किञ्च त्वन्मते विशिष्टं..

अथ प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गः ।

तर्कताण्डवम्

किञ्च त्वन्मते विशिष्टं विशेषणविशेष्यतत्सम्बन्धातिरिक्तं नास्तीत्युत्तम्भकाभावविशिष्टप्रतिबन्धकाभावोऽपि क्वचिद्विशेषणा-भावरूपः क्वचिद्विशेष्याभावरूपः क्वचित् सम्बन्धाभावरूप इत्यननु-गमान्न हेतुः । अभावत्रयस्यैकशक्तिमत्त्वेनानुगमे च शक्तिसिद्धिः ।।

न च विशेषणविशेष्यतत्सम्बन्धाभावाः विशिष्टविरोधित्वेनानु-गताः, यत्र विशेषणं वा विशेष्यं वा तत्सम्बन्धो वा नास्ति तत्र विशिष्टं नास्तीति प्रतीतेरिति वाच्यम् । विशिष्टविरोधित्वं हि विशिष्टविरहात्मकत्वं वा तद्व्याप्यत्वं वा वाच्यम् । तदुभयमपि प्रतियोगिनो विशिष्टस्याननुगमे तदभावस्याप्यननुगमादननुगतमेव । विशिष्टस्यैवानुगमे तु तदभावोऽपि स्वत एवानुगत इति किमनया कुसृष्ट्या ।

न्यायदीपः

एवमुत्तेजकाभावविशिष्टमण्याद्यभावरूपदृष्टकारणाभावादेव दाहानुत्पत्त्युप-पत्तेर्न शक्तिसिद्धिरित्यादिना कृतचोद्यस्य श्रुत्यादिविरोधार्थापत्तिपञ्चक-विरोधाभ्यां दूषणमुक्त्वाऽधुना तादृशाभावस्य कारणत्वमेव न युक्तं येन शक्त्यपलापो घटेतेति भावेनाह ।। किं चेति ।।

मणौ हि उत्तेजकाभावसहकृतस्याभावो हेतुरिति प्राञ्च इत्युक्त्वा विशिष्टं नार्थान्तरं येन तदभावोऽनुगतः स्यादित्यादिना तद्दूषयित्वा स्वयं १तत्सर्वं निष्कृत्य वदन् दूषणमाह ।। त्वन्मत इत्यादिना ।। एकशक्तिमत्त्वे-नेति ।। एककार्यानुकूलशक्तिमत्त्वेनेत्यर्थः ।

शशधरोक्तमेवानुगमकमाशङ्क्य निराह ।। न चेति ।। त्रयाणां विशिष्टविरोधित्वं व्यनक्ति ।। यत्रेति ।। अनुगम इति ।। विशेषण-विशेष्यतत्सम्बन्धरूपत्रितयात्मकत्वे तदभावस्यापि त्रित्वापत्त्याऽननुगमात् । तद्विरहात्मत्वं वा तद्विरहव्याप्यत्वं वाऽननुगतमेवेत्यर्थः ।। अनुगमे त्विति ।। विशेषणादित्रितयानुगतं विशिष्टं पदार्थान्तरमित्युपगमे त्वित्यर्थः ।। कुसृष्ट्येति ।। विशिष्टविरोधित्वेन अनुगमः विरोधित्वं विरहात्मत्वादि-रिति कल्पनयेत्यर्थः ।

Load More