बाधकपञ्चकेऽप्याद्यं तावन्न युक्तम्
३३. अथ उदयनोक्तवक्त्रभिप्रायविधित्वभङ्गः ।
तर्कताण्डवम्
बाधकपञ्चकेऽप्याद्यं तावन्न युक्तम् । त्वन्मते इदं कर्तव्य-माप्ताभिप्ररोतत्वादिति हेतूकरणवदुपपत्तेः ।
नापि द्वितीयम् । अर्थवादादेवेष्टसाधनत्वे बुद्धे विधिप्रत्ययस्य वा तदर्थस्य वाऽनुमित्यनभ्युपगमात् । त्वत्पक्षेऽपि तत्र विधिप्रत्यया-द्यनुमानं व्यर्थमेव । तद्बोध्यस्य प्रवर्तकस्य इष्टसाधनत्वस्यार्थवादादेव सिद्धेः । असिद्धौ च कल्पकाभावात् । व्यापकानुपलब्धिरूप-बाधकनिरासेन सार्थक्यं तु मन्मतेऽपि समम् ।।
न्यायदीपः
इष्टोपायस्य लिङाद्यर्थत्वे प्रागुक्तपञ्चबाधकानि क्रमेण निराह ।। बाधकेत्यादिना ।। इति हेतूकरणवदिति ।। इदं त्वया कर्तव्य-मित्युक्तेन कुत इति प्रत्युक्तो ब्रूते आप्ताभिप्ररोतत्वादिति । तत्र त्वन्मते इदं त्वया कर्तव्यमित्यस्य त्वत्कृतिविषयत्वेनाप्ताभिप्ररोतमित्यर्थः । तत्र कुत इत्याकाङ्क्षायामाप्ताभिप्ररोतत्वादिति हेतुरयुक्तः स्यात् । तत्र यदि कर्तव्यमित्यस्य कृतिविषय इत्येतावन्मात्रं विवक्षित्वा हेतोरुपपत्तिं मन्यसे तर्हि ममापि तथैवास्त्विति भावः ।।
विध्यनुमानाच्चेति बाधकं निराह ।। नापि द्वितीयमिति ।। इष्ट-साधनत्वे इति ।। तथाचानुमानाच्चेति हेतोरसिद्धिरिति भावः ।
अस्तूदयनमतेऽयं दोष इत्यत आह ।। त्वत्पक्षेऽपीति ।। असिद्धौ चेति ।। इष्टसाधनत्वस्यार्थवादादसिद्धौ विध्यनुमापकाभावादित्यर्थः । अश्वमेधादेरिष्टसाधनत्वादिति हेतुना ह्यश्वमेधादिकं कृतिविषयतयाऽप्ताभिप्ररोत-मित्यर्थकः ‘‘अश्वमेधेन यजेत ब्रह्महत्यातरणकाम’’ इति विधिरनुमातव्यः । इष्टसाधनत्वस्यैवाज्ञाने विध्यनुमितिरेव नोदीयादिति भावः ।
नन्वर्थवादान्निश्चितमपीष्टसाधनत्वं कर्तव्यत्वरूपविधिव्याप्तत्वादिह च तस्यानुपलम्भेन कुण्ठितशक्तिकं न प्रवर्तयितुमीष्टे इति विधिकल्पनमित्य आह ।। व्यापकेति ।।