नापि मण्युक्तप्रकारेण साधारणत्वादिनाऽसाधकतालिङ्गत्वम्

साधारणस्याव्याप्तावन्तर्भावः ।। ३१ ।।

तर्कताण्डवम्

नापि मण्युक्तप्रकारेण साधारणत्वादिनाऽसाधकतालिङ्गत्वम् । तथा हि– साधारणत्वं पक्षत्रयवृत्तित्वं चेद्विपक्षवृत्तित्वेनैव पूर्णत्वेन शेषवैयर्थ्यम् स्यात् । प्रत्युत पक्षसपक्षवृत्तित्वं गुणः । न तु दोषः । विरुद्धव्यावृत्त्यर्थत्वान्न वैयर्थ्यमिति चेन्न । दूषकताबीजैक्ये तस्यापि सङ्ग्राह्यत्वेनाव्यावर्तनीयत्वात् । विपक्षवृत्तित्वं चेदव्याप्तावन्तर्भावः । विपक्षवृत्तित्वस्य साध्याभावसम्बन्धरूपत्वात् । तस्यैव चाव्याप्ति-त्वात् ।।

एतेनाव्याप्तिं प्रत्युपजीव्यत्वाद्व्यभिचार एव दोष इति अव्याप्त्यज्ञानदशायां व्यभिचारज्ञानेनाप्यनुमितिप्रतिबन्धदर्शना-द्व्यभिचारोऽपि दोष इति च निरस्तम् । तयोरभेदात् ।

एतेनैव विरुद्धस्यापि तत्त्वाज्ञाने विपक्षवृत्तित्वज्ञानदशायां साधारणत्वं उपधेयसङ्करेऽप्युपाधेरसङ्कर इति च निरस्तम् । विरुद्धेऽपि विपक्षवृत्तित्वमेवोपाधिरिति वक्ष्यमाणत्वेनोपाध्यसङ्करस्याप्यभावात् ।।

किञ्च अव्याप्तावन्तर्भावाच्छादनाय विपक्षवृत्तित्वं साधारणत्व-मित्युक्तौ विपक्षत्वं साध्यात्यन्ताभाववत्त्वं साध्यसम्बन्धात्यन्ता-भाववत्त्वं साध्यवद्भिन्नत्वमित्यादिरूपेण नानेति तद्वृत्तित्वमपि नाना स्यात् । तथा च बाधप्रस्तावोक्तन्यायेन सर्वेषां प्रत्येकं हेत्वा-भासत्वस्य वक्तव्यतया हेत्वाभासाधिक्यं स्यात् ।।

१या तु व्याप्तिज्ञानहेतुभूतसहचारज्ञानस्य सहकारी योऽभावः तत्प्रतियोगिभूतं यज्ज्ञानं तद्विषयत्वेनैकीकरणान्नाधिक्यमिति कश्चिदाह । तन्न । त्वदुक्तातिवक्रविषयत्वस्याज्ञानेऽपि व्याप्त्यभाव-ज्ञानेनैवानुमितिप्रतिबन्धात् । स्वरूपसतैवोक्तविषयत्वेनैकीकरणे तु न तद्धेत्वाभासविभागे तन्त्रमित्युक्तत्वेन हेत्वाभासाधिक्यतादव-स्थ्यम् ।।

किञ्च व्याप्तिज्ञानहेतुभूतसहचारज्ञानस्य व्यभिचारज्ञानाभाव इव सहचाराभावज्ञानाभावो व्याप्त्यभावज्ञानाभावश्च सहकारीति तत्प्रति-योगिभूतज्ञानविषयत्वं विरुद्धोपाधेरसहचारस्य व्याप्यत्वासिद्ध्युपाधेर-व्याप्तेश्चास्तीति तयोरपि साधारणोपाधित्वं स्यात् ।।

न च सहकार्यभावशब्देन व्यभिचारज्ञानाभावरूप एव सहकारि-भूताभावो विवक्षित इति नोपाधिसाङ्कर्यमिति वाच्यम् । आत्माश्रया-दननुगमाच्च ।।

किं च समवायवृत्त्या यत्र वह्न्यभावः तद्वृत्तित्वं धूमेऽप्यस्तीति व्याप्तिग्रहानुप्रविष्टसम्बन्धेन यत्र साध्यं नास्ति स विपक्ष इति वक्तव्यतयाऽऽवश्यकत्वेनाव्याप्तिरेव दोषः ।।

न्यायदीपः

उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं च साधारणत्वादि तेन रूपेण ज्ञातस्य प्रतिबन्धकत्वादित्यादिमण्याद्युक्तेराह– साधारणेत्यादिनेति । असाधारणत्वानुपसंहारित्वयोरादिपदेन ग्रहः । सुधोक्तं हृदि कृत्वाऽऽह– साधारणत्वमित्यादिना । दूषकताबीजेति । विपक्षवृत्तित्वरूप-दूषकताबीजस्य साधारणविरुद्धयोरेकत्व इत्यर्थः ।।

ननु मणौ विपक्षवृत्तित्वेनैव दूषकताबीजमुक्तमित्यतस्तदनूद्य निराह– विपक्षवृत्तित्वं चेदिति । व्यभिचारोऽपि दोष इति । पृथग्दोष इत्यर्थः । तयोरभेदादिति । विपक्षवृत्तित्वमात्रस्यैव साधारणत्वे तस्यैवाव्याप्तित्वादिति भावः । उपधेयेति । परस्परव्यावर्तकतत्तत्क्रोडिकारकोपाधिमतो विशेष्यस्य साङ्कर्येऽपि विपक्षवृत्तित्वं साधारणत्वं विपक्षमात्रवृत्तित्वं विरुद्धत्वमित्यु-पाध्योरसङ्कर इति च निरस्तमित्यर्थः । वक्ष्यमाणत्वेति । विरुद्धत्वस्या- व्याप्त्यन्तर्भावोक्तिप्रस्ताव इत्यर्थः । इत्यादिरूपेणेति । आदिपदेन १साध्यतत्प्रतियोगिकान्योन्याभाववत्त्वसाध्याधिकरणनिष्ठान्योन्याभावप्रतियोगि-त्वादिग्रहः । सहकारी योऽभाव इति । प्रागुक्तत्रिविधविपक्षवृत्तित्वानां ज्ञानस्याभावः तत्प्रतियोगिभूतं ज्ञानं प्रागुक्तानामेव ज्ञानं तद्विषयत्वेनेत्यर्थः । उक्तरूपविपक्षवृत्तित्वज्ञानानां व्यभिचारज्ञानत्वेन तदभावसहकृतसहचार-ज्ञानस्यैव व्याप्तिग्रहहेतुत्वादिति भावः । एतत्सङ्ग्राहकमात्रमुक्तम् । न तु प्रतिबन्धकज्ञानविषयत्वेनेत्येतदनूद्य निराह– स्वरूपसतेति । उक्तत्वेनेति । ‘‘यद्रूपेण हि ज्ञानमनुमितिप्रतिबन्धकमि’’त्यादिना ग्रन्थेन व्यवहितभङ्गे उक्तत्वेनेत्यर्थः । आधिक्येति । विपक्षवृत्तित्वानां प्रागुक्तदिशा नानात्वेन पञ्चापेक्षयाऽधिक्यमित्यपरिहार्यमित्यर्थः ।।

यदपि नानाभूतविपक्षवृत्तित्वानां व्याप्तिज्ञानहेतुसहचारज्ञानसहकारी-भूताभावप्रतियोगिज्ञानविषयत्वेनैकीकरणं तदतिव्याप्तं चेत्याह– किञ्च व्याप्तिज्ञानेति । सहचारज्ञानसहकारीभूताऽभावे सङ्कोचविवक्षयाऽतिव्याप्त्य-भावशङ्कां निराह– न च सहकारीति । आत्माश्रयादिति । साधारण-व्यभिचारत्वं नानेत्युक्ते साधारणव्यभिचारत्वं नाम व्याप्तिग्रहहेतुसहचारज्ञान-सहकारीभूतो यो व्यभिचारज्ञानाभावः तत्प्रतियोगिज्ञानविषयत्वं व्यभिचारत्वं सर्वेष्वनुगतमेकमित्युक्ते व्यभिचारनिरुक्तेर्व्यभिचारघटितत्वादात्माश्रय इत्यर्थः । अननुगमाच्चेति । व्यभिचारनिरुक्तिशरीरप्रविष्टव्यभिचाराणां विपक्षत्वं साध्यात्यन्ताभाववत्त्वमित्यादिना प्रागुक्तदिशा नानात्वादिति भावः । उपजीव्यत्वादव्याप्तित्वेनैव दोषोऽस्त्वित्याह– किञ्चेति । आवश्य-कत्वादिति । व्याप्तिशरीरप्रविष्टसम्बन्धाभावस्याज्ञाने विपक्षत्वादेरज्ञानेन तज्ज्ञानेऽवश्यम्भाविनि तदभावरूपाव्याप्तिरेव दोषोऽस्तु किं तादृशसम्बन्धेन साध्याभाववद्वृत्तिनेत्यर्थः ।।

।। साधारणस्याव्याप्तावन्तर्भावः ।। ३१ ।।