ननु क्षणिकब्रह्महत्यादिक्रियायाः..

४८. अथ सन्ध्यावन्दनाद्यकरणे दुरितसमर्थनम् ।

तर्कताण्डवम्

ननु क्षणिकब्रह्महत्यादिक्रियायाः कालान्तरीयनरकजनकत्वार्थं तत्र दुरितापूर्वं कल्प्यताम् । सन्ध्यावन्दनादिनित्याकरणे तु कथं दुरितकल्पनम् । सन्ध्याकालीनं यत्करणं तदभावस्य च स्थायितया नरकार्थं दुरितानपेक्षणात् ।

यत्तु–

‘‘नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।

 स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः’’

इत्यादौ नञर्थस्याभावस्य प्रतियोगिन्युत्कटाकाङ्क्षत्वादौ करणे-नान्वयः । अनन्तरं करणविशिष्टस्याभावस्य सन्ध्याकालेनान्वयः । न तु अभावोपसर्जनस्य करणस्य । तथा च सन्ध्याकालीनस्य करणाभावस्यास्थायित्वाद्दुरितं कल्प्यमिति ।

तन्न । कारीर्या आसन्नसमयोपलक्षितवृष्टेरेव फलत्ववदिहापि सन्ध्याकालोपलक्षितस्याकरणस्यैव हेतुत्वात्तस्य च स्थायित्वेन दुरितानपेक्षणादिति चेन्मैवम् ।

सन्ध्योपलक्षितमकरणं हि नतावदनित्यम् । निवर्तकाभावात् । निर्वर्तकं हि नैतत्कालीनं करणम् । तदसम्भवात् । नाप्यन्यका-लीनकरणम् । अविरोधात् । अविहितकाले सन्ध्योपासनेपि नरका-नुत्पत्तिप्रसङ्गात् । अकरणस्य नित्यत्वे तु यागे यागध्वंसस्य व्यापारत्वपक्ष इवात्राप्यकरणस्यानन्त्यात् फलानन्त्यं स्यात् ।

न्यायदीपः

एवं क्रियासर्वसाधारण्येनापूर्वं समर्थ्य नित्याकरणस्थेऽप्यपूर्वं साधयितुमाक्षिपति ।। नन्वित्यादिना मैवमित्यन्तेन ।। पूर्ववादिमुखेनैव पक्षान्तरमनूद्यापाकरोति ।। यत्त्विति ।। नोपतिष्ठति नोपतिष्ठते । छान्दसं परस्मैपदम् । पूर्वां सन्ध्यामिति योज्यम् ।। प्रतियोगिनीति ।। उपतिष्ठ-त्युपास्त इतिपदद्वयोक्तानुष्ठानरूपप्रतियोगिनीत्यर्थः ।

।। करणेनेति ।। सन्ध्यानुष्ठानेनेत्यर्थः ।। करणविशिष्टस्येति ।। सन्ध्यानुष्ठाननिरूपितस्य अभावस्येत्यर्थः ।। सन्ध्याकालेनेति ।। सन्ध्या-कालीनो यः सन्ध्यानुष्ठानाभाव इत्यन्वय इत्यर्थः ।

।। अभावेति ।। अभावं प्रति प्रतियोगितया गुणभूतस्य सन्ध्या-नुष्ठानस्य सन्ध्याकालेन सन्ध्याकालीनं यदनुष्ठानभित्यन्वयोनेत्यर्थः । करण-स्योपसर्जनत्वादभावस्यैव प्राधान्यादिति भावः ।

अस्त्वेवं त्वदुक्तन्यायेनाभावस्यैव सन्ध्याकालेनान्वयः तथापि स कालो न विशेषणं येनास्थायित्वं तद्विशिष्टाभावस्य स्यात् । किं तूपलक्षणमेवातो नास्थिरत्वमभावस्येति भावेनाह ।। कारीर्यामिति ।। ‘‘वृष्टिकामः कारीर्या यजेत’’ इति वाक्योक्तकारीरिनामकेष्टौ यथा अव्यवहितकालोपलक्षित-वृष्टिफलकत्वं न तु तत्कालविशिष्टवृष्टिफलकत्वं तथेत्यर्थः ।

।। अकरणस्यैव ।। करणाभावस्यैवेत्यर्थः । एवशब्दस्योपलक्षितस्यै-वेत्यन्वये तात्पर्यम् । नरकरूपफलस्य निरवधिकत्वापत्त्या ना भावस्य नरकहेतुत्वम् । किं तु तज्जन्यं सावधिकफलजनकमपूर्वमेव कल्यमिति भावेन तद्दोषदार्ढ्यार्थं तदनित्यत्वपक्षं तावन्निराह ।। सन्ध्येति ।। सन्ध्याकालोप-लक्षितं सन्ध्यादिनित्यकर्माननुष्ठानमित्यर्थः ।

।। एतत्कालीनमिति ।। सन्ध्याकालीनमित्यर्थः ।। असम्भवादिति ।। तत्काले विद्यमानस्य अकारणस्य तत्कालीनकरणेन निवृत्तेरयोगा-दित्यर्थः । एकस्मिन्नेव काले करणाकरणयोरयोगादिति भावः ।। नरका-नुत्पत्तिप्रसङ्गादिति ।। तदापादकस्य विहितकालसन्ध्याननुष्ठानस्य अविहितकालीनानुष्ठानेन निवर्तितत्वादिति भावः ।। यागध्वंसस्येति ।। प्राग्व्यक्तमेतत् ।

तर्कताण्डवम्

किञ्च दुरितापूर्वाभावे प्रायश्चित्तवैयर्थ्यम् । दुरितापूर्वान्यस्य तन्निवर्त्यस्याभावात् ।

न च प्रायश्चित्ताभावसहकृतमेवाकरणं नरकहेतुः । ब्रह्महत्यादावपि तत्प्रसङ्गादिति दिक् ।

।। सन्ध्यावन्दनाद्यकरणे दुरितसमर्थनम् ।। ४८ ।।

न्यायदीपः

ननु नरकस्य सावधिकत्वोक्तिपरवचनबलान्नित्यस्याप्यकरणस्य सावधिक फलजननस्वभावः कल्प्यत इत्यत आह ।। किञ्चेति ।। प्रायश्चित्तेति ।। अकरणनिमित्तप्रायश्चित्तेत्यर्थः ।। अभावादिति ।। तथा चाकरणस्या-निवर्त्यतया सत्यपि प्रायश्चित्ते नरकफलं स्यादेवेति भावः । सामग््रयभावादेव कृतप्रायश्चित्तस्य नरकफलाभाव इति चोद्यमति प्रसङ्गेन निराह ।। न चेति ।। तत्प्रसङ्गादिति ।। न चेष्टापत्तिः । तथात्वे–

‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’’ इति

‘‘ब्रह्मपारस्तवेनैव निष्कान्ता राजदेहतः’’

इत्यादौ निवृत्त्याद्युक्तिर्न स्यात् । प्रायश्चित्तस्य प्रतिबन्धकत्वे विहिता-करणस्यापि शुभकर्मप्रतिबन्धकत्वापत्त्या नरकहेतुत्वं न स्यात् ।

किञ्च प्रायश्चित्ताभावसहितस्याकरणस्य नरकहेतुत्वेन दुरितापूर्वापलापे ज्योतिष्टोमादिसाध्यमपूर्वमपि न स्यात् । अन्वयव्यतिरेकाभ्यां यागप्रागभाव-विशिष्टात्माभवस्यैव स्वर्गादिफलहेतुत्वोपपत्तेरात्मनः स्थायित्वेप्यनुष्ठितयागे तस्मिन् यागप्रागभावाभावेन यागप्रागभावविशिष्टात्माभावसम्भवात् । सत्यप्यकरणे प्रायश्चित्तदशायां प्रायश्चित्ताभावसहकृताकरणाभाववत् ।

न च यागस्यैव यागप्रागभावाभावरूपत्वात्कृतयागेपि यागनाशानन्तरं प्रागभावोन्मज्जनेन प्रागभावाभावस्याप्ययोग इति वाच्यम् । यागध्वंसस्यापि प्रागभावविरोधित्वात् । न च फलानन्त्यदोषः. प्रायश्चित्ताभावसहकृता-करणादेरपि नरकहेतुत्वे तद्दोषसाम्यात् ।

न च प्रायश्चित्तस्य दुरितनाशकत्वरूपफलाभावेपि कर्मान्तराधिकारा- सम्पादनं फलमस्विति वाच्यम् । महापातकातिरिक्तेन क्षुद्रपापे१नाधिकारा-भावात्तत्र प्रायश्चित्तवैयर्थ्यात् । अन्यथा यत्किञ्चित्पापवतोपि अकृतप्रायश्चित्तस्यानधिकारापातादित्याद्यभिप्रेत्याह ।। दिगिति ।।

।। सन्ध्यावन्दनाद्यकरणे दुरितसमर्थनम् ।। ४८ ।।