एवं हेतुदोषेऽप्यसाधकतालिङ्गत्वं सव्यभिचारविरुद्धव्याप्यत्वा-सिद्धानुगतेनाव्याप्तित्वेनैव

गौतमोक्तहेत्वाभासपञ्चत्वभङ्गः ।। ३० ।।

तर्कताण्डवम्

एवं हेतुदोषेऽप्यसाधकतालिङ्गत्वं सव्यभिचारविरुद्धव्याप्यत्वा-सिद्धानुगतेनाव्याप्तित्वेनैव । न तु गौतमोक्तेन सव्यभिचारत्वादिना ।।

मणावेव कोटिद्वयोपस्थापकरूपवत्त्वं१ नानुमितिप्रतिबन्धकत्वम् । साधारणत्वादिरूपेणैव ज्ञातस्य प्रतिबन्धकत्वात् लक्षणानुरोधेन प्रत्येकमेव हेत्वाभासत्वमित्युक्तत्वेन, एवमाश्रयासिद्धिर्व्याप्यत्वा-सिद्धिः पक्षधर्मतासिद्धिश्च प्रत्येकमेव दोषः । प्रत्येकस्य ज्ञाना-दुद्भावनाच्चानुमितिप्रतिबन्धादिति चोक्तत्वेन प्रथमविभाग एव साधारणासाधारणानुपसंहारिविरुद्धसत्प्रतिपक्षाश्रयासिद्धव्याप्य-त्वासिद्धपक्षधर्मत्वासिद्धबाधिता इत्यादेर्वक्तव्यत्वेन गौतमोक्त-पञ्चत्वायोगात् ।।

ननु महर्षिणा स्वरूपसता कोटिद्वयोपस्थापकत्वेनानैकान्तिकत्रयं परामर्शविषयाभावत्वेन चासिद्धत्रयमेकीकृत्य विभागः कृत इति न पञ्चत्वहानिरिति चेन्न । तथात्वे साक्षात्प्रतिबन्धकत्वेन बाध-प्रतिरोधयोर्व्याप्तिरहितलिङ्गत्वेन सव्यभिचारविरुद्धयोरप्येकीकरणं स्यादित्याद्यतिप्रसङ्गः स्यात् ।।

स्वतन्त्रपुरुषेच्छा नियन्तुमशक्येति चेन्न । असाधकतासाधनादि-व्यावहारानुपयोगित्वेन निष्फले विभागे निर्मर्यादं प्रवृत्तस्य प्रमाण-परतन्त्रत्वेन नियन्तुं शक्यत्वादिति ।।

न्यायदीपः

एवं परिगणितहेत्वाभासपञ्चके बाधप्रतिरोधयोः प्रतिज्ञाविरोधेऽन्तर्भाव-मुक्त्वाऽन्येषां त्रयाणां प्रागुक्तहेतुदोषयोरन्तर्भावं ‘लिङ्गराहित्यमव्याप्तिरिति प्रागुक्तानुव्याख्यानव्याख्यानसुधोक्तरीत्या व्यनक्ति– एवमित्यादिना । मणावेवेति । उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं सव्यभिचारत्व-मित्युक्त्वा तच्च साधारणत्वादि, तेनैव रूपेण ज्ञातस्य प्रतिबन्धकत्वा-दित्युक्तत्वेन लक्षणानुरोधेन प्रत्येकमेव हेत्वाभासत्वमिति चोक्तत्वेन साधारणत्वासाधारणत्वानुपसंहारित्वानां पृथग्दोषत्वोक्तेः । तथाऽसिद्ध्युक्ति-प्रस्तावे आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिः प्रत्येकमेव दोषः । प्रत्येकज्ञानादुद्भावनाच्चानुमितिप्रतिबन्धादिति चोक्तत्वेनाश्रयासिद्ध्यादेः पृथग्दोषत्वेन चेत्यर्थः । प्रथमेति । हेत्वाभाससामान्यलक्षणानन्तर-प्राप्तविभाग एवेत्यर्थः ।।

नन्वेतदेवाशङ्क्य मणौ स्वरूपसतानुगतरूपेण त्रयमेकीकृत्य महर्षिणा विभागकरणादित्युक्तमित्यतस्तदाशङ्क्याह– नन्विति । इत्याद्यतिप्रसङ्गा-दिति । १(आदिपदेनासिद्धत्वेनाव्याप्तित्वेत्यादिग्रहः ।) ननु मणावेव-मेवाशङ्क्य स्वतन्त्रेच्छाया नियोगपर्यनुयोगाविषयत्वादिति समाहितमिति भावेन तदाशङ्क्य निराह– स्वतन्त्रेति ।।

।। गौतमोक्तहेत्वाभासपञ्चत्वभङ्गः ।। ३० ।।