यच्चेदमुच्यते वेदस्यापौरुषेयत्वे ..

।। श्रीः ।।

श्री व्यासतीर्थयतिविरचितं

तर्कताण्डवम्

द्वितीयपरिच्छेदः

अथाकाङ्क्षानिरूपणम्

यच्चेदमुच्यते वेदस्यापौरुषेयत्वे आप्तवाक्यत्वादिरूपस्य प्रमाण-शब्दलक्षणस्याभावात् प्रामाण्यं न स्यादिति । तन्न । पद्धतौ निर्दोष-शब्दत्वं निर्दोषवाक्यत्वं वा आगमलक्षणमित्युक्तत्वात् ।

अत्राद्यं निर्दोषः शब्द आगम इति प्रमाणलक्षणानुसारि । निष्प्रयोजनत्वादिदोषनिरासार्थमावश्यकेन निर्दोषत्वविशेषणेनैव निरभिधेये अनन्विते चाप्यतिव्याप्तिनिरासेन वाक्यग्रहणस्यानपेक्षित-त्वात् ।।

द्वितीयं तु ‘‘आगमोऽदुष्टवाक्यं च’’ इति ब्रह्मतर्कानुसारि । अत्र वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थम् ।

अत एव पद्धतौ ‘‘द्वितीयपक्षे विभक्त्यन्ता वर्णाः पदं, आकाङ्क्षा-योग्यतासन्निधिमन्ति पदानि वा वाक्यम्’’ इत्यादिना पदादीनां लक्षणमुक्तम् । अत एव प्रमाणलक्षणटीकायां ‘‘मूलस्थं शब्दपदं वाक्यपरम्’’ इत्युक्तम् ।।

श्रीराघवेन्द्रयतिविरचितः

न्यायदीपः

यस्मिन् वेदस्य सर्वस्याप्याकाङ्क्षायोग्यतादयः ।

तं वन्दे परमानन्दमिन्दिरामन्दिरोरसम् ।।

ननु वेदापौरुषेयत्वसमर्थनं पूर्वपरिच्छेदे कृतमयुक्तम् । तथात्वे शब्द-प्रमाणलक्षणाभावेन प्रमाणशब्दत्वानापत्तेः । एवं च आदिवर्जितैः, आदरेणाख्यात इत्युक्ते हरौ शक्तितात्पर्ये न युक्ते इति चोद्यमनूद्य निराह ।। यच्चेति ।। आदिपदेन आप्तिपूर्वकशब्दत्वयथार्थवाक्यार्थज्ञानजन्य-वाक्यत्वादिग्रहः । प्रमाणभूतशब्दस्य यल्लक्षणं तस्येत्यर्थः ।। प्रामाण्य-मिति ।। प्रमाजनकत्वमित्यर्थः । दूरे तस्य स्वतस्त्वसाधनमिति भावः ।। पद्धताविति ।। ‘‘निर्दोषः शब्द आगमः, निर्दोषं वाक्यमिति वा’’ पद्धतावित्यर्थः । द्वयोरप्युक्तिः तद्द्वयतात्पर्यव्यक्त्यर्था । तथा च लक्षणान्तरसम्भवात् प्रमाण्यं वेदस्य युक्तमिति भावः । एतेन एवमागम-लक्षणोक्तेरभिप्रायः स्फुटीकृतो भवति । द्वयोक्तेर्मूलं भावं च व्यनक्ति ।। अत्रेति ।।

ननु कथं तर्हि अबोधकविपरीतबोधकरूपवाक्याभासेऽतिव्याप्तिनिरासः । पद्धतावेव ‘‘आकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यं’’ इत्युक्त्वा ‘‘पदत्वेनानभिधेयत्वस्य आकाङ्क्षासन्निधिभ्यामन्वयाभावस्य निरास’’ इत्याद्युक्तेरित्यतस्तद् द्वितीयलक्षणाभिप्रायमित्युपेत्य ‘‘निरभिधेयत्वेनान्वया-भवेन वा अबोधकत्वम्’’ इत्यादि निर्दोषपदकृत्योक्तिपरपद्धत्युक्तिं हृदि कृत्वा तात्पर्यमाह ।। निष्प्रयोजनत्वेति ।। ब्रह्मतर्केति ।। तत्त्वनिर्णयोक्त-ब्रह्मतर्केत्यर्थः । नन्वेवमुक्तदिशा शब्द इत्येव पूर्तौ वाक्यमिति व्यर्थमत आह ।। अत्र वाक्येति ।। अस्मिन्पक्षे निर्दोषपदं पद्धत्युक्तवाक्यपद-व्यावर्त्यान्यदोषव्यावृत्त्यर्थमिति भावः ।।

।। विभक्त्यन्ता इति ।। सुप्तिङ्रूपविभक्त्यन्ता इत्यर्थः । ‘‘विभक्तिश्च’’ इति सूत्रे सुप्तिङोरुभयोरपि विभक्तिसञ्ज्ञोक्तेः । ‘‘सुप्तिङन्तं पदं’’ इति पाणिनीयसूत्रादिति भावः । अत्र बहुत्वं प्रायिकत्वाभिप्रायम् । विभक्त्यन्तो वर्णः तादृशौ वर्णौ वा तादृशा वर्णा वेत्यर्थः । विभक्त्यन्तवर्णत्वं पदत्वमिति यावत् । विभक्त्यन्तत्वस्य वर्णत्वाव्यभिचारेऽपि वर्णा इत्याद्युक्तिः स्पष्टार्था । राजपुरुष इत्यादौ अनेकपदसमुदायस्य विभक्त्यन्तस्य पदत्व-निवृत्त्यर्थं विभक्त्यन्ताः वर्णा इत्युक्तिः । तदर्थस्तु विभक्तिः अन्त एव येषां ते विभक्त्यन्ता इति । राजपुरुष इत्यादौ तु मध्येऽपि विभक्तिर्लुप्ताऽ-स्तीत्येके । अन्ये तु तस्यापि पदत्वलाभायैवमुक्तिः । पदद्वयावयव-विभक्तिद्वयात् समुदाय उत्पन्नविभक्तेरन्यत्वेन पदद्वयस्थवर्णसमुदायस्यापि विभक्त्यन्तवर्णत्वादित्याहुः । वर्णान्यस्फोटनिरासाय वर्णोक्तिरित्यपरे ।।

।। आकाङ्क्षेति ।। प्रयुज्यमानपदेष्वेवान्योन्याकाङ्क्षावन्ति पदानीत्यर्थः । तेन निराकाङ्क्षपदानि वाक्यमिति भाष्यटीकया न विरोधः । स्वस्मिन्नेव पूर्णा-काङ्क्षावत्त्वेनान्यत्र निराकाङ्क्षपदसन्दर्भो वाक्यमिति चन्द्रिकायां तस्यार्थोक्तेः । पदानीति बहुत्वं प्रायिकाभिप्रायम् । अत्रापि पदशब्दप्रयोगकृत्यं पूर्वं वर्णपद-कृत्यवत् पदान्यवाक्यस्फोटनिरासायेति बोध्यम् । प्रकृतिप्रत्ययसमभि-व्याहारपदे अतिव्याप्तिनिरासाय पदानीत्युक्तिः । पदादीनामित्यादिपदेन वाक्यस्याकाङ्क्षासन्निध्यादेर्ग्रहः ।। अत एवेति ।। पदादिस्वरूपव्युत्पादनार्थ-त्वादेवेति ब्रह्मतर्कसंवादार्थत्वादेवेत्यर्थः ।। मूलेति ।। ‘‘निर्दोषः शब्द आगमः’’ इति मूलस्थमित्यर्थः ।।

Load More