप्रतिज्ञारूपेति सप्रतिज्ञहेतुरूपिकेति हेतुगर्भसप्रतिज्ञदृष्टान्तरूपिकेति सप्रतिज्ञोपनयरूपेत्येवं पूरणीयम् । प्रतिज्ञाहेतुरूपैवेत्यादिवाक्यशेषात् । विष्णुतत्त्वेति । अत एवेत्यनुषङ्गः । तत्र सप्रतिज्ञोपनयरूपेति प्रागुक्तपक्षापेक्षया सव्याप्तिकोपनयरूपेत्येतदर्थपरत्वप्रतीतावपि तुल्य-न्यायत्वात्प्रतिज्ञादावपीत्युक्तम् । प्राक् स्वोक्तरीत्येपि भावः । सुधाया-मपीति । ‘व्याप्तिरेव तु सा स्मृते’ति युक्तिपादीयानुव्याख्यानव्याख्यावसरे सुधायामित्यर्थः । एवमवयवान्तरेऽपीति । प्रतिज्ञादयः पञ्चाप्यवयवाः हेत्वादिकिञ्चित्सहिताः सन्तः प्रत्येकं परोपदेश इत्युक्तम् । तत्र प्रागुक्तसप्तसु परोपदेशप्रकारवाक्येष्ववयवभूतो यो हेत्वंशः स व्याप्त्यभिधानशून्यः । केवल एवाभिधेय इत्यर्थः । तृतीयादीति ।।

धूमवत्त्वादिति वादिनः प्रथमकक्षा, व्याप्तिर्नास्योपलभ्यते कथं व्याप्तिरिति वादिनो द्वितीया कक्ष्या, यो यो धूमवानिति व्याप्त्यभिधानवादिनः तृतीया कक्षा, कथं व्याप्तस्य पक्षनिष्ठता समुचितदेशवृत्तिर्वेति प्रतिवादिनश्चतुर्थी कक्षा, वह्निव्याप्तो धूमः पर्वतेऽस्तीत्युपनयवादिनो वादिनः पञ्चमी कक्षेत्येवं रूपेण कथाप्रवृत्तेस्तृतीयादिकक्षास्वित्युक्तम् । मम तु नेत्ययुक्तम् । आकाङ्क्षिष्यमाणस्याप्यादावेव वक्तव्यत्वादित्यत आह– उत्तरत्रेति । पररीत्याप्युपनयनिगमनान्यतराभ्यामेवालमन्यद्व्यर्थमित्याह– किञ्चेति ।।

न पञ्चावयवोक्तौ तु विवादावसितिर्भवेत् ।

दृष्टान्तादिषु चैवं स्यात् ।।

इत्यनुव्याख्यानसुधोक्तदिशा निराह– आदावेवेत्यादिना । ननु हेत्वाभासादिदोषदुष्टतारूपावान्तरशङ्कापञ्चावयवप्रयोगमात्रेण निरस्यत इति तावदेवैकं महावाक्यमित्युच्यत इति चेत्तर्हि पर्वतो वह्निमान्न वेति शङ्कानिवर्तकत्वं पर्वतोऽग्निमानिति प्रतिज्ञायाः कुतोऽग्निमत्त्वमिति शङ्कानिरासकत्वं धूमवत्त्वादितिहेतुवचनस्य, कथमस्य व्याप्त्यादीति शङ्कानिषेधकत्वमुदाहरणस्य, इत्येवं रूपेणावान्तरशङ्का एकैकावयवोक्तावपि निवर्त्यत इति प्रतिज्ञादिकमपि प्रत्येकं परोपदेशरूपमहावाक्यं स्यादित्यर्थः । पूर्वपक्ष इवास्मिन् पक्षेऽपि पररीत्या सर्वाभासनिरासस्य प्रत्येकं सम्भवादवय-वान्तरं व्यर्थमेवेत्यत आह– किञ्चोक्तरीत्येति । सा च पर्वतोऽग्निमान् धूमवत्त्वादित्यादिनोक्तरीत्येत्यर्थः । तस्यापीति । प्रतिज्ञाहेतुदृष्टान्तरूपाद्यै-कैकावयवस्यापीत्यर्थः ।।

त्रिपञ्चावयवामेव युग्मावयविनीमपि ।

नियमाद्योऽनुमां ब्रूयात्तं ब्रूयाद्यदि तादृशीम् ।।

इत्यनुव्याख्यानसुधोक्तयुक्त्या च नियमपक्षं निराह– अपि च पञ्चावयवेति । प्रत्यक्षाद्यविषयत्वादिति । आगमस्य चाभावादित्यपि ध्येयम् । अनवस्थानादिति । पञ्चावयवनियमस्य पञ्चावयवयुक्तानुमानेन मीमांसकमवयवत्रयनियमवादिनं प्रति साधने त्वया कृते मीमांसकेनाधिकं निग्रहस्थानमित्युक्ते पुनस्त्वयाऽऽधिक्यदोषनिरासार्थं पञ्चावयवनियम एव परमार्थत्वमिति पञ्चावयवयुक्तेनानुमानेनैव साध्यम् । तत्रापि तेन पूर्वोक्तदोषेऽभिहिते पुनरनुमानान्तरेण त्वया तथैव साध्यमित्यनवस्थाना-दित्यर्थः । तद्रीत्या मीमांसकरीत्या ।।

एवं मीमांसकादिभिरिति । अवयवत्रययुक्तानुमाने मीमांसकेनोक्ते न्यूनतया नैयायिकेन प्रत्युक्तेऽवयवत्रयनियमस्य तात्त्विकतासाधनमपि तादृशप्रयोगेणैव कार्यमित्यनवस्थानात् । न्यायमतरीत्या मीमांसकेनोक्ते स्वमतेनाधिक्यं तत्तन्मतरीत्या प्रयोक्तव्यमित्याद्युक्तौ च न्यायमतरीत्या नैयायिकेन पञ्चावयवप्रयोगे कृते तेन तव व्याप्तिस्मृत्यादि भवतीत्युपेयमित्य-वयवत्रयनियमस्त्यक्त एव । एवं बौद्धेनापि स्वाभिमतो नियमस्त्यक्तव्य एवेत्यर्थः ।।

क्वचित्क्लृप्तत्वात्प्राथमिकस्थापनानुमानेपि न पञ्चावयवादिनियमो ग्राह्य इति प्रतिबन्दीमुखेनापि नियमभङ्गं साधयति– किञ्च नेदमिति । तथैव हेत्वाभासान्ते मणौ व्यक्तत्वादिति भावः । शाखानुमानेष्विति । प्रथमं प्रधानप्रमेयसाधनार्थं प्रयुक्तमनुमानं प्रधानं महावृक्षस्थानीयं तदुपयुक्ततया तद्दूषकतया वा प्रयुक्तानि शाखानुमानानि मध्येमध्येऽवान्तरप्रमेयोप-युक्तान्यनुमानान्युपशाखानुमानानीति शाखानुमानेषूपशाखानुमानेष्विति चोक्तम् ।।

परमुखेनोत्तरं वाचयित्वा सममित्याह– नन्विति । अविवादे तु नावयवान्तरप्रयोग इत्यत्र दोषान्तरमाह– किंच केवलान्वयीति । मदुक्तरीतिरिति । यावता तद्बोधः तावन्मात्रमित्यादिना प्रागुक्तसप्त-प्रकारान्यतममेवानुसर्तव्यमित्यर्थः । सजातीयान्वयदर्शनरूपं वा अन्वयिता-वच्छेदकवत्त्वरूपं वा योग्यतावत्त्वं हेत्ववयवेऽप्यस्तीति तदेवानुमिति हेतुलिङ्गज्ञानजनकमित्यवयवान्तरं व्यर्थमेव । तावतैव सर्वदोषशङ्कानिवृत्ति-सम्भवाच्चेति भावेनाह– अपि चाग्निनेति ।।

व्याघाताच्च नियमपक्षस्त्याज्य इत्याह– किञ्च त्वयापीति । इत्येता-वतैव साध्यमानत्वादित्यन्वयः । इत्येतावतैव–प्रतिज्ञाहेतुरूपावयवद्वये-नैवेत्यर्थः । तत्र हेतुस्त्वत्कल्पितेत्यादि । अनियमेति । पञ्चावयवानियम-पक्षस्य यदयुक्तत्वं तस्येत्यर्थः । प्रतिबन्द्योत्तरमाह– उदाहरणान्तमिति । मन्मत इव तन्मतेऽप्यनियमस्य तुल्यत्वादिति भावः । अप्राप्तेति । क्रमविपर्यासोऽप्राप्तकालमित्यप्राप्तकालाख्यनिग्रहस्थानाद्युद्भावनमित्यर्थः । कथञ्चेत्यस्य न्यूनाद्युद्भावनमित्यन्वयः । अनियतपदं प्रत्येकमन्वेति । तेनैवोत्तरं वाचयति– समयेति । त्वयोदाहरणान्तमेव वाच्यमिति समयबन्धे सति तदतिक्रमेणोदाहरणादिप्रयोगे कथिते निग्रहस्थानोद्भावनमिति चेदित्यर्थः । अनियमपक्षे समयबन्ध एवायुक्त इत्यत आह– उक्तपक्षे-ष्विति । सा चेत्यादिना प्रागुक्तसप्तपक्षेषु ।।

ननु यावतेत्यादिना ग्रन्थेन प्रतिज्ञाद्यवयवानां यः पौर्वापर्यरूपक्रमः शङ्कितः तमपि प्रत्याचष्टे– यच्चेति । विधितोऽप्यर्थवादस्येति । ‘‘प्रजापतिर्वा इदमेक आसीत्, सोऽकामायत प्रजाः पशून् सृजेयेति स चात्मनो वपामुदखिदत्तामग्नौ प्रागृह्णात्ततोजस्तूपरः समभवत् तं स्वायै देवताया आलभत्ततो वै स प्रजाः पशूनसृजत यः प्रजाकामः पशुकामस्स्यात्स एतं प्राजापत्यमजं तूपरमालभेते’’त्यादावर्थवादस्य प्राथम्यं यथेत्यर्थः ।।

भट्टादीत्यादिपदेन बौद्धग्रहः । हेतोः प्राथम्येऽर्थवादाधिकरणगतजैमिनि-सूत्रमुदाहरति– आम्नायस्येति । वेदस्य धर्माधर्मरूपकर्मलक्षण-क्रियाबोधकत्वात् । अतदर्थानामक्रियार्थकानां अर्थवादानामानर्थक्यं तस्मादर्थ-हीनत्वादनित्यमिवानित्यमप्रमाणमुच्यतेऽर्थवादजातमिति पूर्वपक्ष सूत्रार्थः । तथैव व्याससूत्रमुदाहरति– अत एवेति । निरवकाशलिङ्गादेव प्राणशब्दार्थो ब्रह्मेति सूत्रार्थः । तत्रैव गौतमसूत्रमुदाहरति– प्रवृत्तीति । सफलप्रवृत्ति-जनकत्वादर्थावगाहि प्रमाणमित्यर्थः । निगमने चेति । तस्मात्पर्वतो वह्निमानिति निगमनाख्यावयवेत्यर्थः । अत्रापि कथकानुमानप्रयोग-स्थलेऽपीत्यर्थः । प्रतिज्ञाया एवानैयत्यं कुतस्तत्प्राथम्यनैयत्यमित्याह– विवादेति ।।

ननु गिरिरग्निमान् गिरिरनग्निक इति विवाद एव स्पपरपक्षप्रतिज्ञारूप इति वदन्तं प्रति प्रकारान्तरेण तदनैयत्यमाह– पर्वतस्येति । अत एवेति । हेतुवचनप्राथम्यस्य प्रदर्शितत्वादेवेत्यर्थः । यत्तु मण्यादौ कथायां धूमादित्येव प्रयोक्तव्यं न तु धूमवत्त्वादिति । मतुबो व्यर्थत्वात् । पक्षधर्मता तूपनय-लभ्येत्युक्तं तन्निराह– उपनयस्येति । मतुबादीत्यादिपदेन उदाहरणसार्थक्यार्थं यद्व्याप्तिराहित्यमुक्तं तद्ग्रहः । वह्निव्याप्यधूमवत्त्वादिति प्रयोगस्य दर्शितत्वादिति भावः । प्रागेवेति । ननु तथापि हेतुमात्राकाङ्क्षा-शामकेत्यादिग्रन्थेनेति भावः । इति स्वभाष्येति । गौतमसूत्रभाष्ये । हेतुवचन एव मतुबर्थस्य पक्षसम्बन्धस्योपादानेन हेतुवचने मतुबो राहित्यकथनं तद्विरुद्धमित्यर्थः । मण्याद्युक्तमन्यदपि निराह– यच्चेति । अग्निमानित्यस्याग्निज्ञान१मित्यर्थः । धूमादित्यस्य च धूमज्ञानादित्यर्थः । धूमादिप्रातिपदिकेन ज्ञानलक्षणायां हेतुत्वार्थकपञ्चमी मुख्यैव संपद्यत इत्यर्थः । यज्ञपत्याद्युक्तदिशा निराह– धूम इति । व्यावृत्तीति । दण्डविशिष्टे अदण्डितो व्यावृत्तीत्यर्थः ।।

ननु धूमे वह्निज्ञापकशब्दप्रयोगो लक्षणयाऽस्त्वित्यत आह– ज्ञापकहेतौ चेति । मुख्यार्थानुपपत्तीत्यर्थः । एवं प्रयोगेऽपि लक्षणेत्युक्तौ बाधकमाह– अन्यथेति । यद्वा नन्वन्यायश्चानेकार्थत्वमिति न्यायेनैकत्रैव मुख्यत्वमन्यत्रा-मुख्यत्वमुपेयमित्यत आह– अन्यथेति । अस्तु वा त्वद्रीत्या कारकहेतावेव पञ्चमी मुख्या । तथाप्यन्यत्र ज्ञापकहेतौ लाक्षणिकीति स्यादित्याह– कारकहेतावेवेति ।।

ननु सुब्विभक्तौ लक्षणा न युक्तेत्यत आह– न चेति । क्वाप्यनुपलम्भान्न सुब्विभक्तौ लक्षणेत्यत आह– वेद इति । प्रयाजशेषेणेति । वाजपेयगते प्रयाजशेषेणेति वाक्ये द्वितीयातृतीयाभ्यां शेषस्य हविस्संस्कारार्थत्वप्रतीत्या प्रयाजनामकयागसाधनाज्यद्रव्यशेषेण हविस्संस्कुर्यादित्यर्थ इति प्राप्ते शेषस्य प्रतिपत्तिमात्रापेक्षत्वात्तत्प्रातिपदिकस्वारस्यानुरोधेन प्रयाजनामकयाग-साधनाज्यशेषं हविष्षु स्थापयेदित्यर्थस्य चतुर्थस्याद्यपादे ‘अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्या’दिति त्रयोदशेऽधिकरणे व्यवस्थापितत्वेन तृतीयाद्वितीययोः कर्मत्वाधिकरणार्थत्वस्वीकारदर्शनादित्यर्थः । बहुवचनैक-वचनयोरविवक्षितार्थत्वभ्रान्तिनिरासाय चतुर्विंशतीति एक इति च विशेषणो-पादानम् । तद्दर्शनादिति । गुण्यादिस्थसङ्ख्यालक्षणया१ दर्शनादित्यर्थः ।।

लिङ्गज्ञानमेव चेति । न तु लिङ्गज्ञानज्ञानम् । ज्ञानलक्षणापक्षे च लिङ्गज्ञानज्ञानमेवोत्पाद्यम् । गङ्गापदेन तीरज्ञानमिव । तच्च नानुमित्यङ्गमिति भावः । हेतौ ज्ञानलक्षणां निरस्य साध्येऽपि तां निराह– २न त्विति । वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकत्वान्तर्गतवह्निज्ञानं प्रतीत्यर्थः । ज्ञाप्यतयेति । ज्ञानजनकत्वरूपज्ञापकत्वं प्रत्येव तज्जन्यज्ञानविषयत्व-रूपज्ञाप्यतयेत्यर्थः ।।

नन्वाद्यपक्षे पदार्थैकदेशेन कथमन्वय इत्यत आह– दृश्यते चेति । उदाहरणरूपावयवमपि पराभिप्रेतं निराह– उदाहरणेऽपीति । शङ्कते– अत एवेति । पूर्वभागमात्रेण व्याप्त्युपस्थितेर्जातत्वादेव । सामयिकं समयबन्ध-कृतमित्यर्थः । अवयवेति । अवयवानियमस्यास्मत्पक्षस्य सिद्धेरित्यर्थः ।।

गौरिति । या गौः सा पदा न स्पृष्टव्येत्यभिप्रायेण ‘गौर्न पदा स्पृष्टव्ये’त्युच्यते वेदे, तथा ‘यस्योभयं सायङ्कालीनं प्रातःकालीनं च हविः क्रिमिकीटादिवशेनार्तिं नाशमाप्नुयात् ऐन्द्रं पञ्चशरावमोदनं निर्वपे’दित्यत्र यस्य यस्य पुंस इति वक्तव्ये यस्येति सकृदेवोक्तिर्यथा, अथ यो ब्राह्मणायावगुरेत् वधोद्योगं कुर्यात् तं शतयातनाख्यनरकिणं विद्यादित्यादौ यो य इति वीप्सां विना यथोक्तिरित्यर्थः ।।

ननु कथं तर्हि ‘यद्यत्पापं प्रति जहि जगन्नाथ तन्मे’ ‘यां यां प्रियः पै्रक्षते’त्यादौ वीप्सोक्तिरित्यत आह– क्वचिदिति । आचार्योक्ताविति । तत्त्वोद्योते । उपनयाख्यावयवं च निराह– उपनयोऽपीति । पञ्चमावयवं च निराह– निगमनमपीति । उपसंहारार्थमिति । पृथक्पृथग्वाक्योक्तानामेक-बुद्ध्यारोहार्थमित्यर्थः । प्रत्येकं कण्टकेति । नायमसिद्धः तल्लक्षणहीनत्वा-दित्युक्त्वा तस्मादसिद्धिराहित्यादिदं साधकम्, नायं विरुद्धः तल्लक्षणराहित्या-दित्युक्त्वा विरुद्धराहित्यादिदं साधकमिति प्रत्येकं निगमनं स्यात्, तथा नायमाभासः तल्लक्षणैर्हीनत्वादित्यनन्तरं तस्मात्सर्वदोषराहित्यादिदं साधक-मिति, तथा इदमसाधकं असिद्धत्वादिति दूषकतानुमानेऽपि तस्मादसिद्ध-त्वादिदमसाधकं तस्मादाभासकत्वादिदमसाधकमित्युपसंहारः स्यात् । ननु कदाचित्तत्रापीष्यत एवेत्यत आह– नियतमिति । तदिति । निगमन-मित्यर्थः । पूर्वोक्तदिशेति भावः ।।

।। पञ्चावयवादिनियमभङ्गः ।। २१ ।।