अथ मतं ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा..

अनित्यप्रमामात्रानुगतगुणभङ्गः

तर्कताण्डवम्

अथ मतं ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा अविद्य-मानासंसर्गाग्रहो वा गुणःप्रमामात्रेऽनुगतो हेतुः । नचात्रप्रमाणा-भावः । आद्ये पक्षे विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यां धारावाहि-कोत्तरप्रमांप्रति विशेष्यमपि विषयीकुर्वन्त्याः पूर्वस्या ग्राह्यप्रमायाः कारणत्वे कप्तेप्रमान्तरंप्रत्यपीश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्व-कल्पनात् ।

द्वितीयेपि विशिष्टज्ञानरूपं सामान्यंप्रति विशेषणज्ञानस्य विशेषणज्ञानत्वरूपेण सामान्येन कारणत्वे ‘‘यत्सामान्ययोः कार्य-कारणभावो बाधकाभावे सति तद्विशेषयोरपि सः’’ इति न्यायेन विशिष्टप्रमांप्रति विशेष्यनिष्ठविशेषणज्ञानत्वेन कारणत्वकल्पनात् ।

तृतीयेपि संसर्गग्रहसामान्यंप्रत्यसंसर्गाग्राहमात्रस्य कारणत्वेन तद्विशेषस्याविद्यमानासंसर्गाग्रहस्य संसर्गप्रमांप्रति कारणत्वकल्पनात् इति ।

मैवम् । आद्यपक्षे धारावाहिकपूर्वप्रमायां ग्राह्यप्रमात्वे सत्यपि तस्या विशेषणज्ञानत्वेनैव कारणतया ग्राह्यप्रमात्वेन तदभावात् । तत्र तस्याः समानाधिकरणाया एव कारणत्वकप्त्याप्रमान्तरेपि समानाधिकरणाया एव तत्कल्पनाप्रसङ्गाच्च ।

ईश्वरज्ञानस्य भ्रमंप्रतीवोपादानसाक्षात्कारतयैव कारणत्वस्य कप्तत्त्वेन ग्राह्यप्रमात्वेन कारणत्वकल्पनस्य प्रामाण्यपरतस्त्वनिश्चया-धीनत्वेनान्योन्याश्रयाच्च ।

लिङ्गाभासविप्रलम्भकवाक्यजन्ययोर्यादृच्छिकसंवादेनप्रमयो-स्त्वदुक्तव्यधिकरणगुणजन्यत्ववत् समानाधिकरणदोषजन्यत्वस्यापि सत्वेनाप्रामाण्यस्याप्यापाताच्च ।

युक्तिरत्नाकरः

।। ग्राह्येति ।। यद्यपि ग्राह्यत्वशब्देन विशेषणतयात्रोक्तौ भ्रमसाधारण्यं विशेषणविशेष्यं वैशिष्ट्योक्तौ निर्विकल्पकप्रत्ययप्रयोजकत्वेन तेन रूपेण हेतुतेति न तत्साधारण्यम् । तथापि यत्र ज्ञाने तद्वितीयः तत्प्रमात्वेन हेतुतेति भावः । निर्विकल्पकप्रमाप्रमाबहिर्भूतमितिमतेन पक्षद्वयमाह ।। विशेष्येति ।। विशेष्यसम्बन्धेत्यर्थः । एवं चाकाशे शब्द इत्यादौ नानु-पपत्तिः । अविद्यमानत्वसंसर्गविशेषणम् विशेष्यमपीति विशेष्ये विशेष-वैशिष्ट्यमित्यर्थः । एतच्च ग्राह्यत्वप्रमात्वोपपादकं कारणत्वेग्राह्यप्रमात्वे कारणत्वे सामानाधिकरण्येनापि हेतुत्वे गौरवादिति भावः ।

।। तदभावादिति ।। ग्राह्यप्रमात्वस्य विशेषणज्ञानविशेषणत्वाभावेन यत्सामायोन्ययोरिति न्यायप्रवृत्त्या हेतुत्वकल्पकत्वादिति भावः । यदि च तत्र हेतुभूतमानग्राह्यत्वं प्रमात्वं दृष्टमित्येतावता तेनापि रूपेण हेतुता तदा सामानाधिकरण्यमपि दृष्टमिति तेनापि तद्धेतुतास्यादित्यत्राह ।। तत्रेति ।। धारावाहिकस्थले जनकज्ञाने जन्यधीसामानाधिकरण्यं दृष्टमितितेन रूपेण हेतुत्वापत्येत्यर्थः ।। १क्लप्ततयेति ।। न च प्रमायां गुणजन्यसाधनस्येश्वर-सिध्यर्थतया इतः पूर्वं तदसिध्यातज्ज्ञानस्योपादानसाक्षात्कारत्वेन हेतुता चापि अक्लृप्तेति वाच्यम् । कार्यत्वलिङ्गेनोपादानसाक्षात्कारत्वेनापि तत्सिद्धिसम्भवात् । एवं च प्रमात्वस्य गुणजन्यतावच्छेदकत्वरूप-परतस्त्वसिद्धौ तदनुरोधेन ग्राह्यप्रमात्वस्य हेतुतावच्छेदकत्वसिद्धिः तत्सिद्धौ चानुगतगुणसम्भवात् परतसत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। लिङ्गा-भासेति ।। धूलीपटले धूमभ्रमेण वा पर्वतवृत्तिद्रव्यत्वादौ वह्निव्याप्तिभ्रमेण वा वस्तुतो वह्निमति पर्वते यत्र वह्न्यनुमितिर्यत्र वा घटवति घटाभाव-भ्रमवद्विप्रलम्भकोदीरिते गेहे घटो नास्तीतिवाक्येन शाब्दधीस्तत्रोभयत्रेत्यर्थः ।

न्यायदीपः

यदुक्तमनुगतगुणाभावेनानुमानद्वये बाधादित्यादि तन्नेति भावेनानुगतगुण-माशङ्क्य निराह ।। अथेति ।। यद्यपि ‘‘प्रमामात्रे नानुगतो गुण’’ इत्येवोक्तं मणौ तथापि पक्षधरप्रगल्भादिव्याख्यातृभिरनुगतगुणस्योक्तत्वात्तन्मता-शङ्केयम् ।। ग्राह्येति ।। येन यद्ग्राह्यं तत्र तत्प्रमा हेतुरित्यर्थः ।। विशेष्य-निष्ठेति ।। विशेष्यसम्बद्धेत्यर्थः । तेनाकाशे शब्द इत्यादौ न दोषः । अविद्यमानो योऽसंसर्गः धर्मिधर्मसम्बन्धाभावः तदग्रह इति तृतीयपक्षार्थः । मतत्रयेपि क्रमेण युक्तीराह ।। आद्येत्यादिना ।।प्रमान्तरंप्रतीति ।। अनुभवंप्रतीत्यर्थः ।। विशिष्टेति ।। जन्यविशिष्टज्ञानेत्यर्थः ।। तदभावा-दिति ।। कारणत्वाभावादित्यर्थः । ग्राह्यप्रमात्वेनैव कारणत्वमित्यत्र कल्पकाभावादिति भावः ।

न च शाब्दप्रमायां ग्राह्यविशेषस्य १वाक्यार्थस्यप्रमाहेतुरितिप्रमासामान्ये ग्राह्यप्रमासामान्यं हेतुरिति वाच्यम् । तथापि ग्राह्यप्रमामात्रस्यातिप्रसक्ततया तद्ग्राह्यप्रमायां तद्ग्राह्यप्रमाहेतुरित्यननुगम एवेत्यनुगतगुणालाभात् । अप्रमात्वे दृष्टान्ते साध्यवैकल्यस्यैवमप्यपरिहाराच्चेति भावः ।

नन्वस्तु विशेषणज्ञानत्वेनैव हेतुतेत्यत आह ।। तत्रेति ।। यद्वा ग्राह्यप्रमात्वेन तत्र कारणत्वेपि न सर्वत्रानुगतगुणलाभ इत्याह ।। तत्रेति ।। उक्तिविशिष्टप्रमायां तस्याः विशेषणप्रमात्वेन हेतुभूतपूर्वप्रमाया इत्यर्थः ।। कप्त्येति ।। अन्यथातिप्रसङ्गान्निर्विकल्पकानादरापत्तेश्चेति भावः ।

नन्वीश्वरज्ञानस्य प्रकारान्तरेण हेतुत्वाकप्तेर्वा१प्रमात्वस्य गुणप्रयोज्य-त्वान्यथानुपपत्त्यैवैतत्कल्प्यत इत्यत आह ।। ईश्वरेति ।। यादृच्छिकेति ।। यादृच्छिसंवादेन हेतुनावगतप्रमात्वयोरित्यर्थः ।। अप्रामाण्यस्येति ।। नचायं दोषः सिद्धान्तेऽपीति वाच्यम् । विषयसत्त्वाभावविशिष्टस्यैव दोषस्या-प्रमाहेतुत्वात् । नचैवं परमते युक्तम् । उक्तरूपदोषाभावादेवप्रमात्वोपपत्तौ गुणस्य हेतुतानापत्तेरिति भावः ।

Load More