यच्चोक्तं मणौ– नीलोत्पलमिति कर्मधारये ..
७५. अथ कर्मधारयतत्पुरुषयोः मण्युक्तवैषम्यभङ्गः
तर्कताण्डवम्
यच्चोक्तं मणौ– नीलोत्पलमिति कर्मधारये व्यास इव विशेषण-विभक्तेरभावेन सामानाधिकरण्याभावेपि नामार्थयोरभेदान्वय-व्युत्पत्तेर१भेदान्वयतया भातीति न लक्षणेति । तत्र ब्रूमः । अभेदान्वये न तावन्नामार्थत्वमात्रं तन्त्रम् । चैत्रस्य पुत्र इत्यत्रापि तत्प्रसङ्गात् । नाप्यविभक्तिकनामार्थत्वम् । गौरवात् । नीलं चतदुत्पलं चेति व्यासेऽभावाच्च ।।
ननु– गुर्वपि समासव्यासानुगतं भिन्नविभक्तिरहितनामार्थत्वं तन्त्रम् । नचैवं व्यासे विभक्तिवैयर्थ्यम् । विशेष्यविभक्तेः कर्मत्वाद्यर्थकत्वात् । विशेषणविभक्तेश्च शब्दसाधुत्वार्थत्वादिति चेन्न । चन्द्र इव मुखं, घटो न पटः, नील उत्पलमित्यत्राप्यभेदधीप्रसङ्गात् । इवशब्दे नञ्शब्दे च विभक्तेरभावात् । नील उत्पलमित्यत्र नील-प्रातिपदिकस्य अविभक्तिकत्वेनासाधुत्वेपि गाय्यादिवट्टादिप्रत्यय-मात्रवच्च नीलं प्रतीव स्वार्थमभेदं प्रत्यपि बोधकत्वावश्यम्भावात् ।।
न्यायदीपः
नन्वस्त्वेवं तत्पुरुषे बहुव्रीहौ च शक्तिर्न लक्षणेति । कर्मधारये तु न शक्तिर्नापि लक्षणा । विनैव ताभ्यामभेदस्यान्वयतयैव भानोपपत्तेरिति मण्युक्तेरित्यत आह ।। यच्चेति ।। सामानाधिकरण्येति ।। एकविभक्ति-कत्वरूपशब्दसामानाधिकरण्याभावेपीत्यर्थः । अनेन शक्त्यभाव उक्तः । नामार्थयोः प्रातिपदिकार्थयोरित्यर्थः ।
कर्मधारयेपि स्मृतविभक्तिमादाय सामानाधिकरण्यसत्त्वेन शक्त्यैवा-भेदान्वयबोध इति वक्तुं पराभिमतं तावत्खण्डयति ।। अभेदान्वय इत्यादिना ।। अनन्यगत्या गौरवमपि सह्यमित्यत आह ।। नीलं चेति ।। भिन्नेति ।। विरुद्धविभक्तिरहितेत्यर्थः ।
।। न चैवमिति ।। विरुद्धविभक्तिराहित्यस्यैव तन्त्रत्व इत्यर्थः । प्रातिपदिकमात्रप्रयोगेपि तत्सम्भवादिति भावः ।
तमेव प्रसङ्गं व्यनक्ति ।। इवेत्यादिना ।। भिन्नविभक्तिराहित्य-व्यक्त्यर्थमुक्तम् ।। विभक्तेरभावादिति ।। ‘‘अवयादाप् सुप’’ इति लुप्त-त्वादिति भावः । विभक्तेरभावेन नीलपदं स्वार्थमेव न बोधयतीति कथं तदभेदान्वयबोधकमित्यतः तिङन्ते ष इत्यादौ प्रकृते ।
तर्कताण्डवम्
ननु– नीलं नीलप्रातिपदिकस्यार्थः । अभेदस्त्वन्वयः । अन्वय-बोधे चाकाङ्क्षा हेतुः । अविभक्तिके च नाकाङ्क्षेति नाभेदधीरिति चेन्न । तथात्वे विभक्तेः शब्दसाधुत्वमात्रार्थत्वायोगात् ।।
किञ्चैवं समासे त्वन्मते विभक्तेरभावेनाकाङ्क्षाविरहादभेदधीर्न स्यात् । समासेऽन्यैव व्युत्पत्तिरिति चेत्तर्हि राजपुरुष इत्यत्रापि समासव्यासानुगतमेकविभक्तिरहितनामार्थत्वं सम्बन्धस्यान्वयत्वे तन्त्रम् व्यासे तु षष्ठी साधुत्वार्था राजन् पुरुष इत्यत्राकाङ्क्षाभावान्न सम्बन्धोऽन्वयतया भाति समासे त्वन्यैव व्युत्पत्तिरिति सुवचत्वेन तत्र त्वदङ्गीकृता लक्षणा न स्यात् ।
तस्माल्लाघवात्समासे व्युत्पत्त्यन्तरे मानाभावाच्चैकविभक्तिकत्व-मभेदस्यान्वयत्वे तन्त्रम् । भिन्नविभक्तिकत्वं च सम्बन्धस्यान्वयत्वे तन्त्रम् । तच्च कर्मधारये तत्पुरुषे च लुप्तं स्मर्यत इति नोभयत्रापि लक्षणेत्येव युक्तम् ।
न्यायदीपः
नीले त्यादिप्रयोगेऽतिप्रसङ्गोद्धारमाशङ्क्य निराह ।। नन्वित्यादिना ।। किञ्चैवमिति ।। विभक्त्यभावप्रयुक्ताकाङ्क्षाविरहेणान्वयबोधाभावे सतीत्येवंशब्दार्थः ।। त्वन्मत इति ।। सिद्धान्ते तु लुप्तत्वेपि सस्मर्य-माणतोपगमादभावो नेति भावः ।
।। अन्यैव व्युत्पत्तिरिति ।। तथाच तत्र विभक्त्यभावेप्याकाङ्क्षा-सत्त्वेनान्वयबोधो नायुक्त इति भावः । तस्मादित्यस्य विवरणं लाघवादित्यादि ।। एकेति ।। समानेत्यर्थः ।। नोभयत्रापीति ।। यथा कर्मधारये लक्षणा नेत्युच्यते तथा तत्पुरुषेपि नेति कर्मधारय एव लक्षणानेत्ययुक्तमित्यर्थः ।। अभेदान्वयानन्तरमिति ।। नीलप्रातिपदिकार्थेन सहाभिन्नं नील-मित्यन्वयानन्तरमित्यर्थः ।
तर्कताण्डवम्
एतेन विशेषणविभक्तेरभेदार्थकत्वे विभक्त्यर्थाभेदान्वयानन्तरं नीलस्य घटान्वयः स्यात् । तथा १चाभिन्ननीलाभिन्नत्वेन घटधीः स्यात् ।
न तु नीलाभिन्नत्वेनेत्यनुभवविरोध इति निरस्तम् । पदद्वय-निष्ठत्वेन ज्ञातैकविभक्तेरेवाभेदान्वयबोधकत्वेनैकनिष्ठत्वमात्रज्ञानेन तदसिद्धेः ।
उक्तं च ब्रह्मतर्के–
‘‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः ।
ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ।।
नामादिस्थितिरेवात्र ब्रह्मणो ह्यभिधीयते ।
सर्वार्था प्रथमा यस्मात्सप्तम्यर्था ततो मता ।’’ इति ।
उक्तं च सुधायां तत्त्वमसिवाक्यस्य गौणत्वोक्तिप्रस्तावे, सामानाधिकरण्यमात्रस्य गौणत्वमिति ।
।। इति कर्मधारयतत्पुरुषयोर्मण्युक्तवैषम्यभङ्गः ।। ७५ ।।
न्यायदीपः
एतेनेत्युक्तमाह ।। पदद्वयेति ।। एकेति ।। समानेत्यर्थः ।। उक्तं चेति ।। पदद्वयनिष्ठत्वेन ज्ञातैकविभक्तिकत्वमेवाभेदबोधे तन्त्रमित्येत ‘‘न्नप्रतीकेन हि स’’ इति सूत्रभाष्योदाहृतब्रह्मतर्काख्यग्रन्थे नाम ब्रह्मेत्युपासीतेत्यादिच्छान्दोग्यवाक्यव्याख्यानपरे उक्तमित्यर्थः ।
।। नामेति ।। नामब्रह्मेत्युपासीतेत्यारभ्य प्राणोब्रह्मेत्युपासीतेत्यन्तेषु पञ्चदशसु प्रकरणेषु विद्यमाननामादिशब्दब्रह्मशब्दयोः प्रथमाविभक्त्यन्तत्वा-दित्यर्थः ।
कथमित्यत आह ।। सर्वार्थेति ।। यस्मात्प्रथमा सर्वविभक्यर्थका तस्मादिह सप्तम्यर्था मता । यस्मात्सप्तम्यर्था तस्मान्नामादिस्थिति-रेवात्राभिधीयत इत्यन्वयः । अत्र स्मृतावुभयोः प्रथमात्वादित्युक्तत्वादे-तदवसीयत इति भावः ।
।। सामानाधिकरण्येति ।। पदद्वयनिष्ठैकविभक्तिकत्वरूपसामानाधि-करण्यमात्रस्येत्यर्थः । गौणत्वममुख्याभेदपरत्वम् ।
।। इति कर्मधारयतत्पुरषयोर्मण्युक्तवैषम्यभङ्गः ।। ७५ ।।